SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः चात् पुरुषोऽपि बलोरिनीयते, अत्यथ बलवतः पुनर्विषतां विपक्षाणां निहन्तुः, पुनरवद्यवृत्तस्य निरवा. चरणशीलस्य पुनः कीर्तिभाजोऽपि, कथम्भूता नीतिः १ विपदा विपत्तीनां विहन्त्री विध्वंसिनी पुनः सम्पदा कामदुधा कामान् दोग्धीति सा, केय ? मातेव यथा जननी सर्वार्थसम्यादयित्री स्तनन्धयानां नाबमान्या तथा नीतिरपि ||३३॥ विद्यापलेन विभवेन पराक्रमेण चिन्त्यस्त्वया बलवता वलवान्विपक्षः । दण्डारणिप्रकृतिरग्निरिवान्तरुत्थ स्तापं तनोति हि महानुभयोर्विमः ॥३४॥ वियोति-बलवता त्वया का विपक्षः शत्रुः चिन्त्यश्चिन्त्यनीयः, केन चिन्त्यः ? विद्यालेन विद्याश्चतल आन्वीक्षिकीयोवाच दण्टनीतितक्षणास्तासां बटेन सागर्थेन, तथा विभयन विभूत्या तथा पराक्रमण पौरुषेण, कथम्भूतो विपक्षः ? बलवान् हि यतस्तनोति मिदः संग्रामः, कम् ? तापम् , कयोः १ सयोमायोनरेन्द्रयोः, कथम्भूतो विगदः १ महान् , यः इव ? अग्निरिव याग्निस्तनोति तापम् । कथाभूतोऽग्निः ? दण्यारणिप्रवृति: दण्डो मनिकाप्टम् अरणिरधाकाष्टम् , दाइ भारणिय दण्डारणी त एवं प्रकृतिसत्पत्तिकारणं यस्य स दण्डपाणिप्रकृतिः । धुनः कथम्मूतः ? अन्तरुत्थः मध्यसमुत्पन्न 'इति ॥३४॥ नयस्य शौर्यस्य धनस्य कीर्वाग्देवतायाः सततं श्रियश्च । मध्यस्थभावेन कृताभिवृद्धिर्विभीपणः किं विदितो न भीष्मः ॥३५॥ नयस्येति-किं न विदितः, कः ? विभीपणो विभीषणनामधेयो रावणानुजः, कथम्भूतः ? भीमो भयानकः, पुनः कथम्भूतः ? कृताभिवृद्धिः विहितोपचयः, कस्य ? नयस्य तथा शौर्यस्य तथा धनस्य तथा कीस्तथा धाग्देवतायाः सरस्वत्याः श्रियश्च, अत्र वासनार्थोऽभिधीयते आस्मापेक्षी नयः, आत्मनिरपेक्ष शौर्यम् , बहिरङ्गं धनम् , हिरण्यादिबाह्या पुण्यावाप्तिः कीर्तिः, कर्मारम्भाणामुपायशास्त्रं वाग्देवता, कर्मफलोपभोगानां विभवानुभवः श्रीः, केन कृत्वा कृताभिवृद्धिः ? मध्यस्थभावेन समवृत्या, कथम् ! सततमनवरतमिति । भारतीयः पक्षः-किं न विदितः किं न विज्ञातः, कः भीष्मो गायनामा कौरवचलनेता, कशम्भूतः ? विभीषणो भयङ्करः ॥३५॥ त्वं श्रीमहामङ्गल कुम्भकर्ण कन्याकुमारं वर चीरलक्ष्म्याः । समं रथो यस्य मनोरथश्च पूर्णस्तथाशासु कथं न वेत्सि ॥३६॥ यशस्वी आपको माताके समान नीतिको अवज्ञा नहीं करनी चाहिये। क्योंकि नीतिपथ ही विपत्तियों का विनाश करता है तथा अभिलषित अर्थोंको सहज ही जुटाना है ॥३३॥ स्वयं बलशाली आपके द्वारा उद्धत तथा वली शत्रुका, आन्धीक्षिकी आदि विद्याऔकी दृष्टिसे, सम्पत्ति साधनोंकी अपेक्षा तथा पराक्रमक आधारसे विचार किया जाना चाहिये । क्योंकि घिसने और घिसी जानेवाली लकड़ियोंके बीचसे उत्पन्न स्वाभाविक आगके समान संग्राम भी दोनों पक्षीको महान् कष्ट देता है ॥३४॥ - मध्यम मार्ग अथवा मध्यस्थताको धारण करके नीति, शौर्य, धन, वाग्देवी, सरस्वती तथा लक्ष्मीकी अनवरत वृद्धि करता हुआ वह दृढ़ रावणका भाई विभीषण अथवा अत्यन्त भयंकर कौरवोंका सेनापति भीष्म क्या आपको विदित नहीं है ? ॥३५॥ १. घसन्ततिलकावृत्तम् । २, उपजातिः ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy