SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः स्वगोचरमिति-स नृपती रायणः राजमार्ग प्रपेदे, कथम्भूतम् ? हयस्थकन्योज्झितपुष्पलाजं इयंस्थाः | सौ बस्थिताः याः कन्यास्ताभिरुज्झितानि पुष्पाणि लाजा आईतण्डुला यत्र तं मन्दिरगतकुमार्युपक्षिसकुसुमजलार्द्रतण्डुलमित्यर्थः । किं कृत्वा ? सम्मान्यलङ्कारमी लङ्कावनरक्षकस्य वनमालिकाख्यस्य भार्याम् अथवा (लङ्का ) नगरोसंज्ञा सम्मान्या चासौ लङ्का च सम्मान्यलका सम्मान्यल व रमणी सम्मान्यलङ्कारमणी तां तथोक्ताम् , किं कुर्वन् ? स्वगोवरमात्मविषयम् अधिस्त्रि स्त्रीषु प्रवृत्तं जल्पं शृण्वन्नाकर्णयन् । भारतीयः-स नृपतिर्युधिष्ठिरः राजमार्ग प्रपेदे, किं कृत्वा ? पूर्व निरूप्य, कान् ? सम्मान्यलङ्कारमणीन् सम्मानिनः सम्यक् प्रकारेण मां लक्ष्मीमनन्ति प्राणन्ति पुष्टिं नयन्तीति सम्मानिनः अलङ्कारभूता मणयः सम्मानिनश्च तेऽलङ्कारमणया सम्मान्य लङ्कारमणयस्तान् अथवाऽलङ्कारे मणयो येषां ते तान् , सम्मान्यलङ्कारमणीन् लक्ष्मीवतः प्रधानपुरुषामित्यर्थः । शेषोऽर्थः प्राग्वत्' ।।४९| आद्रा बालाश्चिक्षिपुस्तस्य शेषामुच्चैरूडा येन सा धूवरायाः। आलोकान्तं कीर्तिलक्ष्मीप्रतापैरुच्चै रूहायेन सा धूर्वरायाः ॥५०॥ आमितिबाला मुग्धाः कामिन्य आर्द्रा शेषां तस्य राज्ञः चिक्षिपुः क्षिप्तवन्त्यः । तस्य कस्य । येन राज्ञा वरायाः शोभनाया उर्वरायाः भूमेरुच्चैवाढम् उच्चैः महती सा लोकप्रसिद्धा, धूधुरा ऊदा धृता। कथं यथा भवति ! आलोकान्तं लोकत्रयं यावत् , पुनः कथं यथा भवति ? साधु लोकप्रशंसाविषयत्वात् मनोहारि, कैः कृत्वोढा धूः ? कीर्तिलक्ष्मीप्रतापैः, कथम्भूतेन येन ? रूढायेन अयः शुभावहो विधिः, रूढः जगद्विख्यातोऽयो यस्य तेन ॥५०॥ विभीषणाभ्युन्नतकुम्भकर्णमुख्यैर्महानागबलैयु तेन | पराक्रमेणेन्द्रजितोद्धतेन प्रत्यभ्युदीये हरिणेक्षणेन ॥५१॥ विभीषणेति-इन्द्रजिता इन्द्रजिदाख्येन पुत्रेण प्रत्यभ्युदीये प्रत्यभ्युत्थितम् । कथम्भूतन ? हरिणक्षन मृगलोचनेन, पुनरुद्धतेन गर्वपर्वताधिरूढेन, पुनः पराक्रमेण परान शत्रून् आक्रमतीति पराक्रमस्तेन पुनः महानागमिव बलं येषां तैः महानागवल्युतेनान्वितेन, कथम्भूतैः ? विभीषणाभ्युन्नतकुम्भकर्णमुख्यः, विभीषणश्चाभ्युन्नत उदयं प्राप्तश्वासौ कुम्भकर्णश्च मुख्यौ प्रधाने येषां तैः । भारतीयः-हरिणा नारायणेन ईक्षणेन कृत्वा प्रत्यभ्युदीये । कथम्भूतेन हरिणा ? विभीषणाभ्युन्नतकुम्भकर्णमुख्यैः, विभीषणानि भीष्माणि अभ्युन्नतातुङ्गा कुम्भाश्च कर्णाश्च मुख्यानि च येषां तैस्तथोक्तैर्महा अपनी परम प्रिय लंकाकी त्रियोंको देखकर रावण अथवा अत्यन्त सम्पत्तिशाली नागरिकोंके मणियुक्त भूपणाधारियोंके अभिवादन स्वीकार करके धर्मराजने अपनेको लेकर स्त्रियोंमें चलती बातें सुनते हुए उस राज-मार्गपर प्रस्थान किया था जिसपर भवनोंके ऊपर बैठी कन्याओंने फूल तथा लावेकी वर्षा की थी ॥४९॥ जो शुभ कार्योंका पोषक है तथा जिसने शेष तथा उर्वग भूमिका वह महान् दायित्व साहसके साथ यश, सम्पत्ति और प्रभुताके द्वारा तीनों लोकोंमें पूर्ण रूपसे धारण किया है उस पर लड़कियोंने आई पूर्णाहुति छोड़ी थी ॥५०॥ महान् नागोंके समान बलशाली विभीषण तथा अत्यन्त ऊँचा कुम्भकर्ण आदि प्रमुखों सहित हरिण समान चंचलनेत्र, शत्रुओंके आक्रामक इन्द्रजीत नामक पुत्रने रावण की अगवानी की थी। अत्यन्त भयंकर और ऊँचे सविशेष गण्डस्थल तथा कर्णधारी विशाल हाथियोंकी 1. इलेप:-ब., ना० । उपजातिवृत्तम् । २. शालिनीवृत्तम् । लक्षणं हि-"शालिन्युक्ता मतौ तगा गोऽधिलोकैः" (वृ. र० ३।३५)।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy