SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः भारतीयः-अहो कथं वा कथमिव स्यात्, का ? इयं दहनवृत्तिः, कस्य ? हिमवतो हिमाचलस्य, कथम्भूता दइनवृत्तिः ? गर्हिता निन्द्या यद्यप्यस्ति, कः ? उन्नत उत्तुङ्गः, तथाऽस्ति विशदः, पुनरस्ति तथा ६ शिशिरः शीतलः, किं कुर्वन् ! हिमानीगौरवं हिमसन्ततिगरिमाणं समुपयन् | तुल्योपमा ||२६|| संविधाय बहुमानमुच्चकैर्विप्रियं यदभिधीयते गिरा | अम्बु शीतमभिवृष्य चित्रया तद्वितप्यत इवोत्कटातपम् ।।२७।। संविधाति-तद्वितप्यते । कया ? गिरा वाण्या, यदभिधीयत उच्यते, किम् ? विप्रिये दुःखदम्, किं कृत्वा ? पूधै संविधाय सम्पाद्य, कम् ? बहुमान प्रचुरसत्कारम् , कथम् ? उन्त्रैरतिशयेन | उपमार्थः प्रकश्यते-इच यथा तद्वितप्यते, कया? चित्रया नश्चत्रेण, कथं यथा भवति ? उत्कटातपमुल्वणोणं यथा तदिधीयते, किम् ? अम्बु जलं कथम्भूतम् ! शीतं शीतलम् , किं कृत्वा ? पूर्वमभिवष्य सिक्त्वा । अत्रोपमालम्भो' दर्शितः ॥२७॥ ज्ञायते च भवतः पतिरुच्चैंर्विक्रमेण भुवनं विजिगीषुः । देशकालबलबोधपरीक्षा पौरुषेऽपि ननु सा परिचिन्त्या ॥२८॥ ज्ञायत इति-ज्ञायते बुध्यते, कः ? पतिः प्रभुः, कस्य ? भवतः, कथम्भूतः १ विक्रमेण भुवनं जगत् विजिगीषुः विजेतुमिच्छुः, कथम् ? उच्चैरतिशयेन, नन्त्रहो परिचिन्त्या चित्ते वितक्या, का ? सा देशकालयल. बोधपरीक्षा, क्क सति ? पौरुपेऽपि विक्रमेऽपि ॥२८॥ पञ्जरे किल करोति किं शुकः पक्षवानपि विदेशमागतः । कि शुचावसमये शिखाबलः कोकिलश्च मधुरं स कूजति ॥२९॥ पञ्जर इति-किल लोकोक्तौ । किं करोति ? अपि तु न किमपि, य: १ शुकः कीरः, क ? पक्षरे, कथम्भूतोऽपि ? पक्षवानपि, कथम्भूतः सन् ? विदेशमागतः, तथा सुचौ धर्म शिखावलो मयूरः मधुरं यथा तथा कि कूजति शब्दायते ? अपि तु न । मेोन्नतिकालस्तु कूजनहेतुर्ने तरो धर्मः, तस्य तत्कृजनहेतुत्वाभावात् । चकारेण समुन्वयार्थो गम्यते । कोकिल पिकच, किं मधुरं सुकोमलम् असमये मेघोन्नतिकाले कूजति ? अपि तु न । चैत्रकालस्तु कूजनहेतुस्तथा नेतरो मेघोन्नतिकालः, तस्य तत्कृजन हेतुत्वाभावात् । अत्र तेषामेव देशकालबलबोधानामन्वयव्यतिरेको दर्शितौ ।।२९।। देशकालकलया बलहीनः किं व्यवस्यति युतोऽपि शृगालः । स त्रयेण सहितश्च्युतरोधः किं न याति शरभस्तनुभङ्गम् ॥३०॥ अभिनन्दनीय होगी? [ उन्नत, धवल आत्मगौरघके निर्वाहकर्ता, स्वाभिमानी वर्फके धारक शीतल हिमालयकी निन्दनीय दाहक प्रकृति कैसे हो गयी ? ] ॥२६॥ सर्वथा सम्मान करने के बाद जो वाणीके द्वारा अनिष्ट प्रस्ताव आपके द्वारा किया जाता है यह पहिले शीतल जलकी मूसलाधार वृष्टि करनेके उपरान्त चित्रा नक्षत्र के द्वारा भयंकर आतप करनेके समान है ॥२७॥ आपका स्वामी राम अथवा जरासंध प्रबल पराक्रम के द्वारा विश्वकी विजय करनेके लिए आतुर है ऐसा प्रतीत होता है। किन्तु पुरुषार्थ होनेपर भी देश, समय, शत्रुवल तथा आत्मबलका विवेक और आक्रमणके पहिले समस्त वातोंकी परीक्षा भी तो विचारणीय है ॥२८॥ विदेशमें आकर पिंजड़े में फँसा तोता पंखे रहनेपर भी क्या करता है ? कुछ भी नहीं । क्या गर्मीमें मयूर और असमय शीतकालादिमें कोकिल मधुर शब्द करता है ? ॥२९॥ 1. अत्रोपमोपालम्भो दर्शितः-ब०, ना० ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy