________________
सप्तमः सर्गः
१३१
तेजाश्चेत्यर्थः । क इव न मुञ्चति ? शब्दागम इच व्याकरणमिव । यथा शब्दागमः उद्देशान् प्रकरणानि न त्यजति । कथम्भूतान् उद्देशान् ? बहुधातुगणाकीर्णान् बहुभिर्धातुगणैराख्यातसङ्घराकीर्णान् संकुलान् । कथम्भूतः शब्दागमः ? सुमहावाक् शोभना महतां शिष्टानां बागवाणी यस्मात् स सुमहावाक् पुनः उणादिमान् उणादिप्रत्यययुक्त इत्यर्थः।
भारतीयः-हे देव हे युधिष्ठिर न मुञ्चति । कः ? लोकः अष्टादशप्रकृतिजो जनः । कान् ? उद्देशान् उत्कृष्टान्देशान् धनजनकनकसस्यसमृद्धान् ; पुनः बहुधातुगणाकीणान् प्रभूतसुवर्णरूप्यलोहताम्रादिसमन्वितान् । | किंविशिष्टो लोकः ? सुमहावाः शोभनरत्सवैरावाति समन्तात्प्रवर्तते सुमहावाः । पुनः गुणादिमान् वीर्योदायादियुक्तः उपमार्थः प्राग्वत् ॥५५||
मन्दरागः स्वयं साक्षान्मन्त्रकृद्धिरधिष्ठितः ।
पुण्याश्रमो विभात्येष सानुमाननया श्रिया ॥५६|| मन्देति-एष सानुमान् अनया श्रिया विभाति शोभते । कथम्भूतः ? मन्दरागः मन्दरश्चासावगश्च मन्दराग: मेरुः । कथम् ? स्वयं स्वरूपेण । पुनः मन्त्रकृद्भिः विद्याधरैः साक्षात् परमार्थवृत्त्याधिष्ठित आश्रितः । पुनः कथम्भूतः ? पुण्याश्रमः पुणयति पुमांसं शुभ कर्मणि प्रवर्तयतीति पुण्यम् “योचोरासुयुवः” [जै० २।१।८४ ] इति यः प्रत्ययः । पुण्यसंयोजनहेतुत्वात् पुण्यानामुपलभ्यमानत्वादाश्रमः पुण्यानमो जनानामिति ।
भारतीयः-एष पुण्याश्रमः विभाति । पुण्यस्य सम्यक्तपश्चरणादिजनितशुभपरिणामलक्षणस्यानुभवखात् पुण्याः यतयस्तेषामाश्रमः पुण्याश्रमः । कया कृत्वा ? अनया प्रत्यक्षभूतया श्रिया शोभया । कथम्भूतः ! सानुमान् सया लक्ष्म्या सह जनमनुमानयत्यनुबन्धयतीति सानुमान् नीदागसमर्थ यर्थ । पुनः मन्दरागः मन्दो रागो यत्र स पुनः मन्त्रकृद्भिः योगिभिः स्वयमात्मना साक्षात् परमार्थतोऽधिष्ठितः ।। ५६ ।।
___ अन्वय-शब्दागम इच बहुधातुगणाकीर्णान् , घागुणादिमान् जोशान् सुमहा देवलोको न मुम्चति ।
व्याकरण शास्त्र के समान गेरु आदि समस्त धातुओंसे भरपूर (भ्वादि क्रियागोले पूर्ण ) ऊ (शिव)+ आ (ब्रह्मा) + अ (विष्णु) या अर्थात् मद्देश-ब्रह्मा-विष्णुके गुणोंसे युक्त ( उणादि प्रकरणों सहित ) अत्यन्त तेजस्वी (शुद्ध तथा कार्य वाक्योंके जनक) ऊँचे स्थलोंको (प्रकरणोंको) देव लोग नहीं छोड़ते हैं।
अन्धय-हे देव ! गुणादिमान् सुमहावाः लोकः शब्दागम इव बदुधासुगणाकीर्णान् उदेशान् म मुञ्चति ।
हे धर्मराज ! वीर्य शौर्य आदि गुणों के धारक, सुन्दर उत्सवोंमें सम्मिलित होनेके लिए आतुर, अठारह प्रकृतिके लोग सोना आदि धातुओसे पूर्ण इस उत्तम देशको नहीं छोड़ते हैं ॥ ५५॥
अन्वय-स्वयं मन्दरागः, मन्त्रकृतिः साक्षादधिष्ठितः पुण्याश्रमः एष सानुमान् अनया धिया विभाति ।
स्वभावसे ही सुमेरु पर्वत तुल्य, विद्याओंके साधकों (विद्याधरों) की प्रमुख निवास भूमि तथा शुभ आचरणके कारण आश्रम तुल्य यह पर्वत इस छटासे चमक रहा है।
अन्यय-मन्त्रवद्भिरविष्टितः स्वयं मन्दरागः, सानुमान, एपः पुण्याश्रमः भनया श्रिया विभाति ।
मन्त्रोच्चारणमें लीन तपस्थियोंसे ध्यात, स्वयमेव राग-द्वेषकी हीनताको प्राप्त झानादि रूप अन्तरंग लक्ष्मीके कारण आकर्षक यह पुण्यात्माओंका आश्रम साधनाकी सुन्दरतासे सुशोभित है ॥५६॥
१. इलेपः-बाना ।
स