SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ द्विसम्धानमहाकाव्यम् एष चापगुणोन्मुक्तविकसद्वाणसंहतिः । प्रदेशेऽस्मिन्नभीरामः प्रकाममवलोक्यताम् ॥५७॥ ___ एष इति-भो रावण ! एष रामोऽवलोक्यताम् त्वया । क अस्मिन्प्रदेशे । कथम्भूतः १ चापगुणोन्मुक्तविकसद्वाणसंहतिः चापगुणेन धनुर्मीळ कृत्वोन्मुक्ता विसष्टा विकसन्ती स्फुरन्ती वाणसंहतिः शरपर क्तियेन सः अभीः निर्भयः । कथम् ? प्रकाममत्यर्थम् । भारतीयः-हे युधिष्ठिर ! एघ पुण्याश्रमः त्वयाऽवलोस्यता । कथम्भूतः १ अपगणोन्मुक्तविकसद्वाणसंहतिः अपगुणेनावग्रहेणोन्मुक्ता विकसन्ती वाणानां वृक्षविशेषाणां संहतिः पङि क्तर्यत्र सः पुनरभीरामः मनोशः। क ? अस्मिन्प्रदेशे । कथम् ! प्रकामम् ।। ५७ ॥ शरप्रवाहदुर्गेऽस्मिञ्छ्रीसम्पलक्ष्मणान्विते । देशभग्नेभदन्ताये दृश्यतां दीप्रसागुरुः ॥५८॥ शरेति-रामः दृश्यताम् । कथम्भूतः १ दीप्रतागुरुः दीप्रतया प्रतापेन गुरुः । छ ? अस्मिन्देशे प्रदेशे । कथम्भूते प्रदेशे ? शरप्रवाहदुर्गे मार्गणगणविषमे पुनः श्रीसम्पलक्ष्मणान्विते श्रीसम्परसीता लक्ष्मणः सौमित्रिः ताम्यामन्विते पुनः भग्नेभदन्ताये भग्नर्जर्ज रैरिभदन्तैः गजरदैराट्ये संयुक्त। भारतीयः-एष च पुण्याश्रमो दृश्यताम् । कथम्भूतः ? दीप्रतागुरुः दीप्रतया तपश्चरणादिना गुरुः । क्व ? अस्मिन् देशे । कथम्भूते देशे ? शरप्रवाहदुर्गे पयःपूरदुःप्रवेशे पुनः श्रीसम्पल्लक्ष्मणा शोभासमृद्धिचिह्ननान्विते पुनः अभग्ने निरुपद्रवे पुनः भदन्ताये भदन्तैः पूज्यैः पुंभिराट्ये युते ॥५८|| अहो परमरौद्रत्वमसिधारावतैश्चिता । धत्ते सङ्ग्रामदुर्गान्तर्भूमिर्नरकपालिनी ॥५९।। • अहो इति–अहो आश्चर्ये असावन्तर्भूमिः समीपवर्तिनी भूमिः परमरौद्रत्वमतिशयेन भीष्मत्वं धत्ते धारयति । कथम्भूता सती ? संग्रामदुर्गा खरदूषणविहितसमरदुःप्रवेशा पुनः असिधारावतैरसिधारैव व्रतं येषां तैः क्षत्रियकुमारैश्विता उपचयं प्रासा पुनः नरकपालिनी मनुष्यारोटिवती । इस स्थानपर धनुषको डोरीसे छोड़े गये पढ़ते हुए घाणोंकी पंक्तिसे युक्त निर्भय राम हैं। इन्हें जी भरके खोज लो। अन्वय-अस्मिन्प्रदेशे च भप गुणोन्मुक्तविकमाणसंहतिः अमीरामः एषः प्रकाममवलोक्यताम् । इस स्थानपर ही जलराशिकी भरमारके कारण विकसित वाण वृक्षोंकी पंक्तियाँ हैं ये अत्यन्त सुन्दर लगती हैं। इन्हें खूब देखिये और प्रमुदित होइये ॥५७॥ वाण वर्षाके कारण संकटापन, टूटकर गिरे हाथीदाँतोंसे व्याप्त इस देशमें लक्ष्मी स्वरूप सीताजी तथा लक्ष्मणके साथ रहते हुए तेजस्वियोंके गुरु रामको भली. भाँति खोजिए। अन्धय-शरप्रवाहदुर्गे, श्रीसम्पपलक्ष्मणान्विते, भदन्ताये, अभग्ने भस्मिन् देशे वीप्रतागुरुः दृश्यताम् । पानीकी बाढ़ के कारण दुर्गम, लक्ष्मी और कान्ति रूपी चिह्नोंके धारक, श्रमासे परिपूर्ण तथा अखण्ड इस देशमें तपके प्रतापयुक्त इस आश्रमका दर्शन कीजिए ॥५८॥ ___ तलवार धारण करनेके व्रती वीरोंसे पटी, कुछ समय पूर्व हुए घोर युद्ध के कारण अगम्य और मनुष्योंके कपालोले घ्याप्त यह युद्धस्थली और दुर्गके बीचकी भूमि अत्यन्त भीषणताको धारण किये है। 1. श्लेषः-० ना०।२,संसारासातापरिज्ञानेन चैरङ्गिकैः पुरुषैराश्रिते-प०,द०।३.श्लेषः-१०,ना०।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy