________________
द्विसन्धानमहाकाव्यम् निपीड्यासनमावेद्य स्वं साहसगतिं तथा ।
प्रवृद्धमायासमयं स प्रतापमपप्रथत् ।।१५।। निपीत्येति-स सुग्रीका साहसगति विद्याधरचिटसुग्रीवमपप्रथत् प्रथयामास | किं कृत्वा ? स्वं सुग्रीवोऽहमित्यात्मानं निवेद्य निरूप्य, किं कृत्वा ? आसनं विष्टर निपीड्य उपविश्य, तथाऽपप्रथत् , कम् ? साहसगतेः प्रतापम् , कथाभूतम् ? प्रवृद्धभायासमा प्रवृद्धो मायारामयो यस्य स तं विस्तारितकौटिल्यकालम् ।
__भारतीयः-तथा नागमनप्रकारापानयत् । कोऽसौ ? स शुचिः, कम् ? प्रतापम् , कस्य ? स्वस्येति सम्बन्धी ज्ञेयः। कथम्भूतं प्रतापम् ? प्रबुद्धं प्रौढिमन्तम् , पुनः कथाभूतम् ? आयासमयमायासेन निबृत्तः आयासमवस्तम् , किं कृत्वा ? आवेद्य प्रकरयित्वा, कम् ? स्वम् , कथम्भूतम् ! साहसगति साहसी गतिर्यस्य तम् , किं कृत्वा ? पूर्व निपीड्य पीडयित्वा, किम् ? आसनं बीजवृक्षम् अत्र जात्यपेक्षयैकवचनम् ॥१५॥
जातं रणरणोपेतं सांराविणमितस्ततः ।
प्रभञ्जनोद्यतं तस्य मदाघातकरं महत् ॥१६॥ जातमिति-जातम् , किम् ? साराविणं सामस्त्येन ध्वनितम् , कथम् ? इतस्ततोऽत्र तत्र, कस्य ? तस्य साहसगतेः, कथं सांराविणम् ? रणरणोपेतं शस्त्रध्वनिसंयुक्तं पुनः प्रभञ्जनोद्यतं विध्वंसनसंयुक्तम् , पुनः कथम्भूतं जातम् ? महाघातकरं महद्विनाशकरं पुनः महद्दरिष्ठम् ।
__ भारतीयः-तस्य ग्रीष्मस्य रणरणोपेतं शब्दानुगतशब्दोपेतं प्रभञ्जनोद्यते महावातकृतं मदाघातकरमूष्मातिशयेन इर्षविनाशकरम् ॥१६॥
मजनेषु मनो गृहं विपरीतजलात्मसु ।
प्रकृत्या यः पुरस्तेषां समापातयदङ्गिनाम् ॥१७॥ 'मजनेष्विति-तेषामङ्गिनाम् प्राणिनां पुरोऽग्रेसरः, यः सुग्रीवविटः प्रकृत्या स्वभावेन विपरीतजलात्मसु धर्म्यपथविरुद्धजडात्मसु मजनेषु' मदयन्ति । 'मदी हर्षग्लेपनयोः' । तेषु जनेषु, गूढं मनः समापातयत्समासक्तवान् ।
___भारतीयः-प्रकृत्या पुरः पुलो महान् यो ग्रीष्मस्तेषामङ्गिनां प्राणिनां मनो गूढं निबिडं यथा स्यात्तथा, विपरीतजलात्मसु पक्षिच्याप्तवारिघूर्णेषु, मजनेषु वाप्यादिस्नानस्थानेषु ||१७||
पूर्वोक्त प्रकारसे कुटिलताके जाल-द्वारा किये गये अपने सिंहासन और प्रतापके पराभवको कहकर उसने साहसगतिको रामके पास भेजा था। [ उक्त प्रकारसे बीजवृक्षोको सुखाकर अपनी उग्रगतिका परिचय देते हुए ग्रीष्म ऋतुने अत्यन्त कष्टकारक अपने आतपको फैला दिया था ]॥ १५॥
___ उस (साहसगति) का प्रताप शस्त्रोंकी झंकारयुक्त, इधर-उधर चर्चाका विषय, विध्वंसके लिए तत्पर तथा अहंकारको चूर करता सिद्ध हुआ था। [ग्रीष्मका साँय-साँय करता, शोरपर शोर मचाता, आँधीके रूपमें कार्यशील और मस्तीको हवा में मिलाता रूप होता है ] ॥ १६ ॥
___ उन शरीरधारियों में श्रेष्ठ उस साहसगतिने धर्ममार्गसे विपरीत, विवेकहीन तथा अहंकारी नागरिकोंमें प्रच्छन्न रूपसे अपना अभिमत सहज ही फैला दिया था। [प्रकृतिमें प्रधान उस ग्रीष्म ऋतुने समस्त संसारके प्राणियोंके मनोको पक्षियोंसे व्याप्त जलाशयों में मजन करने के लिए अत्यन्त झुका दिया था] ॥ १७ ॥
१, श्लेषः-०, ना० । २. मुद्रितप्रतिमनुसृत्य । ३. मदयन्तीति मदः ते च जना तेषु ।