SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५२ द्विसन्धानमहाकाव्यम् निति सरःसमूहाः, वीनां सरोविसरः पक्षिसमुदायः, आयमतिपततीत्येवंशीलः आयातिपाती आयातिपाती विसरो यत्र स तथोक्तः । पुनः जवनस्वरः शीप्रघोषः । कथम् ? अघोऽवस्तात् । पुनः कथम्भूतः ! आविलः कलुषः । कथाभूतं रयम ? आविलोलं सामस्त्येन चञ्चलम् । कैः १ अत्रासनझमकरैः न विद्यते प्रासो येषां तेवासाः, नकाश्च मकराश्च नक्रमकराः, अत्रासाश्च ते नक्रमकराश्चात्रासनक्रमकरास्तैः। आ सामस्त्ये.. नासनं क्षेपणं येपो त आसनाः, क्रमाश्चरणाः, करा हस्ताः, क्रमाश्च कराश्च कमकराः, आसनाः क्रमकरा येषां ते आसनक्रमकरास्तैरासनक्रमकरैः। तथा च पाति रक्षत्ययं पयोधिः । किम् ? विसरोजवनस्वरोषः सरोजानां कमलानां वनं सरोजवनं विभिरूपलक्षितं सरोजवनं यत्र तद्विसरोजवनं विसरोजवनञ्च तस्वरोधश्च विसरोजवनस्वरोधः विहङ्गमयुक्तकमलकान्तारस्वकीयतटमित्यर्थः । ।। २२ यद्वातकी यद्वलिभस्तरङ्गी तत्कि गतो वर्षिमहानियोगम् । सत्त्वानुकम्पाभिरतो यदब्धिस्तत्कि गतो वर्पिमहानियोगम् ॥२३॥ यदिति-अत्र यत्तदोः सामान्योक्तिप्रयोगः । यद्वातकी वातोऽस्यास्तीति यातकी, यदलिभः यत्तरङ्गी तरङ्गाः सन्त्यस्येति तरङ्गी, तकिं गतः वर्षिमहानियोगं वृद्धभावापचयनसम्बन्धम् ? अत्र तात्पर्याथों निवेद्यतेययाऽन्यः कश्चिप्राणी किल वातकीबलिभिस्तरङ्गी सन् वृद्धभावं प्रयाति तथा समुद्रो न यातीति गम्यते । या अपवा यदब्धिः यदुदधिः सत्वा भुकम्पाभिरतो पति, तारक गतः किम् ? ऋषिमहानियोगं ऋषीणां मुनीनां महानियोगम् महानुष्ठानम् । यथा किलान्योऽपि सत्त्वकरुणाभिरतो मुनीनां तपश्चरणानुपानं प्राप्नोति तथा न सत्त्वानुकम्पाभिरतोऽपि समुद्रः तपश्चरगानुष्ठान प्राप्नोति, तस्याचेतनत्वाद् जल(ड)स्वभावत्वाच्चेति भावः । सत्त्वाः मीनमकरादयः अनुकम्प कम्पस्य चञ्चलत्वस्य पश्चादनुकम्पम् , अभिरतं सामल्येन कीडितम् , सत्वानामनुकम्पामभिरतं यत्र स सस्वानुकम्पाभिरत इति ॥ २३ ॥ अमुत्र मकरैः करैर्विरचिता चिता विनियतायताप्य च नमः। नभस्वदयुतायुता दिशमितामिता समहिमा हिमा जलततिः ।। २४ ।। अमुप्रेति-इता गता | काऽसौ ? जस्ततिः पयःपूरः । काम् ? दिशम् । क १ अमुत्रास्मिन्प्रदेशे । कथम्भूता ? विरचिता । कैः कर्तृभिः १ मकरैः । कैः करणैः १ करैः शुण्डाभिः । कथम्भूता ? चिता पुष्ट. मूलेत्यर्थः । पुनः कथम्भूता १ बिनियता विभिः पक्षिभिर्नियता सम्बद्धा विनियता, पुनरायता दीर्घा ! किं कृत्वा ? नभो गगनमाप्य प्राप्य, पुनः कथम्भूता ? नभस्वदयुतायुता नभस्वतां वायूनां देवानामयुतेन दशसहससङ्ख्यया आयुता सामरत्येन संयुक्ता पुनरमिता प्रचुरा पुनः समहिमा महिम्ना सह वर्तमाना पुनः हिमा शीतला ॥ २४ ॥ घोष होता रहता है तथा मलीन है ऐसा यह समुद्र यहाँपर निर्भय मगरमच्छोंकी कीड़ासे अत्यन्त चंचल है तथा परिपूर्ण वेगको प्राप्त है अपने किनारेके पक्षियुक्त कमलवनोंकी रक्षा भी करता है ॥२२॥ जो यह समुद्र घायुपूरित ( वातरोगी), बलिपूर्ण ( झुरींदार) तथा लहरोंसे व्याप्त (झुका हुआ) हुआ है सो क्या वृद्धावस्थाके महाप्रभावको प्राप्त हुआ है ? अथवा समुद्रवासी प्राणियों के पालनमें लीन (प्राणिमात्रपर दयालु) जो यह समुद्र है सो क्या यतिकी साधनाको कर रहा है।॥२३॥ मकरोकी सूड़ोंके द्वारा फैलायी गयी, परिपुष्ट, पक्षियों के द्वारा पीत और आकाशमें ऊपर तक उठी हजारों गुनी पधनके वेगसे युक्त, प्रत्येक दिशामें निःसीम, महत्त्वपूर्ण तथा शीतल जलराशि यहाँपर है ॥२४॥ 1. अर्धसमयमकम्-०, ना० । वसन्ततिलकावृत्तम्चात्र । २. इन्द्रधजा वृत्तमत्र । ३, बलो. दतगति वृत्तं, लक्षणच "रसैर्जसजसा जलोइतगतिः" (. ३० ३१५७)।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy