________________
द्वादशः सर्गः
२२३
इति सङ्कथां निशमयन्सुहृदः स निशामयन्सपदि तत्तदयम् ।
समराघवक्रमधुराजगती रतिमाप येन समवाप शिलाम ॥२९॥ इतीति-समबाप प्राप्तवान् , कोऽसौ ? सोऽयं लक्ष्मणः, काम् ! शिलाम् , कि कुर्वन् ! निशमयन् ऋश्वन , काम् ? सकायां वात्तीम् , कस्य ? सुहृदः हनुमतः, कथम् ? इत्युक्त प्रकारण, किं कुर्वन् ! निशाभयन् पश्यन् , किम् ? पदार्थसार्थम् , येन लक्ष्मणेन कृत्या आप, का ? जगती पृथ्वी, काम् ? रतिम् , कथभूता सती ? समराघवमधुरा धूमामय राधा राधपश्चाती काय सधवक्रमः राघवामस्य धुरा राघवक्रमधुरा, समा प्राअला राघवक्रमथुरा यस्याः सा तथोक्ता।
भारतीयपक्षे-समवाप, कोऽसौ १ सोऽयं विष्णुः, काम् ! शिल्लाम् , किं कुर्वन् ? निशामयन् , काम् ? सङ्कयां परस्पराकुटिलभानगम् , कस्य ? सुहृदो भीमस्य, कथम् ? इत्युक्त प्रकारण, किं कुर्वन् ? निशामयन् पश्यन् , किम् ? तत्सत्प्रसिद्ध वस्तुजातम् , किमाप अपि तु न प्राप्तवती, का १ समराधवक्रमथुराजगतिः अघवत्यापयत् वक्रोधवक्रः समरे मङमा मेऽवयकः समराधवक्रः स चासौ मधुश्च समराधवक्रामधुस्तस्य राजपतिः समराधवरामधुराजगतिरघवत्समरक्रूरमधुराज्यमित्यर्थः, काम् ? रतिम् , केन ? येन विष्णुनेति ॥२९||
ऋषिकोटिभीत इति जन्यभिया स्वगले निबध्य मदनेन नदीम् ।
प्रविविक्षणा खलु कुतश्चिदियं न शिलाहृतेति कलित हरिणा ॥३०॥ ऋषीति-न आहता अपि त्वाहता आनीतेत्यर्थः का ? इयं शिला, केन ? मदनेन रतिपतिना, कुतः ? कुतश्चित् , कथम् ? खट निश्चयेन, कथम्भूतेन ? प्रविविक्षुणा प्रवेश कत्तुमिच्छता, काम् ? नदीम् , किं कृत्वा ? पूर्व निबध्य काम् ? शिलाम् , क ? स्वगले, कया ? जन्यभिया जनापवादभवेन, कथमिति ? ऋभिकोटिभीत इति, हरिणा लक्ष्मणेन । भारतपशे-नारायगेन ॥३०॥
प्रभविष्यतः कलियुगाद्भयतो न खलूपगोप्य भुवि धर्मनिधिम् ।
यतिभिः शिलोपरिकृतेयमिति प्रवितर्कितं हलधरेण तदा ॥३१॥ प्रेति-तदा तस्मिन्काले प्रवितर्फित हलधरेण रामेण कथम् ? इति न कृता, अपि तु कृतव, का ? इयं शिला, कैः ? यतिभिः, कथम् ? उपरि, कथम् ? खलु निश्चयेन, किं कृत्वा ? पूर्वमुपगोप्य, कम् ? धर्मनिधिम् , कस्वाम् ? भुवि, कस्मात् ? भयतो भयात् , कस्माद्भयम् ? कलियुगात् कलिकालात् , कथम्भूतात् ? प्रभविष्यतः भाविनः । भारतपक्षे-हलधरेण बलभद्रेण ॥३१॥
हरिणा जिनाभिपवणान्मनसा जनताविर्यमुपपादयितुम् ।
निकटान्न पाण्डुकशिलागपतेः खलु साहृतेत्यवहितं हरिभिः ॥३२॥ मित्र हनूमानकी उक्त सुन्दर चर्चाको सुनता हुआ तथा उन-उन रमणीय पदार्थीको देखता हुआ यह लक्ष्मण अनायास ही कोटि-शिलापर पहुँच गया था जिसके द्वारा संतुलित रघुवंशियोंके चरणोंकी आधार पृथ्वीको प्रसन्नता हुई थी मित्र भीमकी निष्कपट समीचीन उक्त बाते सुनता हुआ तथा उन-उन वास्तविकताओंको समझता हुआ श्रीकृष्णा कोटिशिलापर पहुँच गये थे जिसके कारण युद्धमें होने वाले पापोंके कारण कर-आचरण दैत्य मधुके राज्यको प्रसन्नता नहीं हुई थी ॥२९॥
इस घनमें तपलीन करोड़ों ऋषियोंसे डरे, लोकापवादकी आशंकासे कामदेवके द्वारा तो कहींसे यह शिला इसलिए लायी गयी होगी कि इसे गले में बाँधकर वह नदी में डूब जायगा पसी कल्पना हरि लक्ष्मण अथवा कृष्णके मनमें आयी थी ॥३०॥ - उस समय राम अथवा घलरामके मनमें यह विचार भी आया था कि भविष्य में बलपूर्वक आने वाले कलियुगके भयसे धर्मकी निधिभूत इस शिलाको भूमिके भीतर छिपाके रख दिया गया था किन्तु यतियोंने इसे भूमिके ऊपर कर दिया है ॥३१॥