SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः यस्यां नाथाः सप्रभावानराणां हित्वास्थानी तां ययौ मन्त्रशालाम् । क्षुण्णैः कैश्चिन्नीतिमानेकपीनां विद्यास्वयॊ दीप्रभावासुदेवः ॥१॥ यस्मामिति-ययौ गतवान् । कोऽसौ ? देवः, वेषाम् ? कपीना शाखामृगाणां सुग्रीव इत्यर्थः । काम् ? मन्त्रशालाम् , कथम् ? कैः १ मल्लिभिः, कथम्भूतैः १ क्षुष्णैः कृताभ्यासैः, कासु ? विद्यासु व्याकरणतर्कालङ्कारादिलक्षणासु, कयम्भूतासु ? दीप्रभावासु दोनो भावः स्वरूपो यासा ताः दीप्रभावाः, अथवा दीपः संशयमारित्यागतया विशदः, भावी हेयोपादेयलक्षणविवेचक; परिणामो यासु तास्तथोक्तास्तासु, कतिसरव्योपेतः ? कैश्चित् त्रिभिश्चतुर्भिवा । कथं देवः ? अध्यः पूज्यः क्व सति ? नीतिमाने नीतिश्च मानश्च नीतिमानम् । अत्र समाहारापेक्षय कवचनं तस्मिन्नीतिमाने, नीतिमान् मानी च सन्नध्य इत्यर्थः। किं पूर्व मन्त्रशालायां ययौ ? हित्या परित्यज्य, काम् ? तामारथानी सभाम् , यतो यस्यामभूवन् , के ! नाथाः स्वामिनः, कथम्भूताः ? सप्रभास्तेजस्विनः, केषां नाथाः ? वानराणामिति । भारतीयः-ययो, कोऽसौ ? वासुदेयो नारायणः, काम् ? मन्त्रशालाम् । कथम् ? सह, कै? मन्त्रिभिः । कथम्भूतैः ? क्षुण्णः विहितयोग्यैः, कासु ? विद्यासु, कथम्भूतैः ? कैश्चित् त्रिभिश्चतुर्भिर्वा, कथम्भूतो वासुदेवः ? नीतिमान् न्यायमार्गवेदीत्यर्थः । पुनरयः जगद्वन्धः पुनःप्रभाः दीपा भा यस्य सः, प्रोज्वलत्कायकान्तिः प्रोद्दीप्रकोपतंजा वा । किं कृत्वा ? पूर्व हिवा, काम् ? तामात्थानां सभाम् , एफपीनां स्कन्धोपपीडमुपविष्टैरविच्छिन्नतया सामन्तादिभिः सम्भृतामित्यर्थः । यस्यां सभायामभवन, के ? नाथाः समुद्रविजयादयः स्वामिनः, केषाम् ? नराणाम . कथम्भता भूवन् ? सप्रभावाः प्रभावेन सह वर्तन्त इति सप्रभावाः समाहात्म्या इति ॥१॥ शान्तारावे सारिकाद्यप्रवेशे देशे मन्त्रं पञ्चकं शास्त्रशुद्धः । इत्यारेभे मन्त्रिमिदृष्टशौचैरं दीर्घ ध्यायतां कार्यसिद्धिः ॥२॥ ___ शान्तेति-आरेभे प्रारब्धवान् । कः १ सुग्रीवो नारायणश्च, कम् १ मन्त्रम् , कथम् ? सह, कैः १ मन्त्रि भिः, कथम्भूतैः ? शास्त्रशुद्धैः शास्त्रपवीणैः, पुनः कथम्भूतैः ? दृष्टशौचैः दृष्टं शौचं येषां तैशौचैः शत्रुप्रयुक्त लम्बोपचारदूरीकृतैः प्रभोः कार्यभङ्गभीत्या निर्लोभत्वासेषाम् । अत्रान्वयपरम्परयागतत्त्वात्सुजातित्वं कुलीनत्वञ्च प्रदर्शितं तेषां मन्त्रिणामिति भावः । क्व मन्त्रमारेभे ? शान्तारावे शान्त; आरावो यत्र तस्मिन्निर्जन्तुकतया प्रतिध्वनिपरित्यक्ते सारिकाद्यप्रवेशे सारिकाकीरवर्तिकादीनां प्रवेशोजिझते, यतः शुकसारिकादिभिभिन्न मन्त्री दृष्टोऽतएव तेषां प्रवेशाभावी विहितः । देशे प्रदेशे। कथाभूतं मन्त्रम् ? पञ्चकं पञ्चावयवा यस्य तम्, कस्मिन्मन्व्यम्, किम्मन्न्यम्, कैः सह मन्न्यमिति त्रिविधो विकल्पः। आयो देशकालापेक्षया द्विष्ठः द्वितीयः जिस स्थानपर मनुष्यों के भावधारी नाथ ये उस स्थानको छोड़कर राजनीति और गौरवकी रक्षक मन्त्रशालामें, तीक्ष्णा विचारशक्तियुक्त विद्याओंके अभ्यासी कुछ मन्त्रियोंको साथ लेकर वानर बंशियोंका राजा सुग्रीव चला गया था। जिसमें मनुष्यलोकके विविध प्रभावशाली राजा बैठे थे उनसे भरी हुई उस राजसभासे उठकर प्रखर कान्तिमान् , नीतिनिपुण, वासुदेव, राजनीति अगदि विद्याओंके अनुभवी लोगोंके साथ मन्त्रशालाको चला गया था ॥२॥ सब प्रकारके कोलाहलसे रहित मैना, तोता, आदिके प्रवेश वर्जित मन्त्रशालामें सुग्रीव अथवा नारायणने निलोभिता तथा कुलीनताके लिए ख्यात शास्त्रोंके मननके कारण शुद्ध बुद्धि मन्त्रियों के साथ, मन्त्रणा की देश-काल, विषय, मन्यदाता आदिके भेदसे पञ्चांग 5. सर्गेऽस्मिन् शालिनीवृत्तम्।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy