SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ द्विसन्धाममहाकाव्यम् यः पूतनामादरमुक्तवृत्तिं घोराञ्चलामाकृतिदारुणां ताम् । बालोऽप्यपीडत्कुपितोऽरिमूर्ति स्पर्द्धच्छया वः किमनेन सार्धम् ॥३६॥ य इति-अनेन रावणेन सा किं स्पर्द्धच्छया वो युग्माकम् ? यो बालोऽपि सन्नपीडत्पीडयामास । काम् ? तामरिमूर्तिभरीणां मूतिम् , कथम्भूताम् ? दरमुक्तवृत्तिम् , दर: भयम् , वृत्तिः प्रजापालनलक्षणा, अथवा प्रौढप्रतापलक्षणा, दरेण मुत्त वृत्तियस्याः सा तथोक्ता राम्, पुनः कथम्भूताम, १ बोरा तीब्राम, पुनः चलो चपला पुनराकृतिदारुणां कोपप्रसादाभ्यां जातेर धर्मेण सोहमशक्यामित्यर्थः । पुनः कथम्भूतः ? पूतनामा पूतं नाम यस्य सः, पुनः कुपितः वृद्ध इति । भारतीयः-अनेन नारायणेन साई कि स्पट्टेच्छया वो सुष्माकम् । यतो यो बालोऽप्यपीडत्, काम् ! पूतनाम् । कथम्भूतः सन् ? कुपितः, कथम्भूताम् ? अरिमूर्ति पुनरादरमुक्त वृत्तिम् । शेष समम् ॥३६॥ योलङ्कशीत्यायतिमायादिशि तीब्रां वैरी नामाघानि स येन प्रजिघांसुः । __ यो देवानां धाम समक्षं च विमानं तेजोवृत्या वेश्रवणीयं हरति स्म ॥३७॥ य इति-यो रावण आयात्प्राप । काम् ? लकेशीत्यायति लङ्कास्वामीति प्रसिद्धिम्, कथम्भूताम् ? तीवाम् , तथा नाम अहो येन रावणेनाधानि हतः स प्रसिद्धोऽपि वैरी शत्रुः, कथम्भूतः ? प्रजिघांसुः, हन्तुकामः, कस्याम् ? दिशि, दिशीत्युपलक्षणाद्वीप्साऽत्र बोद्धव्या । तेनायमर्थः-दिशि दिशि प्रजिघांसुः सन्नघानि वैरी स प्रसिद्धः । तथा यो हरति स्म, कि तत् ? घाम तेजः, केषाम् ! देवानां सुधाशिनाम् । कया कृत्वा ? तेजो वृत्या, कथम् यथा भवति ? समर्श लोकप्रसिद्ध लोकप्रत्यक्षम् । तथा हरति स्म, कि तत् ? विमानं पुण्यकाल्पम् , कथम्भूतम् ? वैश्रयणीयं वैश्रवणस्येदं चैश्रवणीयं धानदीयम् , कया ! तेजोवृत्त्या, कथम् ? देवानां समञ्चम् । भारतीयः- आयात्प्राप, काम् ? केशीत्यायति ख्यातिम्, स लोकप्रसिद्धो बैरी येन नारायणेन अलमत्यर्थमघाति । तथा च यः समक्षं वैकुण्ठं देवानां धाम हरति स्म, कया कृत्वा ? तेजोवृत्त्या, कथम्भूतम् ? विमानं विगतं मानं यस्य तद्विमानं प्रचुरमित्यर्थः । पुनः श्रवणीयं श्रोतव्यं सा न पुनलोचनगोचरमित्यर्थः ॥३७|| ___ इस रावणके साथ स्पर्धा करनेसे आपको क्या लाभ है। पवित्र नामधारी तथा कुपित इसने शिशुक्यमें ही भयके कारण अपनी वृत्तिके त्यागकर्ता, निर्भय, चंचल, आकारसे ही कठोर शत्रुकी मूर्तिको मिटा दिया था [ इस नारायणसे ....."आदरहीन व्यवहारपूर्वक पूतना राक्षसीको मार दिया था।] ॥३६॥ जो लंकेश्वर इस उद्धेजक नामसे ख्यात हुआ था, मारने के लिए उद्यत अपने वैरीका जिसके द्वारा वध हुआ था और जिसने दोनोंके देखते रहनेपर भी इन्द्र के प्रताप और पुष्पक विमानको अपने तेजमय आचरणसे छीन लिया था। । जो दिशा-दिशामें नारायण केशी इस नामले पुकारा जाता है, जिस नारायणके द्वारा शत्रुओंका समूल विनाश किया गया है और जिसने सीमातीत वैकुण्ठ अथवा देवताओंके निवास स्वर्गका अपने प्रतापी चरित्र द्वारा अपहरण किया था। यह सब सुनने योग्य ही है ॥३॥ १. इन्द्रवज्रा वृत्तम् । २, य आयात् प्राप । काम् ? केशोत्यायति विष्णुरित्याख्याम् , कथम्भूताम् ! तीनाम् , कथम् भलम् अत्यर्थम् । तथा नाम अहो येन अघाति, कः ? स लोकप्रसिद्धो मधुः कैटभो वा वैरी, कथम्भूतः सत् ? प्रजिघांसुः कस्याम् ? दिशि, तथा वै यो हरति स्म, किं तत् ? धाम तेजः, केषाम् । देवानाम् कथं यथा भवति समक्षम्, कथम् ? व स्फुटम्, कया कृत्वा ? तेजोवृत्या, कथम्भूतं धाम ! विमानं वि-प०, द० । ३. मत्तमयूरच्छन्दसि ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy