SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः येषां तैः । पुनः कथम्भूता ? चालिता, चर्चिता ! कैः ? नरोत्तमैजिनसेनादिभिराचार्यैः । केव चारिता ? कोटिशिलेव । कैः ? नरोत्तमैनारायणैः । अत्र लोकघूज्यत्वाद्बहुवचनम् । कथम्भूतैस्तैः ? कृतावतारायतिपुण्यनायकविहितावतारदीर्घदेवप्रधानैः । पुनरजातशत्रुप्रमुखैरिति सम्बन्धः । अथ भारतीयपक्ष:--.नया नूतना सर्वदेयं कृतिरय॑ते । केन सुखेन त्वा । कीदृशी ? कृतावतारा । क? नरोत्तमैधीरोदात्तगुणास्पदैवारः । कीदृशैः १ अजातशत्रुप्रमुखैर्युधिष्ठिरप्रमुत्रैः । पुनः कीदौः ? नराधवारिभिः, नरोर्जुनः, अर्घ विघ्न यारपती त्येवंशीलोऽघवारी, नरोऽधवारी येषां तैनराघवारिभिरिति कवेभिप्रायः। अथवा नराणां मनुष्याणामधं पापं वारयन्तीत्यधवारिणस्तैस्तथोक्तः । “राज्ञि धर्मिणी धर्मीठाः, पापे पापा समे समाः । राजानमनुवर्त्तन्ते यथा राजा तथा प्रजाः ॥" [चा. नी. द. १३॥८॥ ] इति वचनात् कवेर्ने भिचन्द्रस्वाशयः । चालिता प्रवर्तिता। कैः ? नरोत्तमैः समन्तभद्रादिभिः सूरिभिः । यथा नरोत्तमैः' कोटिशिला चालितोस्थिताः । अत्रोभयेषामाचार्यनारायणानां विशेषणानि' ज्ञातव्यानीति सम्बन्धः । अत्र इलेपोपमा ॥८॥ अथापरागोऽप्यपरागत्तां गतः स पश्चिमोऽपि प्रथमो विपश्चिताम् । अनुज्ञया वीरजिनस्य गौतमो गणाग्रणीः श्रेणिकमित्यवोचत ॥ ९ ॥ अथति । अथशब्दो मङ्गलवाची । उक्तञ्च-“हेतौ निदर्शने प्रश्ने स्तुतौ कण्ठसमीकृतौ । आनन्तयेधिकारार्थे माङ्गल्ये घाथ इष्यते ॥" गणाग्रणीगौतमो गणधरः । श्रेणिक मगधदेशस्वामिनं प्रति इति वक्ष्यमाणापक्षया अबोचतावादीत् । अनुज्ञयाऽऽज्ञया । कस्य? वीरजिनस्य,वर्द्धमानत्य 'चतुर्विशतितमतीर्थकरत्य । कीदृशो गौराम: ? अपरागोऽप्यपरागतां गतः अपरागतां वाच्यतां गतोऽपि कथमपरागो रजोमलरहितो भवतीति बिगद्धम् । परिहियते-अव्ययानामनेकार्थत्वादपिशब्दोऽत्र कारणाथै गम्यते । अपि यस्मात्कारणात् , अपरागतां गतः-पष्टे क्लुनि माद्यन्भिनकलत्रादौ प्रीतिः रागः, अपगती रागो यस्य सः तथोक्तस्तस्य भावोऽपरागता तो पातिराहित्यं गतः प्राप्तोऽत एवापराग ऐनोमलरहित इति सुस्थम् । कीदृशाः पुनः ? विपश्चिता विदुषां प्रथम ___ अन्वय- कृतावतार-आयतिपुण्यनायकैः अहातशत्रुप्रमुखैः नरोत्तमैः राघवारिभिः चालिता इयं नवा कृतिः कोटिशिलेव केन न अर्च्यते । अबतार कर्ता, भावी पीढ़ी के लिए आदर्श चरित्र, तथा जिनके सामने आनेका शत्रु साहस नहीं करते थे। ऐसे नारायण रामचन्द्र जी तथा उनके शत्रु (रावण) के जीवनसे प्रचलित इस नयी काव्य ( रामायण ) कथाको कोटिशिलाके समान कौन नहीं पूजेगा ? अर्थात् सभी पूजेंगें। अन्वय--....."नराघवारिभिः नरोत्तमैः चालिता इयं कृतिः केन वा कोटिशिलेव न अय॑ते । मनुष्य पर्यायको प्राप्त, भविष्यके लिए अनुकरणीय चरित्रवान् तथा युधिष्ठिरको (गजा अथवा बड़ा भाई ) माननेवाले पाण्डवों तथा अर्जुन अथवा मनुष्य मानके पापोंके विनाशक शलाकापुरुप श्रीकृष्ण तथा नेमिचन्द्र के जीवनसे प्रारब्ध इस काव्य ( महाभारत) कथाकी कोटिशिलाके समान कौन व्यक्ति पूजा नहीं करेगा ? ॥८ अन्वय-अपरागोऽपि अपशगतां गतः पश्चिमोऽपि विपश्चितां प्रथमः गणाग्रणो गौतमः वीरजिनस्य अनुज्ञया श्रेणिकम् इत्यवोचत । __अपवादभाजन होकर भी रजोमलरहित तथा अन्तमें हो कर भी पीछेके नहीं; पहिले गांतम गणधर [विरोधाभास है , परिहार ] मित्र, कलत्रादि इष्ट जनोंकी प्रीति रहित अतएव पापमल हीन महावीरप्रभुके तुरन्त बाद हुए तथा इस युगके आचायोंके अग्रणी 1. कीदृशैः यतिपुण्यनायकैः । यसिषु प्रतिषु मध्ये पुण्याः प्रधानाः नायकाः स्वामिनस्तैः-५०, १०। २. अजासरिपुसम्मुखैः- प०, द.। ३. निराकरोती- पा० । ४. पुरुषोत्तमैः- ५०। ५. पूर्वोक्तानि. ५०.५० १६. चतुर्चिश- ५०, द.। ७. रजोमल-न। ८. विद्वज्जनानाम्-५०, द.।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy