________________
ममः सर्गः
T
मातरीति- हे नाथ हे स्वामिन् राम, निलीनं प्रविष्टम् किम् ? हरिकुलम्, कासु ? वृक्षकुक्षिषु, कथम्भूतम् १ ततं सन्तप्तम्, कसति । अस्मिन् साहसगतौ मातरि स्वजनन्यां विषये श्वैकवृत्ते शुन इबैकं वृत्तं यस्य स तस्मिन् सति कथम्भूते । कालान्तरवितापिनि कालान्तरे वितरत इत्येवं शीलः स तस्मिन् समयान्तरवितपनशीले |
भारतीय:- नाथ हरिकुलं बलीवर्दसमूहः वृक्षकुक्षिषु विषये तसं सन्तप्तं सद्विलीनम् । क सति ? अस्मिन्शुचिसमये सति, कथम्भूते ? मातरिश्वैकवृत्ते मातरिश्वनिधायावेकं वृत्तं यस्य तस्मिन् पुनः कथम्भूते ? कालान्तरवितापिनी कालो वर्षाशिशिरौ तयोरन्तः पर्यन्तः कालान्तस्तस्मिन्यो रविः सूर्यः तस्य तापोऽस्त्यस्मि त्रिति कालान्तरवितापी तस्मिन् ||२४||
परोत्तापनशीलस्य पांसुलस्य चितौजसः । दुर्वृत्तं दुःसहं तस्य दुर्जनस्येव लक्षितम् ||२५||
परेति तस्य साहसगतेः दुर्वृत्तं दुश्चेष्टितं दुसहं सोढुमशक्यं रक्षितं ज्ञातम्। कस्बेव ? दुर्जनस्येव, कथम्भूतस्य ? परोत्तापनशीलत्य पुनः पांशुलस्य पारदारिकस्य पुनश्चित्तौजसः दुश्वराक्रमत्य ।
भारतीयः तस्य शुचिसमयस्य दुर्वृत्तं लक्षितम् । कथम्भूतम् ९ दुःसहम्, कस्येव १ दुर्जनस्येव, कथम्भूतस्य शुचिसमयस्व ! परोत्तापनशीळस्य, पुनः पांशुलस्य धूलियाहिणः पुनस्वित्तौजसः दुष्टतेजसः । अन्यत्समम् ||२५||
गृहartiy सोपानपंक्तयस्तस्य तापतः । पानीयपथसञ्चारैर्विमुक्ताः प्रतिवासरम् ॥२६॥
गृहेति-पानीयपथ सञ्चारो येषाम् जलहारिणां मनुष्याणां तैः सोपानपङ्कयः, विमुक्ताः परित्यक्ताः, कासु ? गृद्दवापीषु प्रासादक्रीडादीर्घिकासु, कस्मात् ? तस्य साहसगतेः तापत उपद्रवात्, कथं यथा भवति ? प्रतिवासरं दिनंदिनम् ।
भारतीयः - पानीयपथसञ्चारैः कल्लोलैः, तस्य शुचिसमयस्य तापतः सन्तापात् शोषणलक्षणात् शेषं पूर्ववत् ॥ २६ ॥
विहाय स्वान समानि तत्प्रचारविशङ्कया । दिनं गमितवन्तोऽन्ये वनदुर्गेषु निद्रया ||२७||
दूर देश तथा समय तक कष्ट दाता तथा अपनी माता के साथ भी कुत्ते के समान आचरणकर्त्ता इसके द्वारा सताया गया हरिवंश पेड़ोंके तनों में छिप गया है । आँधी रूपी प्रकृतिधारक तथा अन्य समय भी तपानेवाले इस ग्रीष्म ऋतुसे त्रस्त बैलोका समूह पेड़ोकी छाया में जा बैठा है ] ॥२४॥
उस साहसगतिका दुष्ट आचरण दुर्जनके समान दुखसे सहने योग्य है क्योंकि दूसरों को कष्ट देना ही उसका स्वभाव है। परस्त्री गमनके पापमें रत है तथा पराक्रमका अनीति में ही उपयोग कर रहा है। [ अत्यन्त तपनले जलानेवाले, धूलबहुल तथा कटकर तेजस्वी श्रीष्म ऋतुका स्वभाव भी दुर्जनके समान होनेसे असह्य होता है ] ||२५||
दिनों दिन बढ़ते साहसगतिके उपद्रवोंके कारण जलमार्गले चलनेवालोंने अपने नौकादि आरोहणको घरकी वायडियोंमें छोड़ दिया था । [ जलमार्गपर उठती लहरोंने घरकी बावड़ियाँकी सीढ़ियोंको प्रतिदिन पानी सुखाये जानेके कारण छोड़ दिया था ] ॥ २६ ॥
१. श्लेषः - ब०, ना० ।