________________
नवमः सर्गः तस्मिन्काले जरासन्धो वैरामोधभिया युतः । चित्तस्थमनुजं पश्यन्दरतः पुरुषोत्तमम् ॥१॥ तथा विराधितं वैरिभीमहानियमोद्यतम् । उद्युक्त्याश्वासयन्ख्यातस्तं कौरव्यंशुभावहः ॥२॥ पृथ्व्याः पाताललङ्कान्तः श्रीगृहं प्राप्य भूषणम् । सीताचिन्ताकुलः कार्य दुःखमालोचयन्स्थितः ॥३॥ अज्ञातचरितं शत्रु श्रीवधूहरणोद्यतम् ।
विरित्सन्विधुना धौते सौंधे शीतेऽप्यतप्यत ॥४॥ श्लोकचतुष्टयमतप्यतेति क्रियया व्याख्यायते-तस्मिन्निति-अतप्यत, कोऽसौ ? रामो राघवः, कथम् ? वै स्फुटम् , क्व ? तसिन्काले सीतापहरणसमये, किं कुर्वन् ? पश्यन्नस्मिन्नवसरे नान्यः, कश्चित्सहायो ममातीति अन्तर्मुखाकारतया वीक्ष्यमाणः । कम् ? अनुजं भ्रातरम । किमाख्यम् ? पुरुषोत्तम लक्ष्मणम् , कथम्भूतम् ? चित्तस्थं मनोगतम् । कथम्भूतो रामः अघभिया पापभयेन दूरतो दूरादयुतोऽसङ्गतः निष्पापो निर्भयश्चेत्यर्थः, पुनः जरासन्धः जरयाइसन्धो सम्बन्धो यस्य सः, वार्धक्याविषयः घरमाङ्गत्वात् , शरीराविकारित्वात् , मोक्षगामित्वात्तस्येति सम्बन्धः । भारतीयः-अतप्यत कोऽसौ ! जरासन्धः जरासन्धाभिधानो नारायणप्रतिकूलो विद्याधरचक्रवर्ती, किं कुर्वन् ? पश्यन् । कम् ? चित्तस्थमनुज मनोगतमनुष्यम् , किमाख्यम् ? पुरुषोत्तम नारायणम् , कस्मात् ? दूरतः दूरात् । कस्मिन् ! तस्मिन्काले शरत्समये, कथम्भूतः सन् १ युतो युक्तः, कया ? वैरामोषभिया बैरात् कंसस्य स्वभागिनेयस्य वधसमुत्पन्नात् अमोघा चासौ भीश्च वैरामोपभीस्तया वैराप्रतिहताशङ्कयेति ।
तथेति-कथम्भूतो रामः ? ख्यातः प्रसिद्धः क्व ? को भुचि, किं कुर्थन् ? श्वासयन् धीरयन् , कम् ? ते प्रसिद्ध विराधितं खरदूषणनिििटतं चन्द्रोदरपुत्रम् , कथम् ? तथा तेनैव लक्ष्मणस्मरणाप्रकारेण वैरिभीमहानियमोद्यतं वैरिभ्यां खरदूपणाभ्यां भीः वैरिभीः वैरिभियां वैरियैरे सति महा नियमः खरदूषणयोर्वधघटनायां यावन्ममेष्टस्रग्बनिताचन्दनादिपरित्यागलक्षण व्रतं वैरिमी महानियमः तत्रोद्यतस्तं तथोक्तम् , कया ! उद्युक्त्या महाविचारणया, पुनः कथम्भूतः १ रव्यंशुभावहः खेरंशवः रव्यंशवस्तेषां भावं मत्तां स्वरूपं वा इन्तीति व्यंशु गावहः आत्मप्रतापेनाप्रतापत्य जेतेत्यर्थः । दिनकरकिरणदीप्तिभूदिति ।
----------------
तस्मिन् , काले. चितरोत्तमम् , अनुजं दूरतः पश्यन् वै जरासंधः रामः अघभिया युतः को रव्याप्तः रव्यंशुभावहा, तथा विराधितं वैरिभी महा नियमेनोयतं तम् आश्वासयन् पृथ्न्याः पाताललंकान्स:श्रीगृहभूषणं प्राप्य सीताचिन्ताकुलः कार्यमालोचयन्दुर्ख स्थितः।
सीताका अपहरणा हो जानेके समय पुरुषश्रेष्ठ मनमोहन अनुज लक्ष्मणको दूर गया देखकर बार्द्धक्यसे परे ('चरम शरीर', युवक ) रामको निश्चयसे रावणके पाप अर्थात् सीताहरणकी आशंका हो गयी थी। पृथ्वीपर विख्यात, सूर्यको किरणोंके प्रतापके तिरस्कारक राघव, लक्ष्मणके द्वारा कथित प्रकारसे सताये गये अतएव शत्रुके भयकी समाप्तिके लिए कठोर प्रतिक्षाओमें बद्ध, उसको साहसके वचनोंसे समझाता हुआ, भारत भूमिसे लेकर पाताल लंका पर्यन्त लक्ष्मीके निवासभूत सीताके भूषणोंको पा कर सीताकी चिन्तामें विभोर तथापि कर्त्तव्यका विचार करता हुआ, दुखसे समय बिता रहा था।