SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५० द्विसन्धानमहाकाव्यम् क्षोभं गतः प्राप्तः | कपास गुनः ! सोलपिन्द्रभाषः, रसोय उल्लासतमिन्द्रचापं यत्र सः, पुनः कल्लोलमेघः कल्लोला एव मेघा यत्र सः, पुनः शङ्खचलबलाकः शङ्खा एव चलन्त्यो बलाका यत्र सः । कथम्भूतेन नमस्वता ! सकदम्पकैन कदम्बकुसुमवृन्दवता ॥ १८ ॥ इत्थं तेन व्यापृतनेत्रेण पयोधौं वेलावेगाद्भानुसमीपं हियमाणा । क्रन्दन्त्यन्तःस्नेहकृपा, परिवृत्य श्रीमत्सीतापक्रमतता विलुलोके ॥१९॥ इत्थभिति- व्यापृतनेत्रण व्यापारितनेत्रेण तेन रावागेन | छ ! पयोधौ समुद्र, इत्थमुक्तप्रकारेण श्रीमसीता श्रीमती चासौ सीता च श्रीमत्सीता विलुलोकेऽवलोकिता । किं कृत्वा ? परिवृत्य परिवर्तनं कृत्वा । कथम् ? यथा अन्तः स्नेहकृपाश्चेतो मध्ये प्रीतिकरुणाम् । किं कुर्वाणा ? लियमाणा नीयमाना । किं तत् ? भानुसमीपम् सूर्यसमीपम् । कस्मात् ? वेलाबेगादन्तर्मुहूर्तरामयात् । कथम्भूता सती ? क्रन्दन्ती चिलपन्ती रामरामोच्चारणपुरःसरतया रक्ष रक्षेत्यादिविलापपूर्वक रुदतीत्यर्थ । पुनः कथाभूता ? अपक्रमतता अन्यायमार्गजनिवदुःखा। *भारतीयः तेन युधिष्ठिरेण इत्थं श्रीमत्सी श्रिया शोभया उपलक्षिता चासौ मत्सी च श्रीमत्सी सर्वाङ्गपरिपूर्णतया शोममाना शफरी विलुलोके । कथम्भूतेन ? पयोधौ व्यापृतनत्रेण । किं कुर्वाणा ? हियमाणा गम्यमाना । अत्र तृतीयाथै पञ्चमी । तेनायमों लभ्यते । किम् ? भानुसमीपम् । कस्मात् ? वेलावेगात्कल्लोलवेगेनेत्यर्थः । किं कुर्वाणा सती ? कन्दन्ती । कथम्भूता ? तापक्रमतता सन्तापपरम्परादग्धा, शेप माग्वत् ||१९|| स्थिरसमुद्रसमुद्रसकौतुकाधुगभुजं विनयेन नयेन च । तमुदितं मुदितं ह्यनुजोग्रवागिति विभुं निजगी निजगौरवात् ॥२०॥ स्थिरति-न निजगौ अपि तूक्तवती । कासौ अनुजा भगिनी सूर्पणखा । किम् ! उदितं वचनम् , के प्रति ! तं रावणं प्रति । केन कृत्वा ? विनयेन प्रश्रयेण | कस्मात् ! निजगौरवात्स्वकीयमाहात्म्यात् । कथम् ! हि स्फुटम् । कथम् ? इति वक्ष्यमाणप्रकारेण । कथम्भूतम् रावणम् ? मुदितं हृष्टम् । केन ? नयेन च (न) येनैव वचसा 'चकारोऽत्रावधारणार्थी बोद्धव्योऽव्ययानामनेकार्थत्वात् । पुनः विभुं स्वामिनं व्यापकं त्रैलोक्यक्षोभविधायित्वात्तस्य | पुनः कथम्भूतम् १ युगभुजं यां गच्छन्तीति झुगा विद्याधरास्तान् भुनक्ति रक्षतीति युगभुक्तम् । कथम्भूताऽनुजा ? उग्रवाक् तीव्रवचना । पुनः स्थिरसमुद्रसमुद्रसकौतुका मुदा सह वर्त्तते समुत् समुञ्चासौ रसश्च समुद्रसः स्थिरसमुद्रे समुद्रसो यस्मात्तत् स्थिरसमुद्रसमुद्रसं स्थिरसमुद्रसमुद्रसं कौतुक यस्याः सा तथोक्ता । अथवा स्थिरश्वासी समुद्रश्च स्थिरसमुद्रः, मुदोरसः मुद्रसः हर्षरसः, सह मुद्रसेन वर्तत इति समुद्रसम् , स्थिरसमुद्रे समुद्रसकौतुकं यस्याः सा तथोक्ता निश्चलाम्भोधिसहर्षरसकौतुकेत्यर्थः ।। धारी, तरंगमाला रूपी मेघोंसे आवृत तथा शंखोंरूपी उहती सारस या हंसपंक्ति युक्त यह समुद्र वर्षा ऋतुकी नकल कर रहा है ॥१८॥ - अन्वय-पयोधी इत्यं परिवृत्य व्यापृतनेत्रेण तेन बेलावेगात्, भानुसमीपं हियमाणा अपक्रमतता, क्रन्दत्ती श्रीमत्सीता अन्तःस्नेहकृपाई विलुलोके । समुद्रकी ऐसी छटाके रहनेपर भी घूमकर आँख उठानेपर उस रावणने बड़े वेगके साथ ऊपर आकाशमें सूर्यके समीपसे ले जायी गयी अपमानके कारण उद्दीप्त आन्तरिक पतिप्रेम और वैराग्य मनसे विलाप करती तथापि कान्तिमती सीताको देखा था। [इस प्रकार घूमकर देखते हुए धर्मराजने स्नेह और दयासे दूत होते हुए देखा था कि लहरोके द्वारा धूपमें फेंकी गयौं सुन्दर मछली उमासे दुखी होकर तड़फड़ा रही है ] ॥१९॥ अन्वय-स्थिरसमुद्रसमुद्रसकौतुका, उग्रवाक् अनुजा युगभुजं नयेन मुदितं उदितं तं विभु निजगीरवात विनयेन इति निजगी।। गाढ़ हर्ष तथा रसयुक्त अतएच अत्यन्त उत्कर जिज्ञासा मय, उन वक्ता छोटी बहिन सूर्पणखाने खेचरीके पालक, सीताके अपहरणके कारण प्रसन्न तथा देदीप्यमान राजा रावणका अपनी मर्यादाके रक्षणपूर्वक निम्न विनम्न वचन कहे थे।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy