SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः १५३ समुन्नताम्भोजकुलाभिनन्यां विद्याधराणामधिवासभूमिम् | स्वं द्वारकान्तां खलु पश्यसीमां राजन्नलङ्कामहितां परेभ्यः ॥ २५ ॥ समुन्नतेति-हे राजन् ! न पश्यसि नावलोकसे त्वम् ? काम ? इमां लङ्काम् | कथम्भूताम् ! परेभ्यः शत्रुभ्योऽहितां दुःखहेतुम् , खल्विति निश्चयार्थः । तेनाबमर्थ:-परेभ्यो नान्येभ्यो जनेभ्यस्त्रस्तेभ्य , इति भावः । पुनः द्वारकान्तां गोपुरमनोहरां पुनः विद्याधराणां चराणामधिवासभूमिमन्वयापरम्परायाता पुनः समुन्नताम्भोजकुलाभिनन्यां समुन्नतानि च तान्यम्भोजकुन्टानि च तेभिनन्द्याम् । समुन्नता मान्यता अम्भोजकुला राक्षसा विभीपणादयस्तैः प्रशस्याम् । अथवौदण्ड जाजराजविराजमानामित्यर्थः । भारतीयः-हे राजन् युधिष्टिर ! त्वं ता लोकप्रसिद्धां द्वारका द्वारवती पदय ! कथाभृताम् १ सीमामवधि खलु खलुशब्दोवधारणार्थः । तेनायमर्थः-अन्यासां नगरीणां मर्यादामेव तत्रैवानन्यसामचिन्या विभृतः सम्भवात् । पुनः कामहिता कामाय अत्रैव वास्तव्यमरमाभिरित्यभिलापाय हितासां ताराम । केभ्यः ? परेभ्यो धनिभ्यः सत्पुरधभ्यः । अस्यामेव योगक्षेमघटनायाः सम्भवात् । “अमिति बांगन परश्य इत्यत्र षष्ठ्याः प्रासौ चतुर्थी ।" पुनरपि कथम्भूताम् ? विद्याधराणां शस्त्रशास्त्रपरिशानवतां पुंसामधिवासभूमि पुनः भोजकुलाभिनन्द्यां यादवकुलप्रशस्याम् । दाशार्हकुलं वृष्णिकुलं यादवकुलमिति इरिवंशस्य विदोषाः । पुनः समुन्नतो तुनाम् ॥ २५ ॥ कल्लोलैरिह जलधेः सुधागृहाणि व्यज्यन्ते मुरजरचा न गर्जितन | नाम्भोदैः सततगतैर्गवाक्षधूपाः प्राप्तापि ब्रजति न लक्ष्यतां पुरीयम् ॥२६॥ कल्लोलैरिति--सुधागृहाणि जलधेः कल्लोलेकालकाभिर्न व्यज्यन्ते, छ ? इह अस्यां नगर्याम् । तथा न व्यध्यन्ते प्रकाश्यन्ते, के १ मुरजरवाः मृदङ्ग वनयः, कैग ? गर्जितेन मम वनिना । तथा न व्यज्यन्ते गवाक्षधूपाः, कैः ? सततगतैरनवरतप्रयातरम्भोदैः, अतश्वासाचियं पुरी लङ्का द्वारवती च लभ्यतां ज्ञेयत्वं न ब्रजति, कथम्भूता सती १ प्राप्तापि शातापि । 'प्राप्नोति' क्रियाया ज्ञानार्थत्वं धातूनामनेकार्थत्वात् ॥ २६ ॥ अन्यथ-राजन् ! त्वं समुन्नताम्भोजकुलाभिनन्द्यां, विद्याधराणामधिवासभूमि द्वारकान्ता परेभ्यः अहिता इमां लङ्का न पश्यसि ? है रावण ! तुम इस लंकाको नहीं देखते हो? जो प्रतिष्टित राक्षसचंशियोंके द्वारा अभिनन्दनीय है। विद्याओंके धारकोंकी निवासभूमि है, गोपुगेसे सुशोभित है तथा शत्रुओंक लिए अनिष्टकारी है। राजन् स्वं, परेभ्यः अलं, खलु सीमां, कामहिता, भोजकुलाभिनन्यां, विद्याधराणामधिवासभूमि ना द्वारकां पश्य । हे धर्मगज ! आप सामने स्थित द्वारकाको देखें, यह शत्रुओंके लिए चुनौती है, गजपुरियोंकी अन्तिम सीमा है, निवासकी कामनाकं लिए. इष्ट है, यादवकुलको परम प्रिय है और शास्त्र तथा शास्त्रविद्याओं में प्रवीण लोग यहाँ रहते है ॥२५॥ इस लंका अथवा द्वारकामें चुनासे श्वेत भवन समुद्र की लहरों के कारण नहीं दिखते है, समुद्रफी गर्जनामें नगाड़ोंकी आवाज छिप जाती है तथा सदेव वर्तमान मघोंके कारण खिड़कियोंसे निकलता सुगन्धित धुआँ भी अदृश्य हो जाता है। इस प्रकार सामने रहनेपर भी यह नगरी दिखती नहीं है ॥२६॥ १. उपजातिवृत्तम् , लक्षणाच-"अनन्तरोदारितलपमभाजौ पादा यदीयायुपजातयस्ता:" (० २० ३।३२) । २. प्राप्नोति क्रियायाः कथं ज्ञानार्थवम् ? धातूनामनेकार्थत्वाल्लोकतः सिद्धम् । यथा स्वदीयं चितं प्राप्तमिस्यन्न ज्ञातमिति भावः-१०, २० । प्रहर्पिणीवृत्तम् । २०
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy