SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः हृष्यन्ति ये याचिताः । स्वस्थाः सन्ति च यौवनोदयमहाव्याधिप्रकोपेऽपि थे, ते भूमण्डलमण्यनैकतिलकाः सन्तः क्रियन्तो अनाः" तथा इमान् सौण्डीर्यादीन् गुणान् अपवादपदवी निन्दाविषयं नाजीगमः न नीतवान् ॥३॥ सद्गुणास्तव नृपैः सुगृहीतास्ते तथापि न भवन्ति भवद्वत् । तोयदाः खलु जलं जलधीनां बिभ्रतोऽपि न तथापि गम्भीराः ॥४॥ सद्गुणा इति-तथापि न भवन्ति न जायन्ते । के ? ते नृपा राजानः, क इव ? भवद्वत् भवत्सदृशाः। यद्यपि सुगृहीताः सम्यकप्रकारेणाङ्कीकताः। के? सदगणाः अनन्यसम्भावनः शस्त्रशास्त्रादिपर कैः पैः नरेन्द्रः, कस्य ? तब मवतः, युक्तमेतत् , तथापि तोयदाः जलधराः गम्भीराः न स्युः, यापि तोयदा इति लौकिकी रूदि प्रौदि मारूढास्तोयदाः । किं कुर्वाणा अपि ? बिभ्रतोऽपि दधाना अपि, किम् ? जलम् , केषाम् ? जलधीनां समुद्राणाम , कथम् ? खलु निश्चये ॥४॥ त्वं हिमाद्रिरपि तां सरस्वती त्वं रविश्व कमलाकरग्रहम् । त्वं विधुश्च भुचनाभिनन्दथु धत्थ इत्थमपरो न कश्चन ।।५।। स्वमिति-धत्थः धरथः, कौ ? त्वं भवान् हिमाद्रिरपि तुहिनगिरिश्च युवाम् , काम् ? तां सरस्वती भारती सरस्वतीनामधेबां नदी च । धत्यः कौ ! त्वं रविश्च युवाम् कमलाकरग्रहं सक्षमीहत्तगइणं पद्माकरग्रहदच । धत्थः, कौ ? त्वं विधुरिन्दुश्च युनां भुवनाभिनन्दधुं लोकाभिनन्दनम् । धत्य इत्थमुक्तप्रकारेण । द्वी विहाय नापरोऽन्यः कश्चन एवंविधां क्रियां दधातीति' ||५|| आश्रयस्त्वमसि सर्वलघूनां सेविता भवसि सर्वगुरूणाम् | छन्दसस्तव च वृत्तिमुदार पर्णयन्ति कवयश्चरितेषु ।।६।। आश्रय इति-स्वं सर्वलचूनामाश्रयः . समस्तनिराश्रयदीनदुःखितभाम्यदूरवर्तिनामयम्भोऽसि, छन्दोऽपि सर्वलघूनामेकमात्रिकाणामाश्रयो भवति । भवसि । कोऽसौ ? त्वम् , कथम्भूतः १ सेविता संवकः, केषाम् ? सर्वगुरूणां समस्तशाशास्त्राणामन्याहततयोपदेष्टणाम् , तथा छन्दोऽपि सेवमानं भवति । केषाम् १ सर्वगुरूणां समस्तद्विमात्रिकाणाम् । एवञ्च भो भूपते ! वर्णयन्ति उपल्लोकयन्ति । के ? कवयः, काम् ! वृत्ति प्रवृत्तिम् , उदारामुत्कटाम्, यस्य ? ते तव छन्दसच, केषु ? चरितेषु प्रस्तावोचितवार्तासु चरित्रेषु चेति ॥६|| रूपमें है। वास्तव में आप श्रेष्ठ युवक तथा वृद्ध है और आपने कभी भी इन श्रेष्ठ गुणोंकी अख्याति नहीं होने दी है ॥३॥ संसारके राजाओंने आपके समान सद्गुणोंका अनुकरण किया है तथापि वे आपके सदृश नहीं हो पाये हैं । यह सत्य है बादल समुद्रीका जल पीकर ही पुष्ट होते हैं तथापि ये वे उसकी ( समुद्रकी ) गंभीरताको कदापि नहीं पाते हैं ॥४॥ आप हिमाचल पर्वत होकर भी सरस्वती नदीको धारण करते हैं। [विरोध-हिमाचल समान शीतल और उन्नत होकर भी शारदाके उपासक है] सूर्य है तथापि कमल समूहके रोधक है [ सूर्य के समान तेजस्वी है तथा कमला (लक्ष्मी)का हाथ पकड़े हैं ] और चन्द्रमा होकर भी पृथ्वीके नन्दन (संगल ) ह[चन्द्रमा समान शान्त सुन्दर तथा पृथ्वीके आनन्दको बढ़ाते हो ] इस प्रकारके परस्पर विरोधी गुणोंको कोई भी दूसरा नहीं पा सकता है ॥५॥ सब तुच्छोंके आश्रय होकर भी समस्त महापुरुषोंके सेव्य [कैसे ] हो [ सकते हो। समस्त दीन दरिद्रोंकी शरण हो और सबही महापुरुषोके आराध्य हो। अतएव आपके चरित्रका वर्णन करते हुए कवि लोग आपके उदार स्वभावको [ सर्व लघु अथवा सर्वगुरुमात्रा युक्त ] छन्दोंके द्वारा प्रशंसा करते हैं ॥६॥ १. वृत्तं हि रथोतात्र । २. स्वागतावृत्तम् । ३. रथोद्धतावृत्तम् । ४. स्वागताधृतम् ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy