________________
दशमः सर्गः
ऊडवान्यदपि गण्डशैलकं तन्न कारणमुदारमुन्नतेः ।
भूरिभारवहनं क्रमेलकः श्लाघ्यते युधि वधं तु सिन्धुरः ||४४ ||
ऊढवानिति-यदिति सामान्योक्तौ । यत्पुमान् गण्डशैलमारूढवान् स्थूलोपल्म धितस्थौ । तदुन्नतेरुदारमुत्कटं कारणं न स्यात् । युक्तमेतत् । इलाध्यते, कोऽसी ? क्रमलेकः उष्ट्रः, किं कर्त्तुम् ? कत्तु भूरिभारवहनम्, तु पुनः अप्यते, कोऽसौ ? सिन्धुरो गजेन्द्रः, किं कर्तुम् ? तुम, कम् ? वधम् बा १ सङ्ग्रामे । उत्तरार्द्ध सोपस्करतया व्याख्यातमिति ॥४४॥
रमिह ततः सा रामे या क्रियेत विधेयता
न तु लघुजरा सन्धेयास्मिन्प्रतापिनि वक्रता । क्वचिदपि न वः स्वामी साहायकं प्रतिनाथते
सुपथगमनप्रारम्भाय प्रभोरमुद्यमः || ४५ ||
१९७
वरमिति--[द्विः] ततस्तस्मात्कारणात् सा वरं स्यात् या विधेयता प्राञ्जन्यत्वं त्रियेत विधीयेत, क ? इद्द रामे, कथम्भूते ? प्रतापिनि अस्मिन् चक्रता कुटिलता न सन्धेया न सन्धातव्या, कथम्भूता वक्रता ? लघुजरा लवी जरा यस्याः सा नश्वरीत्यर्थः । न नाथते न याचते । कोऽसौ ? स्वामी, केषाम् ? वो युष्माकम्, कं कस्मै १ प्रति ? साहायकं प्रति मित्रसमूह प्रति क्र १ कचिदपि कस्मिंश्चिदपि कार्ये । अयमुद्यमः स्यात्, सुपथगमनप्रारम्भाय न्याय मार्गानुसरणप्रारम्भाय, कस्य ? प्रभो रामस्येति ।
भारतीयः- ततः सा वरं स्यात् क्रियेत का ? या विधेयता, कथम्भूता ? सारा, पुनरमेया । क्क ? इह जरासन्धे, कथम् ? लघु शीघ्रम् कथम्भूते ? प्रतापिनि, न त्वसौ वक्रता स्यात्, कचिदपि कस्मिंश्चित्कार्ये । न नाथतेऽपि तु नाथत एव । कः ? स्वामी के प्रति ? साहायकं प्रति केषां स्वामी! वो युष्माकम्, तथाऽयमुद्यमः स्यात्, कस्मै ! असुपथगमनप्रारम्भाय यमानुसरणप्रारम्भाय कस्य ! प्रभोः केषाम् ? वो युष्माकमिति ॥ ४५॥
नाथोऽभ्युपेत्य विनयेन ततोऽनुनेय
स्तस्य द्विषामित्र दशा भवताञ्च माभूत् ।
यदि छोटेसे कैलाश अथवा गोवर्द्धनको उठा लिया तो इससे ही रावण अथवा नारायणकी विशाल उन्नतिका पता नहीं लग सकता है । युद्धस्थलमें भारी-भारी बोझ उठानेको ऊँट ही पसन्द करता है । हाथी तो मरने मारने में ही सुखी होता है ॥४४॥
अतएव जो सरलता यहाँ करेंगे वहीं ठीक है । इस परम प्रतापी रामके साथ शीघ्र ही नष्ट होनेवाली कपटनीतिका प्रयोग नहीं करना चाहिए। मेरा स्वामी कभी भी आप लोगों से सहायता के लिए प्रार्थना करता है ? अपितु महाराज रामका यह प्रयत्न सुमार्गपर लानेके लिए ही है।
इस प्रखर प्रतापी जरासन्धके साथ जो सीमित किन्तु सारवान आज्ञाकारिता शीघ्र की जायगी वही लाभप्रद है, विपरीत आचरणसे कोई भी लाभ नहीं है । हमारा स्वामी आपकी सहायता ही चाहता है । आपलोगोंको कुमार्ग अथवा मृत्यु मार्गपर चलाने के लिए ही हमारे प्रभुका यह प्रयास है ॥ ४५ ॥
१. रथोद्धृतावृत्तम् । २. हरिणीवृत्तम् ।