________________
दशमः सर्गः
१९३
दृष्टवानिति--[द्विः] तत्तस्माद्वथैवमेव व्यवस्यत्युत्सहते । कोऽसौ ? अधिपः स्वामी, कस्य ? तव, यद् यस्मात्कारणान्न दृश्वान्नावलोकितवान् , कः ? स तबाधिपो रामः, काम् ? दशास्यतेजसो रावणप्रतापस्य तिग्मता तीव्रताम् । कथम्भूतस्य ? भूभृतो भुत्रं पृथिर्वी बिमतीति भूभृत्तस्यावनेः पोषकस्येत्यर्थः ? कयम्भूतां तिग्मताम् ! दिशः खलु निश्चयेन निरुन्धती प्रच्छादयन्तीम् , कथम्भूतस्य दशात्यतेजसः ? उदयानुबन्धिन उदयमनुबनातीत्येवंशीलस्य ।
भारतीयः-अस्य भूभृतो नारायणस्य तेजसस्तीत्रतां न दृष्टवान् । कीदृशी तिग्मताम् ? दश दिशो निरुन्धतीम् । कथम्भूतस्य नारायणस्य ? यदुदयानुबन्धिनो यदूनां यादवानां दयां करणामनुबध्नात्तीत्येवंशील. स्तस्य । शेष समम् ॥३३॥
अन्तकोऽपि वरुणोऽपि कुवेरो वासवोऽपि स यमेव भयातः ।
पश्यति प्रकुपितं ग्रहरन्तं स्वप्नदर्शनकृपाणतलेषु ॥३४॥ अन्तको पाति-पश्यति निरीक्षते । कः कर्ता ? स लोकप्रसिद्धोऽन्तकोऽपि दक्षिणाशाऽधिपोऽपि, तथा वरुणोऽपि पाशपाणिरपि, तथा कुबेरोधि धनदोऽपि पासवोऽपि यज्रपाणिरपि, कम् ? यमेव रावगं नारायणश्चैव, किं कुर्वन्तं तन्तम् ! प्रहरन्तं पुनः प्रकुपितम् , केषु विषयेषु पश्यति ? स्वप्नदर्शनकृपाणतसेषु स्वप्नदर्शने खङ्गतलेषु च, तथा कथम्भूतः सन् पश्यति ? भयात्तों भयपीडितः अत्रान्त कादीनां साहनयादन्येषां नेतादीनां चतुर्णा ग्रहणमिति ||३४||
योऽन्यमर्यमणमप्यतिक्रमप्रक्रमं न सहते प्रतापिनम् ।
नागमन्तमनयन्महोद्धति यो जगन्नयवलेन तायते ॥३५॥ य इति-ग सहते न सोढुं शक्नोति । कोऽसौ ? यो रावणः, कम् ? अन्यमर्यमणं सूर्यम् , कथाभूतमपि ? प्रतापिनमपि, पुनः कथम्भूतं सन्तम् ? अतिक्रमप्रकममतिक्रमं प्रक्रमत इत्यतिक्रमप्रक्रमस्तम् । अथवाऽ तिक्रमस्य प्रक्रमो यस्य स तथोक्तस्तं जगतामतिवमं प्रक्रममाणमित्यर्थः । तथा यो रावणो नानयन्न प्रापयत् । कम् ? तमागर्म विद्वज्जनप्रसिद्धां राजविद्याम् , कां नानयत् ? महोद्धति परमोत्कर्षम् , तथा यो रावणो नानयत् , कम् ? तं चार्यमणं सूर्यम् , काम् ? महोदधृति तीव्रत्वम् , तथा यो रावणो न तायते न पालयति, किं तत् १ जगत्, केन ? नयरलेन नीतिसामयेन !
___ भारतीयः यो नारायणो न सहते, कम् ? अन्यमयमणम् , कथम्भूतम् ? प्रतापिनम् , पुनः कथम्भूतम् ? अतिक्रमप्रक्रमम् , तथा यो नारायणोऽनयत् , कम् ? नागं कुवलयपीडाख्यं दन्तिदानवम् , अथवा कालियाख्यं फणीन्द्रम् , कम् ? अन्तं विनाशम् , कथम्भूतं सन्तं नागम् ? महोद्धति महत्युद्ध तिर्थस्य तं गर्विष्ठमित्यर्थः । तथा यो नारायणस्तायते, किं तन् १ जगत् , केन ? नययलेनेति ।।३।।
पृथ्वी भरके शासक अभ्युदयके मार्गपर अग्रसर दशमुख रावण के तेजकी दिशाओको व्याप्त करती प्रखरताको आपके राजा रामने नहीं विचारा है इसीलिए वह व्यर्थ प्रयास कर रहा है। [यादवाकी दयासे प्रेरित इस पृथ्वीपासक राजा कृष्णके दशौ दिशाओंको आक्रान्त करनेवाले प्रतापकी तीक्ष्णताको वह तुम्हारा राजा जरासंध नहीं देखता है और व्यर्थ प्रयत्न कर रहा है ] ॥३३॥
दक्षिण दिशाका स्वामी वह यम भी, वरुण भी, कुबेर भी और देवराज इन्द्र भी, कुपित हो कर प्रहार करते इस रावण अथवा नारायणको स्वप्न में अथवा तलवारकी धारपर ही देखते हैं ॥३४॥
वह रावण परमप्रतापी सूर्य के द्वारा किये विश्वके दैनिक लंघनको भी सह्य नहीं करता है । लोकप्रसिद्ध आगमोके पूर्ण उत्कर्षको नहीं होने देता है और संसारपर नीतिमार्गसे शासन नहीं करता है। [यह नारायण भी"। उसने अत्यन्त उग्र कालिय नागका अन्त कर दिया था तथा संसारका नैतिकतापूर्वक पालन करता है। ] ॥३५॥