________________
द्विसन्धानमहाकाव्यम्
इहेति-इह प्रदेशे सलताः ताभिः सह वर्त्तमानाः मण्डपभुवः भान्ति, कथम्भूताः ? सवितर्दिकाः वेदिकासहिताः पुनः गिरिपतत्सलिला गिरिभिः पतत्सलिलं यासु ताः क्षोणीधरप्रक्षरज्जाः, का इव १ पथिकानध्वगान् अपदिश्योद्दिश्य शुचौ ग्रीभे वनदेवताभिः मिथः परस्परं रचिताः प्रपाः पानीयशालिका इव ॥ २५ ॥ पतितस्तरोः शकुनिविष्टिचितः शरैरितोऽशपथ क्रियया ।
उपयुक्तमुक्तसित तण्डुल कैरवभाति कीर्ण इव पर्णचयः ||२६||
पतित इति - इतोऽस्मिन्प्रदेशे तरोः वृश्चात् पतितः शकुनिविष्टिचितः विहगामध्ययुक्तः पर्णचयः पत्रसमुदोऽवभाति शोते, क इव ? शरैः कर्तृभिरपयुक्तमुक्त सिततण्डु के रुपयोगी कृतोज्झितश्वेत तण्डुलसमूहैः कीर्ण इव, कया ? अर्कशपथक्रियया सूर्याजा - (च) विधिना ॥ २६ ॥
२२२
॥२७॥
कुसुमं धनुर्मधुलिहोऽस्य गुणः शुककूजितं समरसूर्यरवः । मदनस्य साधनमिदं प्रचुरं सुलभं न साध्यमिह तद्विपि कुसुममिति-इह विपिनेऽस्मिन्कान्तारे मदनस्य कन्दर्पस्य यत इदं साधनं विद्यते, कथम्भूतम् ? प्रचुश्म्, पुनः सुलभं सुप्रापम्, तद्यथा कुसुमं धनुर्जायते, मधुलिहो भ्रमरा अस्य धनुषो गुणो जायते, तथा शुककूजितं कीरध्वनिः समस्तूर्यरवः रणवाद्यशब्द इति साधनम्, तत्तस्मात् साध्यं सुलभं न, अपि तु सुलभमेवेति काकुः ॥२॥
त्रिदिवेच्छया व्रतमित्यजनैः क्रियते न मुच्यत इदं दिविजैः । तदिदं वनं दिवमवैमि दिवं शतशीर्णकल्पतरुशेषहताम् ||२८||
त्रिदिवेति-इहत्य जनै रिहसम्भूतैर्जनैः त्रिदिवेच्छया व्रतं क्रियते विधीयते, त्रिवर्गाणामन्योन्यव्याघातोस. तत्वाद्यथावृत्तिकेन धर्मार्थकामाचरणलक्षणेन धर्मेण दीव्यते गम्यते प्राप्यत इति यः प्रदेशः स त्रिदिवस्तस्येच्छया, तथा न मुच्यते न परित्यज्यते, वि.म् ? इदं वनम् कैः १ दिविजैः देवैः तत्तस्मादवैमि जानामि, किम् ? इदं वनम् काम् ? दिवं स्वर्गम्, तथाऽवैमि काम ? दिवम् कथम्भूताम् १ शतशीर्णकल्पतदशेषहतां शतशीर्णाश्च ते कल्पतरवस्तेषां शेषस्तेन हताम् इदमैतिह्यमत्र, इह वने नन्दनाय मानकल्प के लिसुखं प्रपन्नेषु देवेषु दिव्यसुखं मन्यमानेषु सत्सु मनुष्याणामिव सुधापान सन्तृप्तमानस्तया प्रसिद्धानां फल्ादिभक्षणाभावात् सफल्तानुयोगत्यात्कल्पतरुभिरेवमेव शीर्यते स्मेति भावः ||२८||
"
पर लताओं से घिरी हुई, मध्य में वेदी से युक्त तथा पर्वतोंसे उतरती छोटी-छोटी जलधाराओं से शोभित मंडप-भूमियाँ हैं । वे ऐसी लगती हैं- मानो वनदेवताओंने पथिकों की सुविधाकी दृष्टिसे परस्परमें विचार करके ग्रीष्मऋतु के लिए पियाऊपं स्थापित कर दी हैं ||२५|| इस ओर वृक्षों से घिरी तथा पक्षियोंकी वीटसे व्याप्त पत्तोंकी राशि वैसी प्रतीत होती है जैसी कि भीलोंके द्वारा की गयी सूर्य की पूजा के उपयोग में आये और पूजा-समाप्तिपर इधरउधर बिखेर दिये गये तण्डुल लगते हैं ॥२६॥
पुष्पराशि रूपी धनुष, भ्रमर पंक्ति रूपी उसकी ज्या तथा शुक, आदिकी कूजरूपी युद्ध-भेरियोंकी ध्वनि ये सब कामदेवकी समरयात्राकी साधन-सामग्री इस वनमें प्रचुर मात्रा सुलभ है किन्तु समस्या यही है कि कोई जेय नहीं है ||२७|
यहाँ उत्पन्न मनुष्य स्वर्गकी इच्छासे व्रत, नियमादि का पालन करते हैं और अपनी रमणीयता के कारण यह वन स्वर्गके देवों द्वारा कभी भी नहीं छोड़ा जाता है । अतश्च मैं इस बनको स्वर्गीय नन्दनवन ही समझता हूँ। और सोचता हूँ स्वर्गका नन्दनवन अनुपयुक्त फलों से लदे वृक्षोंके कारण नष्ट हो रहा होगा ||२८||
१. अत्रातिशयोक्तिः - प०, ६० ।