________________
१२७
सप्तमः सर्गः उद्योतितदिशः पक्का लोकस्याजीवहेतवः ।
दिव्यौषधो विभान्स्येताः परार्थाः सक्रिया इव ॥४४॥ उद्योतितेति–एसा दिव्योषध्यः शतुवादयोग्यानि भेषजानि विभान्ति । कथाभूताः ? उयोतितदिशः प्रकाशिताशाः । पुनः पक्काः प्रातपाकाः पुनः आजीवहेतवः जीवम् आ इति आजीवम् आजीचं हेतब आजीवहेतवः जीवनात कारणानि । कः : लोकस, मादयते-का इव ? सलिया इव सदाचरणानी. येत्यर्थः । कथम्भूताः १ परार्थाः परेभ्योऽर्थः प्रयोजनं याभिस्ताः परार्थाः।
भारतीयः-हे दिव्य युधिष्ठिरः एता ओषध्यः पाचनालादिधान्यानि विभान्ति । कथम्भूताः ? लोकत्याजीवहेतवः जीवनोपायाः ॥ ४४ ॥
भूर्जायते प्रदेशेऽस्मिन्सालतालीसमाकुले ।
अभिख्यातियुता नित्यं शप्पच्छायोदकान्विता ॥४५॥ भूरिति-झाष्पच्छाया शप्पैः बालतृणैरुपल्लक्षिता आया अभिख्याति शोभतेतराम् । छ ? अस्मिन्प्रदेशे । कथम्भूते ? भूर्जायते भूजरायते महति पुनः शालतालीसमाकुले सालैतालीमिश्र समाकुले । कथम्भूता शपच्छाया ? उदकान्विता जलयुता पुनः युता मिश्रा ।
___ भारतीयः- अमिख्यातियुता शोभासंयुक्ता भूर्भूमिः जायते । कथम् ? नित्यमनवरतम् । कथम्भूता सती ? शपच्छाघोदकान्दिता बालकृणच्छायासमवेता । क ? अस्मिन् लोचनगोचरे प्रदेशे। कथम्भूते ? लतालीसमाकुले वल्लीश्रेणिसङ्कीर्णे ! कीदृशी भूः ? सा लोकप्रसिद्धा ॥ ४५ ॥
श्रीमत्तरलतोपेताः सरलाः सङ्गता इतः । प्रियवल्ल'वलीलाल्या व्रजकान्ताश्वकासति ॥ ४६॥ वैशाखोन्मन्थनोत्कम्पाइलन्मूर्धप्रसूनकाः । सुग्लानिजघनाभोगा न्यग्रोधपरिमण्डलाः ॥४७॥ उद्धृतापाण्डुरश्यामविटपायतबाहवः।
संक्षिप्तबन्धुरस्कन्धाः प्रवालबहुलश्रियः ॥४८॥ श्रीमदिति-बुलकेन व्याख्यास्यामः । हे प्रियवन् प्रियमस्यास्तीति प्रियवान् तस्य सम्बोधनम् । हे कल्याणवन् हे रावण ! ब्रज गच्छ । कया लवलीलाल्या लबलीनां चन्दनलतानामिला मही तस्या आलिः श्रेणी तया । क ? इतोऽस्मिन् प्रदेशे। यस्मात् हे श्रीमत्तर चकासति शोमन्ते । के ? सरलाः देवदारवः ।
समस्त दिशाओं में प्रकाश फैलाती हुई परिपक्व तथा संसारके दीर्घजीवन में साधक ये अलोकिक औषधिया वैसी ही चमक रही है जैसी कि परोपकारके लिए की गयी सक्रियाए शोभित होती हैं। [हे दिव्य पाण्डराज ! संसारकी आजीविकाके निमित्त ये धान्यादि वैसे सुन्दर लगते हैं जैसी.......... ] । ४४।
साल तथा ताल वृक्षोंसे व्यात, भोज पत्रोंके समान विस्तृत और समतल इस क्षेत्र में दूधकी छाया और जलसे पूर्ण शीतल भूमि अत्यन्त सुन्दर लगती है। [लताओंकी श्रेणियोंसे व्याप्त इस क्षेत्रको भूमि सदैव दूब, छाया तथा पानीसे युक्त रहने के कारण अत्यन्त मनोरम हो जाती है। ४५।
हे कल्याणभाजन रावण ! चन्दनकी लताओंसे ढकी धीथियों से जाओ। अधिकतर शोभा युक्त लताओंसे घिरे, अत्यन्त घने मानो एक स्थानपर आ मिले सदृश सुन्दर अथवा पानीबहुल देवदारुके वृक्ष यहाँ बड़े मनमोहक लगते हैं। (४६) इनकी शाखाओंके परस्परमें
1. यमकइलेपयन्धेषु सबिन्दुकाबिन्दुकथोरभेदाद् गुणानामभेदकत्वान्न दोषः ।