________________
द्वादशः सर्गः
बिन्दुत्करबासनावासिततनुरित्यर्थः । पुनः समहिमा समं हिमं यस्य सः सर्वजनतापहारकतया प्रशस्य इत्यर्थः, पुनरमजवः प्रधानवेगः मयूरपिच्छभेदीत्यर्थः । पुनः शरच्छवि वारिरूपताभितः प्रासः, कथम्भूतां शरच्छविम् ? सरसां रसिकाम् । अत्र तात्पर्य जललवसमालम्बिततयाऽतिसूक्ष्मसूक्ष्मस्वभावताप्रतिपन्नान् पयःकणान् पक्षरतीत्यर्थः । अतएव शिशिरः शीतला, क इवोत्प्रेक्षितो मरुत् ! ऋतुमूर्तिरिख, पण ऋतूनां मूर्तिरिव तद्यथा शरच्छरत्कालः स लोकप्रसिख धनागमः प्राट् , तथा शुचिः ग्रीष्मः, तथा सुरभिर्वसन्तः, तया सम हमो हेमन्तः, कथाभूतः सन् ? छवि स्वच्छतामितः, केषाम् ? सरसो सरोवराणां तथा शिशिर एते षड्तवस्तमनुजग्मुरिवेति ||७||
वचनातिपातमटवीमटवीं सधुनी धुनीमभिनिवेशमगात् ।
सलतागृहान्वसतिरम्यतया तरसाभिपादमभिपादमगात् ॥८॥ वचनेति-अगात् गतवान् , कः १ स विष्णुः, कथम् ! तरसा शीघ्रम् , किं कृत्वा ? पूर्वमतिपातमतिकम्य, काम् ? अटवीमधीम् , अरण्यानीमरण्यानीम् पुनः किं कृत्वा ? पूर्वमभिनिवेशं प्रविश्य, काभ् ? धुनी धुनीम् , तरङ्गिणी तरङ्गिणीम् , पुनः किं कृत्वा ! पूर्वमभिपादमभिपादं प्रपद्य, कान् ? अगान् पर्वतान् "अगानित्यत्र चिवृक्षानिति व्याख्यानयन्ति” । कथम्भूतान् ? सलतागृहान्, कया ? वसतिरम्यतया मन्दिरमणीयतयेति ॥८||
पथि पाण्डुराजकुलवृद्धिमतः किल केशवं मुखरयन्ककुभः ।
इति भीमसेन उचितावसरं सरसं जगाद स मरुत्तनयः ॥९॥ पीति-किल लोकोक्तौ शास्त्रोक्तौ वा । अतः कारणाजगाद उक्तवान् को सौ १ स मरुत्तनयो हनूमान् , कम् केशवं लक्ष्मणम् , क ? पथ्यध्वनि, कथं यथा भवति ? उचिता बसरं योग्यप्रस्तावं पुनः सरस पुनः पाण्डुनिर्मलं परीक्षाक्षोदक्षमगित्यर्थः, कथम् ? इति वक्ष्यमाणप्रकारेण, किं कुर्वन् ? ककुभ आशा मुखरयन् शन्दयन् , कथाभूतः १ भीमसेनः भीमा रोना यस्य सः, अथवा भीमा चासौ सा च भीमसा तस्या इनः भीमसेन, शत्रूणां प्रध्वंसनवशात्परमोत्कर्ष प्राप्ता या लक्ष्मी तस्या प्रभुरित्यर्थः । कथम्भूतं केशवम् ? राजकुलवृद्धिं राजकुलस्य नरेन्द्रसमूहस्य वृद्धिर्यस्य स तथोक्तस्तम् , तस्य लक्ष्मणस्यानेकेषां भूमिपालानां मेलापकोऽभूदित्यर्थः । अथवा पाण्डुराजकुलवृद्धिं पाण्डुरं निःपापं तथा विशदम, अजनामा नृपो दशरथस्याद्यः पुरुषः, अजस्य कुलमजकुलं पाण्डुरच तद जकुलश्च पाण्डुराजकुलं तस्य वृद्धिर्यस्मात् तम् |
भारतीयः-भीमसेनो वृकोदरः कथम्भूतः १ पाण्डुराजकुलवृद्धिमतः पाण्डुराजकुलस्य पाण्डुराजान्ययस्य नृद्धी मत इष्टः, पुनरुत्तनयः मरुतः देवाः सन्त्यस्य महत्तः 'पर्वमरुभ्यां तः', इति सूत्रेण तप्रत्ययः, महत्तस्येव शक्रस्येच नयो नीतिर्यस्य स तथोक्तः शेष तुल्यम् ।।९।।
शशिनस्तुलां समुपयाति कुलं भवतो यतेरुपशमश्च विधाम् ।
तव पौरुषं स्वसदृशं भुवनं भ्रमदव्यपेक्ष्य भुजयोरजरत् ॥१०॥ बहता फलतः मूर्तिमान छहाँ ऋतुयुक्त पचन उसके पीछे-पीछे बह रहा था [घनागमसे वर्षा, सरस छवि शरद, शीतलताले शिशिर, सम-हिमसे हेमन्त, सुरभि धन पुष्प युक्त बसन्त तथा निजशुचि ग्रीष्म] ॥७॥
कहीं पर जंगलके बाद जंगलोंको पार करता, नदियोंसे समन्धित नदियोंको घुसकर लाँधता, और लताकुजोंसे व्याप्त एवं सब तरफसे वृक्षों द्वारा आच्छादित पर्वतोंको पैदल ही पैदल भवनकी रमणीयताके साथ चढ़ता-उतरता यह वेगंसे चला जा रहा था ॥८॥
भीषण सेनाके स्वामी उस पचनञ्जयके पुत्र हनुमानने धवल कीर्तिधारी राजा अजके कुल (रघुवंश)की वृद्धिकी दृष्टि से उचित अवसर देखकर दिशाओंको [जाते हुए निम्न सरस वचन लक्ष्मणजीको कहे थे [राजा पाण्डके वंशकी प्रतिष्ठाभूत इन्द्र के समान नीतिश (मरुत्तनय) भीमने श्री कृष्णसे वचन कहे थे] ॥९॥॥