________________
द्विसन्धानमहाकाव्यम् तं राजानम् , कया हेतुभूतया ! स्पर्धया, किं कुर्वन्ती सती ? उद्वहन्ती । कम् ? तमात्मदर्शम् , केन कृत्वा ? इस्तेन | कथम् ? तथैव तेनैव गमनप्रकारेण, किं कुर्वाणोद्वहन्ती ? ईक्षमाणा पश्यन्ती, किम् ? तन्मुखम् , क ? आदर्श मुकुरुन्दे' ।। ३८ ॥
महानिवेश कुभारमेका भूत्वा कराभ्यां त्वरितं जिहाना ।
उपर्यु पयुच्छ्वसिता नताङ्गी शून्यं तरन्तीव घटद्वयेन ॥३९॥ ___ महेति-नताङ्गी काचिदेका कामिनी उच्छवसिता ! कथम् ? उपर्युपरि । किं कुर्वन्तीवोत्प्रेक्षिता ? तरन्तीय, केन कृत्वा ? घटद्वयेन, कथम् ? शून्यम् एवमेव, किं कुर्वाणा सती १ बरितं द्रुतं जिहाना गच्छन्ती सती, किं कृत्वा ? महानिवेशं घनपीनोन्नतस्थितिमन्तं कुचभारं कराभ्यां धृखा ॥३९॥
विधूय लीलाम्बुजमुत्पलाशं निनन्नलिं कर्णगमुत्पलाशम् । _प्रेजेऽङ्गनौंघः सुरयो निजेन हावेन गच्छन्सुरयोनिजेन ॥४०॥ विधूयेति-अङ्गनौधः नितम्बिनीसमूहः मुरयोनिजेन सुराणां योनिः सुरयोनिः सुरयोनेजर्जातः सुरयोनिजस्तेनामरनरसम्भवेन निजेनात्मीयेन हावेन मुखविकारेण हेतुना प्रेजे रेजे । किं कुर्वन् ! गच्छन् , कथम्भूतः ? सुरयो अतिवेगः, किं कुर्वन् ? उत्पलाशमुद्गतपत्रं व्याकोशमित्यर्थः । लीलयम्बुजं क्रीडाकमलं विधूय कम्पयित्वा कर्णगं श्रवणस्थितम् उत्पलाशमुत्पले आशा वाञ्छा यस्य तम् अलि भ्रमर निमन्निवारयनिति ॥४०॥
दष्टाधरं तिष्ठतु सम्प्रहारः कस्याश्चिदास्तां कटकोपवेशः।
सर्वान्वजन्त्यास्त्वरितं भुजस्य विक्षेपमात्रं विवशीचकार ॥४१॥ दष्टेति-सम्प्रहारः परस्परताडनम् , “अत्र सम्भोगो व्यज्यते, तल्लक्षणाऽर्थाभिधायकत्वात् । यथा कुन्ताः प्रविशन्तीति प्रयोगे कुन्त घराः पुरुपा गृह्यन्ते । कथं यथा भवति ? दाधरम् , तथाऽस्ताम् , कोऽसौ ? कटकोपवेशोऽव्यक्तकरणरवः। यतो विवशीचकार विलीचके, किं तत् कत्त? कस्याश्चित्कामिन्याः भुजत्य इस्तस्य विक्षेपमात्रमान्दोलनमात्रम् ? कान्वशोचकार ? सर्वान्समस्ताअनान् , किं कुर्वन्त्याः ? शीघ्रं व्रजन्त्याः गच्छन्त्याः ||४||
अंसान्तविश्रान्तकुचान्तचक्रमाश्लिष्य कान्तेन तमर्धपीतम् ।
बिम्बोष्टमाक्षिप्य निमीलिताक्षं सीत्कारपूर्व कुलटाम्यधावत् ।।४२।। अंसान्तेति-अभ्यधावदभिजगाम | काऽसौ ? कुलटा स्वैरिणी । किं कृत्वा ? आक्षिप्याकृष्य । कम् १ तं बिम्बोष्ठम् , कथं यथा भवति ? सीत्कारपूर्वम् , कथम्भूतं नुष्टम् ( बिम्बोष्ठम् ) १ अर्द्धपीतम् , मानो किसी राजाको यही दिखाने गयी थी कि मेरा मुख सुन्दर है अथवा यह चन्द्रमा सुन्दर है ॥३८॥ .
कुच तथा यौवन भारसे झुकी, उत्तरोत्तर अधिक बेगसे साँस लेती कोई एक स्त्री अपने बड़े-बड़े कुचोंके भारको दोनों हार्थोसे सम्हाले तेजीसे आगे बढ़ती जाती पे.सी लगती थी मानो दो कलशोंके सहारे वह आकाशमें तैर रही है ॥३९॥
खिली पंखुड़ियोंसे सुन्दर लीला-कमलको हिलाकर कान पर लगे कमलके लोभी भोरेको मारती हुई वेगसे बढ़ती कामिनियोंके झुण्डने अप्सराओं में सुलम अपने हावभावके द्वारा अद्भुत छटा दिखायी थी ॥४०॥
परस्पर ओष्ठ काटकर सम्प्रहारकी कथा ही क्या है? किसीके कंकणकी ध्वनि भी बहुत बड़ा उद्दीपक है। इस समय तो किसी जाती हुई कामिनीका वेगसे हाथका हिला देना मात्र सबको विवश कर देता था ॥४१॥
स्तनके चूचुकको कंधेके ऊपर रखते हुए गाढ़ आलिंगन करके प्रेमीके द्वारा आधा १. इन्दवनावृत्तम् । २. टीकेयमन्यवमुख्यप्रतिमवलम्ब्य दत्ता ।