________________
२१२
द्विसन्धानमहाकाव्यम्
खमिति-दे श्रीमहामङ्गल, कथं न बेसि, कः ? स्वम् , कम् ! कुम्भकर्ण कुम्भकर्णनामधेयं रावणानुजम् , कथम्भूतम् ? वान्याकुमारं कन्येव कुमारोऽपरिणीतः पुमान् कन्याकुमारोऽभिधीयते, तं कन्याकुमार परिणेतारं वरमित्यर्थः । कस्या वरम् १ ( वर ) वीरलक्ष्म्याः ( श्रेष्ठ ) जयश्रियः (कथा) पूर्णः, कः ? स्थश्चकवरणः, कासु आशासु दिक्ष, कस्य ? यस्थ, कथम् ! समं युगपत् , तथा मनोरथश्च पूर्णः, कस्य ! यस्य, कासु ! आशासु वाञ्छामु !
भारतीय:-हे महामङ्गल ! हे कुम्भ ! हे वर ! कस्याः ? वोरटम्या:, किन घरिस, तं कर्ण कर्णनागधेयं नरं कौरवबलाध्यम् , कायम्भूतम् ? कन्याकुमार कन्यायाः कुमारस्तं कुमारीपुत्रमित्यर्थः । शेपं समम् ॥३६॥ द्विपन्मारीचोद्यप्रबलरथवेगो दिशि दिशि
स्वयं गजेन्द्रोणो रणशिरसि केनाथ विधृतः । सदाप्युच्छ्वासेनोच्छसिति भुवनं यस्य सकलं
स कैार्यो दुर्योधन इह बलेनेन्द्रजिदसौ ॥३७॥ द्विषदिति-स मारीची मारीचनामधेयो रावणमातुलः, केन विधृतः, अपि तु न केनापि, छ ? रणशिरसि युद्धमूर्द्धनि, किं कुर्वन् ? द्विषन् , कथम् ? अन्य साम्प्रतम्, कथम्भूती मारीचः ! द्रोणो मेघः, कयम् ? स्वयं स्वरूपेणात्मनेत्यर्थः किं कुर्वन् ? गर्जन गर्जितं कुर्वन्, पुन: प्रबलरथवेगः प्रबलो रथवेगी यस्य य तथोक्तः, छ ? दिशि दिशि, अथवा असाविन्द्रजिन्नामा रावण पुत्रः कैटिश्रः कैः प्रतिध्यः, छा ! इह रणशिरसि, अपि तु न कैरपि । कथम्भूतः सन् ? दुर्योधनः दुःखेन योद्धुं शक्यः, यस्येन्द्रजितः श्वासेन सकलं भुवनमुच्छ्वसित्युच्छ्वास करोति ।
मारतीयः पक्षः-स द्रोणो धनुर्विद्यायां प्रसिद्धो द्रोणाचार्यनामधेयो गुरुः केन रणशिर्रास विधृतः न केनापि, किं कुर्वन् ? स्वयमात्मना गर्जन् ? कथाभूतः १ द्विषनारी द्विषतो भारयतीत्येवं शीलः शत्रुविनाशक इत्यर्थः । पुनश्नोद्यप्रचलरथयेगश्वोद्य आश्चर्याभूतः अथवा चकारोऽत्र, उद्यप्रबलरथस्य वेगो यस्य सः तथोक्तः, क दिशि दिशि, अथासौ दुर्योधनः दुर्योधननामधेयो गान्धारीपुत्रः कौरवाधिपः ऊवार्यः, क ? इह रणशिरसि, अपि तु न कैरपि, कथम्भूतः ? बलेन शरीरसामर्थेन चतुरङ्गसैन्यलक्षणेन घा इन्द्रजिदिन्द्रस्य जेता । शेपं प्राग्वत् ॥३७॥
हे लक्ष्मी तथा कल्याणके भाजन सुग्रीव ! वीरता रूपी श्रेष्ठ लक्ष्मी के लिए बालब्रह्मचारी (कन्याकुमार) वर रावणके अनुज उस कुम्भकर्णको नहीं जानते हो । जिसके स्लमरत दिशाओं में व्याप्त रथको साथ साथ मनोरथ भी पूर्ण हो गये हैं [ हे श्री के वर, तथा महामंगलमय कलश ! क्या आप वीरलक्षीके कर्ण समाज कुमारी कुन्तीके पुत्र सिन्धराज कर्णको नहीं जानते हैं । जिसके...""] ॥३६॥ ।
समस्त दिशाएँ जिमले तीव रथके वेगसे आज आक्रान्त हैं और गरजते हुए मूर्तिमान प्रलय मेघ (द्रोण) तुल्य है उस शत्रु रावणके मामा मारोचको युद्धमें कौन रोकेगा? जिसकी साँसके द्वारा सर्वदा ही सारे जगत्की साँस फल जाती है तथा जो भीषण युद्ध करता है उस इन्द्रजीतको यहाँ शुद्ध में किसके द्वारा परास्त किया जायगा ? [शत्रुओके संहारक, सब दिशाओंमें प्रबल वेगाल रथको बढ़ाते हुए तथा क्रोधसे गरजते हुए उस द्रोणाचार्यका (स्वयं गर्जन-द्रोणः) घोर संग्राममें किसके द्वारा प्रतिरोध किया जायगा ? सेनाके द्वारा इन्द्रको भी जीतनेमें समर्थ (बलेन-इन्द्रजित्) कौरव-राज दुर्योधनका युद्ध में कौन सामना करेगा क्योंकि उसकी आशासे सकल भुवन व्याप्त हैं] ॥३७॥
१. शिखरिणीवृत्तम्।