SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः अथ वानराधिपतिभिः प्रबलैः परमः पुमान्चलयुतोऽनुगतः । श्रुतविक्रमश (मि) भि: प्रयौ विनयैर्विभूतिमिव सिद्धशिलाम् ॥१॥ अथेति - अथशब्दोऽत्र मन्त्रकथनानन्तर्यार्थी बोद्धव्यो मङ्गलार्थो वा गृह्यते । प्रययौ प्रकर्षेण गतवान्, कः ? परमः पुमाँ लक्ष्मणः, काम ? सिद्धशिला कोटिशिलानामधेयां दृषदम् कथम्भूतः सन् ? अनुगतः, कैः १ वानराधिपतिभिः सुग्रीवप्रभृतिभिर्वानिरेन्द्रः कथम्भूतैः १ प्रबलैः प्रकृष्टसामर्थ्यवद्भिः पुनः श्रुतविक्रममशमिभिः शास्त्रपौ रूपोपशमवद्भिः । कथम्भूतः परमः पुमान् ? बल्युतः रामयुक्तः, कामिव ? विभूतिमिव यथा सम्पदं विनयैरनुगतः सन् पुमान् प्रवासीति शेषः । भारतीयः - अथवा परमः पुमान्नारायणः सिद्धिशिलां प्रययौ कथम्भूतः सन् अनुगतः कः ? नराधिपतिभिः समुद्रविजयादिभिभूतैः कथम्भूतैः १ प्रबलैः प्रकृष्टवलसैन्ययुक्तः पुनः कथम्भूतेः १ श्रुतविक्रमप्रशमिभिः, कथम्भूतः परमः पुमान् ? बलयुतः बलभद्रयुतः, कामिव १ विभूतिमिव यथा विनवैरनुगतः सन् मानवो विभूति प्रातीति ॥१॥ अनुजग्मुरेनमनुकूलतया हरिवंशजाः सुखचरा बहवः । व्यवसायमायनिचया इव तं किममी न वाततनयप्रमुखाः ||२|| अनुजग्मुरिति किं नानुजग्मुरपि त्वनुजग्मुरेव के ? अमी हरिवंशजाः सुग्रीवादयो नरेन्द्राः कम् ? तमेन लक्ष्मणम्, क्या ? अनुकूलतया आनुकूल्येनात्तयेत्यर्थः, कथम्भूता हरिवंशजाः । सुखचराः प्रशस्त्रविद्याधराः, पुनर्ऋततनयप्रमुखाः हनुमत्प्रभृतयः, कतिसंख्या: ? बहवः प्रचुराः क इव कं यथा ? इव यथा आयनिचयाः द्रव्य प्रवेशद्वाराणि व्यवसायमुद्यममनुगच्छन्तीति । भारतीयः - इरिवंशजाः यादवान्वयसमुत्पन्नाः भूपाल्यः तं नारायणम्, सुखचराः सुखेन वर्त्तमानाः, पुनराततनयप्रमुखा विस्तीर्ण नीतिप्रमुखाः । शेषं समम् ||२|| रविमण्डलोत्थित इवान्य इव स्वयमन्यजन्म गतवानिव सः । नरभीमयोजन सुदुःसहया प्रभया परिष्कृतततुः शुशुभे ॥ ३ ॥ रवीति - सलक्ष्मणः शुशुभे कथम्भूतः ! प्रभया परिष्कृततनुरलङ्कृतशरीरः वयम्भूतया ! जनानां मुदुःसहयातिशयेन सोकुमशक्यया, कथम्भूतः १ नरभीमयो नराणां भयहेतुः क इवोत्प्रेचितः ? रविमण्डलोत्थित सूर्यविम्वात्समुत्पन्न इव, तथाऽन्य इवोत्प्रेक्षित इव स्वयमात्मनाऽन्यजन्म गतवानिव । मंत्रणा वाद, घड़ी सेनाओंके स्वामी, शास्त्र, पराक्रम तथा प्रशमधारी वानरवंशी राजाओंसे अनुगत, बलभद्र (राम) के साथ परम पुरुष लक्ष्मण उसी प्रकार कोटिगिलाको गया था जैसे चिनम्रता से अनुगत विभूति जाती है [समुद्रधिजय आदि राजाओं से अनुयात बलरामके साथ परमपुरुष कृष्ण उसी प्रकार कोडिशिला जाती है] ॥१॥ हरिवंश में उत्पन्न ये बहुत से उत्तम विद्याधर (सुखचरा) हनुमान आदि अनुकूल होने के कारण क्या उस लक्ष्मणके पीछे पीछे वैसे ही नहीं गये थे जैसे उद्योगशीलता के साथ सम्पत्तिके आगमन मार्ग चलते हैं [ यादववंशमें उत्पन्न बहुतसे सुख से जीवन बिताते तथा विस्तृत नीति के प्रमुख संचालक अनुकूलता के कारण क्या उस कृष्णके हैं] ॥२॥ अत्यन्त परिष्कृत शरीर होनेके कारण लोगोंके लिए भयकारक वह लक्ष्मण, जनसाधारण के लिए न सहने योग्य अपनी कान्तिके द्वारा ऐसा सुशोभित हुआ था कि वह सूर्य १. सर्गेऽस्मिन् प्रमिताक्षर वृत्तम् ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy