SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४६ द्विसन्धानमहाकाव्यम् शिखाकलापशाम् औवाग्निज्वलनस्य यः शिखाकलापः ज्वालाकलापस्तस्य शङ्कां भ्रान्तिमेतस्मिन्प्रदेशे विदधति कुर्वन्ति ॥६॥ भान्त्येतस्मिन्मणिकृतरङ्गाभोगास्तत्सारूप्यान्निहततरङ्गाभोगाः । क्रीडास्थानै रुचिरमहीनामुच्चैरुद्वान्तानां सुचिरमहीनामुच्चैः ॥७॥ भान्तीति—एतस्मिन्प्रदेशे अहीनां सर्पाणां भोगाः कायाः भान्ति । कै? क्रीडास्थानैः । कथम् ! उच्चैरत्यर्थम् । कथम्भूतानाम् ? 'उद्वान्तानामुपर्युपरिपर्यरितानाम् । कथम् ? उच्चैरत्यर्थम् | कथम् ? यथा भवति सुचिरं बहुकालम् । पुनः कथम्भूतानाम् ? रुचिरमहीनां दीपावनीनाम् । कथम्भूता भोगाः ! मणिकृतरङ्गाभोगाः मणिभिः कृतः रङ्गो येषां ते, मणिकृतरङ्गा आभोगा येषां ते रलरञ्जितफणाः पुनः तत्सारूप्यासर्पसादृश्यात् निहततरङ्गा विध्वस्तवीचयः ॥ ७ ॥ आपातुं जलमिदमिन्द्रनीलजालव्याजेन व्यवतरतीव मेघजालम् । वक्षोभिः करिमकरैर्विभिन्नमम्भो यात्युद्यन्मणिरुचि शक्रचापभावान् ॥८॥ आपातुमिति मेघजालं जलदसङ्घः इन्द्रनीलजालव्याजेन इदं जलमापातुं व्यवतरतीय । तथा अम्भः वारि शमाचापभावान् इन्द्रधनुःस्वभावान् पञ्चवर्णदीप्तिस्वरूपत्वानि याति गच्छति । कथम्भूतं सत् ? करिमकरैः कर्तृभिः वक्षोभिः वक्षःस्थलैः कृत्वा विभिन्नं विन्दुशो विकिरितम् । पुनः कथम्भूतमम्भः १ उद्मन्मणिरुचि उद्यन्यूय गच्छन्ती मणीनामिव चिदीप्तिर्यस्य तत्' ||८|| एतान् प्रवालविटपान्स्वतटीभिरूढान्रूडानिषिञ्चति हतैरुदधिस्तरङ्गः । रङ्गैरिहाम्बुकरिणां निकटे वसन्तं सन्तं न सत्त्वसहिता ह्यवधीरयन्ति ॥९॥ एतानिति-असायम्बुधिः एतान्प्रवालविटपान् विद्रुमविटपान् तरङ्गैनिपिञ्चति । कथम्भूतैस्तरङ्गैः ? अम्जुकरिणां जलहस्तिनां रझै गतिभिः इतैः । कथम्भूतान् प्रवालविश्पान् ? रूढान् समुत्पन्नान् पुनः स्वतटी. भिरूढान् धृतान् । युक्तमेतत् हि स्फुटं सत्त्वसहिताः पुरुषाः निकटे वसन्त निवासं कुर्वाणं सन्तं सत्पुरुषं नावधीरयन्ति नावगणयन्ति ॥९॥ लगती हैं। और पद्मराग मणिकी छटाएँ दावानलके जलनेसे उठी लपटोंकी शंकाको उत्पन्न करती हैं ॥६॥ सुन्दर भूमिमें बने क्रीडाके स्थानोंसे बहुत समय तक ऊपर तेजीसे तैरते हुए तथा फणके मणियोंसे निकलती दीप्तियुक्त फणधारी तथा अपने ही समान होनेसे लहरोंको ढकेलते हुए सांपोंके शरीर इस सागरमें सुशोभित हो रहे हैं ॥७॥ इन्द्रनील मणियोंके जालके बहानेसे मेघमाला ही इसके जलको भरपूर पीनेके लिए उतरती-सी लगती है । हाथियों और मकरोके वक्षास्थलॊके थपेड़ोंसे बूंद-बूंदकर उछाला गया तथा उछलते मणियोंके समान चमकता इसका जल इन्द्रधनुषकी शोभाको धारण करता है ॥८॥ अपने किनारोंपर उगे तथा बढ़े मूंगाके पौधोंको जलके हाथियोंकी विशाल कायाके आघातले उत्पन्न विशाल लहरोंके द्वारा सींचता है | उचित ही है सामर्थ्यशाली पुरुष अपने पास रहनेवाले सज्जनोंकी उपेक्षा नहीं करते हैं. ॥९॥ 1. अत्र श्लोके प्रहर्षिणीवृत्तम् । तल्लक्षणच "म्रौ ब्री गखिदशयतिः प्रहर्षिणीयम्" (. र. ३७१)। २. उद्घान्तानां-द० । ३, उद्भ्रान्तानां-६०। ४, अत्र जलघरमालावृत्तम् । तल्लक्षणं हि"अब्ध्या : स्याजलधरमाला म्भौ स्मौ" (वृ. र. ३ । ६५)। ५. अन्न प्रहर्षिणी वृत्तम् । ६. भन्न ' वसन्ततिलका वृत्तम् । लक्षणञ्च "उक्ता वसन्ततिलका तभजा जगी गः" (चू. र. ३।७९)।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy