SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३० द्विसन्धानमहाकाव्यम् सेव्याग्रामानरहिताः सानुभोगा द्रुमाकुलाः । अस्मिन्नष्टापदोपेतसञ्चारा दधति श्रियम् ॥ ५४ ॥ कुलकम् ) अपीति — अमी दृष्टिपथमायाताः सानुभोगाः पर्वतनितम्बविस्ताराः अस्मिन्दण्डके श्रियं दधति घरन्ति । कथम्भूताः ? करिकुलैः गजवृन्द्रैर्युताः । कथम्भूतैः करिकुलैः १ सुतरामाकुलैः व्यनैः पुनः सिंहकेसरसञ्छन्नाः कण्ठीरवकण्ठकेसरप्रच्छादिताः पुनः बहुधान्यातिदुर्गमाः बहुधा बहुप्रकारैरन्यैः श्वापदैरतिदुर्गमाः नानाप्रकारापरश्वापदातिदुःप्रवेशाः पुनः रम्यभावोदयाः पुनर्दिश्वाशासु द्राक्षापूगैरलङ कृताः पुनः नागबल्लीभिः ताम्बूलीलताभिः सर्पश्रेणिभिर्हस्तिश्रेणिभिरिति केचित् । प्रथिता गुम्फिताः । कथम्भूताभिः ? इतस्ततः स्फुरन्तीभिः विजृम्भमाणाभिः । पुनः सेवायाः आश्रवणीयशिखराः पुनः मानरहिता इयत्ता त्यक्ता, अत्यन्तविस्तीर्णा इत्यर्थः । पुनः अष्टापदोपेतसञ्चाराः शरभाश्रितमार्गाः । भारतीयः - हे युधिष्ठिर अपि शब्दस्यायमर्थः, अस्मिन्देशे पत्तनानां तावदास्तां वर्णना ग्रामा अपि श्रियं विभूतिं दधति । कथम्भूताः ? चामीकरिकुलैः सुवर्णाढ्य पुरुष सन्तानैर्युक्ताः । कथम्भूतैः १ सुतरामाकुलैः सुताः पुत्राः रामाः भार्यास्ताभिराकुलैः, यद्वा सुतरामाणां कुलं येषां तानि तैः सुतसमूहरामा समूहयुक्तरित्यर्थः । पुनः सिंहकेसरसञ्छन्नाः सिंहकेसराः वृक्षविशेषास्तैः सञ्छन्ना पुनः बहुधान्यातिदुर्गमाः प्रचुरसस्यातिदुर्गमाः पुनरिक्षुद्राक्षापूगैः इक्षवः प्रसिद्धाः द्राक्षा गोस्तन्यः पूगाः क्रमुकद्रुमाः तैरलङ्कृताः । कस्मात् ? रम्यभावोदात् रमणीयताभ्युदयात् पुनः नागवल्लीभिः ताम्बूलीभिः ग्रथिताः । कथम्भूताभिः ! इतस्ततः स्फुरन्तीमिः पुनः सेव्या आश्रयणीयाः पुनः नरहिताः मनुष्य हिताः पुनः सानुभोगाः विस्तीर्णाः पुनरष्टापदोपेतसञ्चाराः सुवर्णान्वितनिर्गमप्रदेशाः । इति कुलकम् ।। ५२-५४ ॥ बहुधातुगणाकीर्णान्सुमहायागुणादिमान् । शब्दागम इवाद्देशान्देवलोकी न मुञ्चति ॥५५॥ बह्निति - देवलोकः सुरसमूहः इमान् उद्देशान् न मुञ्चति न परित्यजति । ऊर्ध्वं गताः देशा उद्देशा उच्च प्रदेशाः पर्वतादयो वा तान् । कथम्भूतान् ? बहुधातुगणाकीर्णान् प्रचुरगैरिकादिसमूहसंकुलान् । कथभूतो देवलोकः १ सुमहाः शोभनतेजाः । वागुणात् ऊ ईश्वरः आ ब्रह्मा अः नारायणः उश्व अश्व अश्च वाः वानां गुणः वागुणस्तस्मात् हरहिरण्यगर्भहरीणां प्रतापगुणात् शरीरका न्तिगुणाच अधिक प्रतापः अधिकशरीर और भी देखिये, इस दण्डक वनमें ये पर्वतोंके ढाल कितने शोभापूर्ण हैं, स्वयं ही इकट्ठे हुए हाथियों के झुण्डोसे भरे हैं, सिंहोंकी अयालके बालोंसे ढके हैं, बहुधा दूसरे हिंस्र पशु भी यहाँ से निकलते डरते हैं, सब दिशाओं में खड़े अंगूर सुपारी आदिके वृक्षों तथा इधरउधर लहलहाती पानकी वेलोंसे गुथे होनेके कारण; सुन्दर भावोंके प्रेरक रमणीय शिखरोंसे भूषित, विस्तृत होकर भी वृक्षोंसे पूर्ण तथा भाँति भाँतिके शरभ आदि मृग इसमें कूदते फिरते हैं ॥ ५२-५४ ॥ अन्वय-अस्मिन् च चामीकरिकुलैर्युता, सुत- रामाकुलैः, सिंहकेशर सञ्छन्नो, बहुधास्या अति दुर्गमा, रम्यभावोदयात् इक्षुद्राक्षा पूगैरलंकृताः, इतस्ततः स्फुरन्तीभिः नागवल्लीभिर्मथिता, नरहिताः, सानुभोगाः, ब्रुमाकुलाः, अष्टापदोपेतसन्चाराः सेव्याः ग्रामा अपि श्रियं दधति । इस देश में पत्नी पुत्र तथा कुटुम्बियों युक्त धनवान् लोगोंके समूहोंसे व्याप्त, सिंहकेशर वृक्षोंसे पटे, धान्यके खेतोंमें दबी पगडण्डियों युक्त, सौन्दर्य लक्ष्मीकी कृपाके कारण ईख, दाख तथा सुपारी आदिसे परिपूर्ण, इधर-उधर घूमते हुए दाथियोंकी पंक्तियोंसे गुँथे, मनुष्यों के कल्याणकारी, अनुकूल भोग समन्धित, दोनों ओर वृक्षोंसे युक्त तथा स्वर्ण निर्मित सदृश मार्गों से पूर्ण ग्रामोंकी भी शोभा अवर्णनीय है । १. प्रवेश: - प०, ६० | २. श्लेषः - ब०, ना० ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy