SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ द्विसन्धानमहाकाव्यम् धीरन्तुं गां गत्वा स यस्यामरस्य धीरं तुङ्गाङ्गत्वाच्छ्यिो वञ्चति द्याम् ।। रिक्तः स्वर्गणाकारि मानोऽज्ञकेन साम्यं किं सोऽस्या याति मानोज्ञकन ॥२७॥ धीरिति-यस्यामरस्य रन्तुं कीडितुं धीर्बुद्धिः प्रवर्तते । किं कृत्वा ? अस्या नगर्या गां भूमिं गत्वा, । अतएव वञ्चति त्यजति । कोसौ ? सोऽमरो देवः। काम् ? द्यां स्वर्गम् । कयं यथा धीरं निःक्षोभम् । कस्मात् ? तुङ्गाङ्गत्वात् स्पीतावयवस्वात् , कस्याः १ श्रियः शोभायाः, कस्याः १ अस्या नगयी इति सम्बन्धः । अतोऽकारि कृतः । कोऽसौ ? मानोऽभिमानः । केन कर्ता ! स्वर्गेण । कथम्भूतः ? रिक्तः शुन्यो वृयेत्यर्थः । कथम्भूतेन स्वर्गेण ? अशकेन मूहेन, अतएव किं यात्यपि तु न याति । कोऽसौ ! सः स्वर्गः, किम् ? साम्यं तुलाम् , केन हेतुना ? मानोशकेन मनोहरत्वेन, कस्याः १ अस्या नगर्याः लङ्काया द्वारवत्याश्चेति ।। २७ ॥ अस्याम्बुधेर्यातनिवृत्तमार्गे पुजैः स्थिता पे मणिशक्तिशङ्खाः । तथा त एवाये निवेशनेऽपि स्थिता इवान्तवाहिरप्यमुष्याः ॥२८॥ अस्येति-यातनिवृत्तमार्ग गतागतपृथिव्यां पुजै राशिभिः अस्याम् धेः ये मणिशक्तिशङ्खयः स्थितास्तथा तेनैव प्रकारेण हे आर्य स्वामिन् स्थिता इव भान्ति । के १ त एव मणिशुक्तिदाङ्खाः। छ ? निवेशनेऽपि राशिरचनायामपि । कथम् ? अन्तः मध्यप्रदेशे यहिरपि बाह्यप्रदेशे । कस्याः १ अमुख्या अस्या नगा इति ॥२८॥ यस्याः समीपेऽम्बुनिधिनिषण्णो रत्नैः स्फुटं भोजनभाजनानि | स्त्रियश्च देवाप्सरसां सहश्यः किं वयतेऽस्या विभवो नगयोः ॥२९॥ यस्या सि-यतो यस्था नगर्याः समा अधुनिधिः समुद्र निषाणः स्थितोऽत एवास्यां भोजनभाजनानि स्थालकादीनि स्फुटं प्रव्यक्तं रत्नैः माणिस्यादिभिः विद्यन्ते | यतश्च स्त्रियः देवाप्सरसाममराङ्गनानां सदृश्यस्तुल्याः विद्यन्ते । अतः कारणादस्या नगर्या विभवः सम्पत् किं वय॑ते स्तूयते ॥२९॥ अत्र समेता मृदुरसमेता भृकुटिलास्याः सरकुटिलास्याः । भूप रमन्ते खनुपरमं वे बेगमनेन व्यभिगमनेन ॥३०॥ अत्रेति-हे भूप रावण युधिष्ठिर च अत्र अस्यां नगर्या मृदुरसं माधुर्यरसं यथा हि स्फुटमनुपरममनवरतं वेगं शीघ्रमेताः कामिन्यः रमन्ते क्रीडन्ति | कैन हेतुना ? ते तवानेन व्यभिगमनेन सम्मुखगमनेन । कथ. म्भूताः १ मिलिताः, पुनः भ्रकुटिलास्याः भूभङ्गकुटिलाननाः । पुनः स्मरकुटिलास्याः स्मरन्य कुटिः गृहं लास्यं नृत्यं यासां ताः ||३०|| जिस देवको इस नगरीकी भूमिपर आकर रहनेकी इच्छा होती है वह विपुल लक्ष्मीके भंडार स्वर्गको भी निसंकोच भावसे छोड़ देता है। मूर्ख स्वर्ग भी व्यर्थका अभिमान करता है क्योंकि मनोहरतामें वह इस पुरी (लंका या द्वारका) की समानता करता है क्या? अर्थात् नहीं ॥२७॥ हे आर्य ! इसके बाजारों (आयातनिर्यात मागों) में जिस प्रकार समुद्रके मणि, मोती और सीप ढेरॉके ढेर पड़े हैं उसी प्रकार इसके भवनों में भी ये सथ भरे हैं। अर्थात् इसका थाहर भीतर के समान है ॥२८॥ इस लंका और द्वारकाके पास समुद्र फैला है अतपब इसमें भोजनके बर्तन भी रत्नोंके बने हैं। इसकी स्त्रियाँ भी देवोंकी अप्सराओके समान है। अतएव इसके वैभवका क्या वर्णन किया जाय ॥२९॥ हे राजन् ! टेढ़ी-टेढ़ी भ्रुकुटियुक्त मुखधारिणी, कामदेवके निवास समान नृत्यकारिणी एकत्रित ये स्त्रियाँ आपके इस शुभागमनके कारण लगातार ही मृदु और सरस रमणको शीघ्रतासे कर रही हैं ॥३०॥ १. उपजातिवृत्तम् । २. अत्र मौफिकमालावृत्तम्-तल्लक्षणञ्च "मौक्तिकमाला यदि भतनाद् गौ" (बृ. र. ३५४४) ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy