SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ istani १८० Him S द्विसन्धानमहाकाव्यम् नष्टं भीतैः स्थितं धीरैः स्पष्टं दृष्टं सुरासुरैः । भीमेन बलरामेण गर्जितं सव्यसाचिना ॥४८॥ नष्टमिति-भीतैः भीरुभिः नष्टं पलायितं धीरैः स्थितं दृष्टं सुरासुरैः देवदानवैश्वकिवमवलोकितमित्यर्थः, कथम् ? स्पष्ट प्रत्यक्तं. बलरामेण बलिना रामेण गर्जितम् , कथम्भूतेन ! भीमेन भी मेण, पुनः सव्यसाचिना सव्यं सचत इत्येवं शीलः सव्यसाची तेन वामप्रदेशप्रणताङ्गविन्यासेनेति । भारतीयः--यथा नष्टम् , कैः ? भीतः, यथा स्थितम् , कैः ? धीरः, यथा दृष्ट चकितमवलोकितं कैः । सुरासुरैः, कथम् ? स्पष्टम् , तथा गर्जितम् , केन ? भीमेन वृकोदरेण, तथा गनितम् केन बलरामेण, हलिना, तथा गर्जितम् , केन ? सव्यसाचिना अर्जुनेनेति ॥४८॥ स दुरानमकोदण्डो मायावी विद्रुतो हतः । न रघोराहवे जातः कुले शूरोऽपि को जयेत् ॥४९॥ स इति-विद्रुतः पलायितः कोऽसौ ? स साहसगतिः, कथम्भूतः सन् ? इतः, क्य ? आहवे संग्राभे, कथम्भूतः स साहसमतिः ? दुरानमकोदण्डः दुःखेनानमति दुरानमः स चासो कोदण्टो यस्य सः पुनः मायावी निकारथान् , युक्त मेतको न जयेत् सों जयेत् सर्वोत्कण प्रवत, कः ? शूरो चीरः, कथम्भूतः सन् ? सञ्जातः समुत्पन्नः, क्व ? कुले चशे, कस्य ? रधोईढरथस्येति । भारतीयः-विद्रुतः पलायितः, कोऽसौ ? जरासन्धमुक्तो दण्डः सैन्यम् , कथम्भूतः सन् हतः, क्व ? भरघोराहवे धोरश्वासाबाहश्च घोराहवः नरत्य घोराहवः तत्र, अर्जुनस्य रौद्रसंग्रामे, कथम्भूतो दण्डः ! दुरानमकः दुःखेग जेतुं शक्यः, कथम्भूतः ? मायाघी मायाः लक्ष्म्या आयं प्रवेशमवतीत्येवं शील: मायावी लम्या आगमनाभिलापुकः, युक्तमेतच्छूरोऽपि सन् को न जयेत् रिपुभिरनभिभूतः सन् सर्वोऽपि सर्वोत्कर्पण प्रवर्तत इत्यर्थः, कशम्भूतः ? कुले जातः ||४९|| केशवो बलदेवश्च न पोरैरेव केवलम् । प्रत्युद्यातस्तथा तेषां रोमाञ्चः सञ्चितैरपि ॥५०॥ केशव इति-केशवो लक्ष्मणः बलदेवश्च रामश्च केवलं पोरैरेव नागरैरेव न प्रत्युद्यातस्तथा तेषां पौराणां रोमाञ्चैरपि पुलकितैरपि प्रत्युद्यातः कथम्भूतैः १ सञ्चितैः पुष्टिमागतः । भारतीयः-केशवो नारायणः नलदेवो रेवतीरमणः । शेषं समम् ॥५०॥ चलत्पताकालुद्ध तोरणां तामविक्षताम् । द्वारकां गोपुरद्वारैः किष्किन्धनगरीमिव ॥५१॥ भयभीत लोग भागते दिखते थे, धीर पुरुष डटे हुए थे, देव दैत्य आश्चर्यसे देख रहे थे तथा बाँयी तरफ शरीरको मोहे बलवान् तथा भयंकर रामने गर्जना की थी [कृष्णकी तरफसे मी भयंकर भीम, बलिष्ट बलराम तथा धनुषधारी अर्जुनने गर्जना की थी] ॥४८॥ बड़ी कठिनताले भी धनुपको न चढ़ा सकनेके कारण निकृष्ट छलिया तथा भागता हुआ वह साहसगति युद्ध में मारा गया था। रघुके घंशमें उत्पन्न स्वयं पराक्रमी होकर भी किसको न जीतेगा? [भगीरथप्रयत्न करनेपर भी अजेय माया (लक्ष्मी) की लोभी जरासंघके द्वारा भेजी गयी सेना अर्जुनकी घोर लड़ाई में या तो भाग गयी थी या मार डाली गयी थी । कुलीन तथा खयमेय योद्धाके लिए कौन अजेय है ? ] ॥४९॥ लक्ष्मण अथवा कृष्ण और बलदेव राम अथवा बलरामकी अगवानी केवल क्रमशः किष्किन्धा अथवा सौराष्ट्र के नागरिकांने ही न की थी अपितु सारे शरीरमें उठे उनके रोमाञ्चोंने भी इनका खागत किया था ॥५०॥
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy