SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः अध्यासीना निश्चला निस्तरङ्गानेतानेतानीलनीलान्प्रदेशान् । नीलाभ्राणां शङ्कया किं बलाका नो शङ्खानां पङ्क्तयस्ता विभान्ति ॥१०॥ अधीति- शङ्खानां ताः पङ्क्तयः नो विभान्ति । किमिति शब्दः संशयाथों बोद्धव्यः । किं तर्हि १ एता बलाकाः बक्यः । किं कुर्वाणाः ? एतान् प्रदेशानध्यासीना, अधितिष्ठन्त्यः । कया ! नीलभ्राणां कृष्णमेघानां शया भ्रान्त्या । कथम्भूता नः १ निर: रिया: इमम्भूना प्रदान ? नीलनीलान् श्यामश्यामान् पुनः निस्तरङ्गान्निश्चलान् ॥१०॥ एषामुष्मिन्विलसति मुक्ताशुक्तिर्मुक्ता शुक्तिः प्रसवनिरोधस्यालम् । रोधस्यालम्बितफलवामाश्वासैर्वामाश्वासैः सपदि ययोद्बोधेन ॥११॥ एपेति-एषा मुक्ताशुक्तिः मौक्तिकपुटी विलसति । क ? अमुस्मिन्प्रदेशे । रोधसि तटे मुक्ता परित्यक्ता। काऽसौ ! शुक्तिः शोकः । कया ? यया मुक्ताशुक्त्या । कस्य ? प्रसवनिरोधस्य प्रसूतिनियन्त्रणस्य । केन कृत्वा! उद्बोधेन प्रबोधसमयेन । कथम् ? अलमत्यर्थ सपदि युगपत् । कैः ! सहप्रसवनिरोधस्योद्बोधेन कृत्वा शुक्तिमुक्ता ! वामाश्वासैः निःसरणवायुभिः, कथम्भूतैः ? आलम्बितफलवामाश्वासैरालम्बितोऽङ्गीकृतः, फलानि मौक्तिकानि, वाम उद्दिरणम् , आशु शीघ्रम्, आसः क्षेपः, फलानां वामः, फलवामस्याश्वासः फलवामाश्वासः, आलम्बितः फलवामाश्वासो यैस्तैस्तथोक्तैरिति ॥११॥ गोखुराहत इवायमेकतो वर्तिकाभिरिव वर्तितोऽन्यतः । मेघविभ्रम इवाम्बुधिः क्वचित्सकुलः स कुलपर्वतैरिव ॥१२॥ गविति-अयमम्बुधिः एकत एकस्मिन्प्रदेशे गोखुराहत इव भाति । तथाऽन्यतोऽन्यस्मिन्प्रदेशे शिल्पिभिः वर्तिकाभिः चित्रलेखनीभिः कृत्या वर्तितः लिखित इव भाति । तथायं भाति । क इब ! मेघविभ्रम इव जलदोदयसंशय हव । क १ क्वचित् कस्मिंश्चिन् प्रदेशे । तथा कचित् कुलपर्व तैः कुलाचलैः सङ्कुल इव सम्भृत इव भाति ॥१२॥ उद्युक्तानामुदधिमहत्त्वस्तुत्या युक्त्यैतस्मिन्ननु गुणभारत्यागः । स्थाने स्थाने भवति कवीनां कुर्वत्युक्त्यै तस्मिन्ननुगुणभारत्यागः ॥१३॥ उद्युक्तानामिति-नन्वहो भवति जायते । कोऽसौ १ गुणभारत्यागः गुणा यथोक्तशास्त्रोपदेशपरिशानादिलक्षणाः, गुणानां भारल्यागः, गुणभारत्यागः । क ? एतस्मिन्प्रत्यक्षीभूते तस्मिन् लोकोत्तरे स्थाने स्थाने वे शंखोंकी पंक्तियाँ सुशोभित हो रही हैं ? या नीले-नीले मेघोंकी आशंकासे इस नील-नील समुद्रके हिस्सेपर आये निश्चल, बिलकुल ही न हिलते-खुलते और स्थिर होकर बैठे बगुलोंकी पंक्ति है ॥१०॥ इस समुद्र में मोतियोंकी सीप दिख रही है। इसने मोतीप्रसवकी पीड़ाका प्रारम्भ होते ही पूर्ण वेगसे एकदम ही श्वासे छोड़कर शीघ्र ही मुक्ताफलोंको प्रसूतिको करके किनारे पर शोकको छोड़ दिया है ॥११॥ ___ यह समुद्र यदि एक ओर गौके खुराँसे खुदा तुल्य है तो दूसरी ओर कारीगरोंकी टांकीले खुदे सदृश है। कहीं इसकी छटा मेघमालाकी है तो अन्यत्र यही कुलाचलोसे भरासा प्रतीत होता है ॥१२॥ __इस स्थानपर समुद्रकी गरिमाका सहेतुक घर्णन करने के लिए तत्पर कवियोंका 'अनु 1. शालिनी वृत्तमिदम् । लक्षणं हि "शालिन्युक्ता म्ती तगौ गोब्धिलोकैः" (. र. ३॥३५) २. चक्रचालयमकम्-ब., प., द.। जलधरमालावृत्तञ्च । न वचित्सर्वधा सर्वविशम्भगमनं नय इति । ३. रथोद्धता वृत्तमत्र, लक्षणं हि "रान्नराविद रथोद्धता लगौ" (वृ. र. ३।३९) ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy