SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः १४३ भवानागत इति वदन्निव । कैः कृत्वाः ? गर्वैः कल्लोलकोलाहलैः । किं कुर्वन्निव ? वेलाभिः आलिङ्गन्निव परिरम्भमाण इव । भारतीयः तेन युधिष्ठिरेण दृष्टोऽम्बुधिरिति । शेषं प्राग्वत् ॥ ९४ ॥ शीतोऽम्भःकरिणां लवङ्गकवलोद्वारस्य गन्धं वहन्, वास्तालवनान्तरेषु परुषं हस्तैर्विवानाहतः । युद्धस्पर्धि परिश्रमेण तिमिभिः सीत्कृत्य पीतोऽम्बुधेराश्लिष्यत्स यशो धनंजयपरं विद्याधृतां नायकम् ॥९५॥ इति श्रीधनञ्जयकृतौ राघवपाण्डवीये महाकाव्ये सीताहरणलङ्काद्वारावतीप्रस्थानकथनो नाम समः सर्गः ॥७॥ शीत इति - आलिप्यत् परिभे । कोऽसौ ? स गुणत्रयेण प्रसिद्धी वातः । कम् ? नायकं स्वामिनं रावणाख्त्रम् | केपाम् १ विद्याघृतां विद्याधराणाम् । कथम्भूतम् १ यशोधनं यश एव धनं यस्य स यशोधनस्तं पुनः जयपरं जयं विपत्ति स्पष्टीकरोति जयपरः "पचादित्वात्पिपर्तेर" तं जयपरम् । कस्य सम्बन्धित्वेन चातः ? अम्बुधैः । कथम्भूतो वातः १ शीतः शीतलः पुनस्तिभिभिः मत्यैः हस्तैः करैः कृत्वा आहतः । किं कुर्वन् ? विवान् प्रवर्त्तमानः । क ९ तालवनान्तरेषु । कथम् ? परुषं निष्ठुरं यथा । कथम्भूतः ? अम्भःकरिणां जलहस्तिनां हस्तैः पीत आस्वादितः । केन हेतुना ? युद्धस्पर्द्धिपरिश्रमेण युद्धं स्पर्धत इत्येवंशीलः युद्धस्पद्ध स चासौ परिश्रमश्च युद्धस्पर्धिपरिश्रमस्तेन । किं कृत्वा पूर्व पीतो वातः १ सीत्कृत्य । किं कुर्वन् ? अम्भः करिणां जलहस्तिनां लवङ्गकवलोद्वारत्य गन्धं वहन् परिमलं दधानः | भारतीयः - ए वातः विद्यावृतां राजविद्याधराणां राज्ञां नायकं युधिष्ठिरं आलियत् । कथम्भूतम् ? यशोधनञ्जथपर यशसोपलक्षितो धनञ्जयः ददिसिद्धोऽर्जुनः तस्मिन्परः तं तथोक्तम् । उक्तञ्च - "प्रतापो यस्य वापि राज्ञां स्वाद्भयकारिणी । एकदिव्यापिनी कीर्त्तिः सर्वदिध्यापकं यशः ॥" शेषं प्राग्वत् ॥९५॥ इति निरवद्यविद्यामण्डनमण्डित पण्डित मण्डलीमण्डितस्य षट्तर्कचक्रवर्त्तिनः श्रीमद्विनयचन्द्रपण्डितस्य गुरोरन्तेवासिनो देवनन्दिनाम्नः शिष्येण सकलकलोद्भवचारुचातुरीचन्द्रिकाचकोरेण नेमिचन्द्रेण विरचितायां पड़कौमुदी नामदधानायां टीकार्या सीता हरण लङ्काद्वारावतीप्रस्थानकथनो नाम सप्तमः सर्गः ॥७॥ तसे आलिंगन करता-सा प्रतीत होता था । लहरोंकी गर्जना से स्वागतम्, स्वागतम् कहता सा लगता था ॥९४॥ जलके समान शीतल, युद्ध से भी बढ़कर थकानके कारण हाथियोंकी सूँड़के द्वारा फेंका गया लोग मिश्रित कुल्लेकी सुगन्धियुक्त तालवृक्षोंके वनमें तेजी से बहता तथा मछलियो के द्वारा सी-सी करके पिये गये समुद्रकी वायुने यहांके दरिद्र तथा जयविमुख विद्याधरोके राजा रावणको घेर लिया था । विद्याधारी राजाओं तथा विद्वानोंके अग्रणी, यशरूपी सम्पत्तिले समृद्ध तथा विजयको ही लक्ष्य करके प्रवृस धर्मराजका आलिंगन किया था ] ॥ ९५॥ निर्दोष विद्याभूषणभूषित पण्डित मण्डली के पूज्य, षट्तर्कचक्रवर्ती श्रीमान् पंडित विनयचन्द्र गुरुके प्रशिष्य, देवनन्दिके शिष्य, सकलकला चातुर्य चन्द्रिका के चकोर, नेमिचन्द्र द्वारा विरचित कवि धनन्जयके राघव पाण्डवीय नामसे ख्यात द्विसन्धान काव्यकी पकौमुदी टीकामें 'सीतापहरण-लङ्काद्वारावती प्रस्थान कथन' नामका सप्तम सर्ग समाप्त | 1. अस्मिन्लोके शार्दूलविक्रीडितं वृत्तम्। लक्षणं हि - सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् [वृ. ३१९९ ] ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy