________________
१५५
अष्टमः सर्गः
कामपरीता मधुविपरीता भूमिप कान्ता स्फुरदलकान्ता । काप्यनुगेयं लयमनुगेयं गायति मत्ता कृतरतिमत्ता ॥ ३१ ॥
कामीति - हे भूमिप ! इयं कापि कान्ता भामिनी गायति । कथम्भूता सती ? लयं द्रुतमध्यविलम्बितरूपमनुगाऽनुगच्छन्ती । कथम्भूतं लयम् ? अनुगेयं गेयस्यानु पश्चादनुगेयम् । कथम्भूता ! मत्ता पुनः कृतरतिमा विद्दितसम्भोगवत्ता पुनः का विपरीता कामकवेष्टिता पनः मधुविपरीता मधुना मद्येन विपरीता आचारेभ्यः प्रच्या चित्ता, बिली भूतेत्यर्थः । पुनः स्फुरदलकान्ता दीप्यमान केशाना ||३१||
चादयितारं प्रियदयितारं बाङ्मुखरा गाहितमुखरागा ।
तं बहुधा तु क्रमबहुधातु क्ष्माधिप हित्वाभिपतति हि त्वा ||३२||
वादयितारमिति - हे श्माधिप भूपते ! प्रियदयिता प्रिया चासौ दयिता च प्रिपदयिता सस्नेहकामिनी स्वा भवन्तमभिपतति सम्मुखमायाति । कथम् १हिं स्फुटम् । किं कृत्वा तं चादयितारं चतुविधवाद्यस्य प्रकटवितारं हित्वा परित्यज्य | कथम् ? बहुधा बहुप्रकारम् । कथम् १ यथा भवति क्रमबहुधातु क्रमेण परिपाया बहवो धातवो व्यञ्जनधातुप्रभृतयो यस्मिन्वादनकर्मणि तत्तथोक्तम् । एतेन चीणादिवादनं व्याख्यातम् । कथम् ? तु पुनः । पुनः कथम्भूता सती ? वाद मुखरा वचनवाचाला । कथम् ? अरमत्यर्थम् । पुनः कथम्भूता ? गाहितमुखरागा गाहितो व्यालीडितो मुत्रे रागस्ताम्बूलादिजनितधर्मो यया सा तथोक्ता ||३२|| मङ्गलयुक्तथा मृदुगंलयुक्त्या कोऽप्यनृशंसं परमनृशंसम् ।
लोक उदारः सहसुतदारस्त्वामभियातिस्थिरमभियाति ||३३||
मङ्गलेति कोऽपि लोक वां भवन्तमभियाति सम्मुखमागच्छति । कथम्भूतो लोकः ? मृदुगल: कलकण्ठः । कया ! उत्तया निर्वचनेन । कल्याः १ मङ्गलयुक्त्तयाः कल्याणघटनायाः । पुनः कथम्भूतः १ उदारः । पुनः सहसुतदारः । कथम्भूतं त्वाम् ? अतिस्थिरं निःक्षोभप्रकृतिं पुनः अनृशंसं दयालु पुनः परमन्नृशंसं परमा उत्कृष्टा नृभ्यो नरेभ्यः दशंसा स्तुतिर्यस्य तमथवा परमाश्च ते नरश्च परमनरः परमनृषु शंसा यत्य यस्माद्वा स तथोक्तस्तम् ? कया ? अभिया निःशङ्कतया ॥ ३३ ॥
इत्यर्जुनोक्तां मनसा प्रसन्नः स्वसुः स्थिराभिः प्रतिमान्यवाग्भिः ।
राजा पुरं प्रापदरातिचारविद्रावणो धर्मकृतोद्भवस्ताम् ||३४||
इतीति- राजा रावणः तां लोकप्रसिद्धां लङ्कां पुरं पुरीं प्रापत् । कथम्भूताम् ? इति पूर्वोक्तप्रकारेण ?
उक्तां स्तवन रूपेण निरूपिताम् 1 काभिः ? स्थिराभिः विचारसहाभिः प्रमाणक्षोदाक्षुष्णाभिः स्वसुः भगिन्याः
늅 भूपाल ! यह कोई मदोन्मत्त सुन्दरी गीतको गाती है और उसकी लयके अनुसार ही चलती ( नाचती ) है । यह कामियोंसे घिरी है, मदिरा पान के कारण सदाचार-विमुख है, इसके बाल बिखरे हुए हैं और रतिके कारण पागल हो रही है ॥ ३१ ॥
हे पृथ्वीपति ! सुखको ताम्बूलकी लालीसे गंगे, अत्यन्त वाचाल यह प्यारी स्त्री नाना प्रकार के अनेक धातुओंसे निर्मित ( अत्यन्त वीर्यवान् ) चारों प्रकारके वाजोंका बजानेपालोको छोड़कर आपके सामने चली आ रही है ॥ ३२ ॥
कोमल कण्टध्वनिले कल्याण कामना करते हुए ये कोई उदार लोग निडर होकर अपनी स्त्री तथा बच्चों के साथ मनुष्येतरां ( राक्षसों ) के स्तुत्य तथा अत्यन्त रुद्र ( युधिष्ठिरके पक्ष में दयालु तथा श्रेष्ठ मनुष्यों द्वारा प्रशंसित ) तथा अत्यन्त दृढ़ आपकी तरफ आ रहे हैं ॥ ३३ ॥
वहिनकी विचार युक्त तथा माननीय बातांके साथ अत्यन्त सरल मनके कारण प्रसन्न,
१. अनुपश्चाद्गेयं यस्य (तम् ) - ० | २. "भोभगोअघोअपूर्वस्य योऽशि" इति रोर्यादेशे 'पोर्लघुप्रयत्नतरः शाकटायनस्य' इति लघुच्चारणयकारादेशे मृदुगलयुक्तयेति ।