SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १६४ द्विसन्धानमहाकाव्यम् सामर्थ्यम्, पुनः कथम्भूतम् ? अगाधगम्भीरम् अनाकलित निःक्षोभम् कथम्भूतो राजा ? हृदयं निगूहमानः, कथम्भूतम् ? अनेन वैरिणा दुर्योधनेन विदीर्ण पुनः श्रीमलक्ष्मीवत् । शेषं तुल्यम् ॥५७॥ स सदसि हृषीकेशेनोच्चैर्बलेन गरीयसा परमतनयेनायं भ्रातृव्रजेन च सङ्गतः । विलुलितकथः शस्त्रे शास्त्रे कलासु कथासु च प्रभुरगमयत्कश्चित्कालं धनञ्जयमूर्जयन् ॥५८॥ इति श्रीधनञ्जयकृती राघवपाण्डवीये महाकाव्ये रावणयुधिष्टिरलङ्काद्वारवती प्रवेशकथनो नामाष्टमः सर्गः ॥ ८ ॥ स इति सोऽयं रावणः कञ्चित्कालं समय मगमयत् निनाय, किं कुर्वन् ? धनं द्रव्यं तथा जयमूर्सयन्नुपार्जयन् कथम्भूतः प्रभुः विभुः पुनः विलुलितकथः विलुलिता कथा येन सः, विहितविचारण इत्यर्थः । क १ शस्त्रे चापतोमरादिलक्षणे तथा शास्त्रे व्याकरणतर्कादिलक्षणे जात्यपेक्षयैकवचनम् | तथा कलासु वेणुवीणादिषु तथा कथासु कादम्बर्यादिषु । क ? सदसि सभायाम् पुनः कथम्भूतः १ गरीयसा गरिष्ठेनाजय्येन बलेन सैन्येन सङ्गतः संयुक्तस्तथा परमतनयेन परगा श्रीर्यस्य स परमः परमश्चासौ तनयश्च परमतनयस्तेन श्रीमदिन्द्रजिता पुत्रेण सः भूवैद्रित्तिएवनिता चन्दनादीननुभवितुमित्यर्थः, कथम् ? उच्चैरत्यर्थ तथा भ्रातृमजेन विभीषणादिसमूहेन सङ्गतः । 1 भारतीयः - धनञ्जयमर्जुनम् ऊर्जयम्प्रोटिं नयन्, हृषीकेशेन नारायणेन बलेन बलभद्रेण तथा परमतनयेन परं केवलं मत इष्टः नयो दुष्टशिष्टनिग्रहानुग्रहलक्षणो येन तेन दुधनां निग्रहः शिष्टानां प्रतिपालनं राज्ञां धर्मो न तु जटाधारणं शिरोमुण्डनं चेति वचनात् । यद्वा परेषामरीणां मतो ज्ञातो नयो नीतिर्येन तेन, भ्रातृजेन भीमादिसमूहेन सङ्गतः गरीयसेति कृष्णबलयोविशेषणं लोकपूज्यत्वात् । शेषं पूर्ववत् ॥५८॥ इति निरवद्यविद्यामण्डनमण्डित पण्डितमण्डलमण्डितस्य षट्तर्कचक्रवर्तिनः श्रीमद्विनयचन्द्रपण्डितस्य गुरोरन्तेवासिनो देवनन्दिनाम्नः शिष्येण सकलकलोद्भव चारुचातुरीचन्द्रिकाचकोरेण नेमिचन्द्रेण विरचितायां पदकौमुदी नाम दधानायां टीकायां रावणयुधिष्ठिरङ्काङ्कारवती प्रवेशकथनोऽष्टमः सर्गः ॥ ८ ॥ 3 राज्य लक्ष्मीयुक्त शत्रु दुर्योधनके द्वारा खण्डित मनको छिपाते हुए राजा युधिष्ठिर ] ॥५७॥ इन्द्रिय जेता, बलवान, गौरवशाली भाइयों तथा श्रेष्ठ पुत्रके साथ राजसभामें शासन, शास्त्र और ललित कलाओंकी चर्चा करता हुआ तथा अपनी सम्पत्ति और विजय के साधनों को बढ़ाता हुआ राजा रावण कुछ समय बिता रहा था । परम वली, सबके श्रेष्ठ, हृषीकेश कृष्णजी तथा भाइयोंके साथ शत्रुओं की योजनाएँ जाननेमें व्यस्त इस राजा युधिष्ठिरने यादव राजसभा में शस्त्र शास्त्र तथा संगीतादिकी चर्चाएँ करते हुए और अर्जुनकी प्रतिष्ठा बढ़ाते हुए कुछ समय व्यतीत किया था ॥ ५८ ॥ निर्दोषविद्याभूषणभूषित पण्डितमण्डलीके पूज्य, षट्तर्कचक्रवर्ती श्रीमान् पंडित विनयचन्द्र गुरुके प्रशिष्य, देवनन्दिके शिष्य, सकलकला चातुर्य चन्द्रिका के चकोर, नेमिचन्द्र द्वारा विरचित कवि धनन्जयके राघव पाण्डवीय नामसे ख्यात द्विसन्धान काव्यकी पदकौमुदी टीकामें रात्रण युधिष्ठिर-लङ्काद्वारावती प्रस्थान कथन' नामका अष्टम सर्व समाप्त । ----- ३. श्लेषः- ब०, ना० । उपजातिवृत्तम् । २. श्लेषः - ब० ना० । हरिणीवृत्तम् । लक्षणं हि "रसयुगसम्रौ स्लो गो यदा हरिणी तदा । " ( वृ० र० ३।२३) ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy