SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२६ द्विसन्धानमहाकाव्यम् स्मरात वारुणीभूतपरिप्लवविलोचनाः । सिश्चन्त इव सुधया गायन्तः काकलीकलम् ॥ ४० ॥ चलत्परिमलासक्तलीलालोलालिसंवृताः । तमालबहुलारण्यमभिविष्टा इव स्फुटम् ॥४१॥ इह किंपुरुषाः पश्य पुष्पाणामुचिकीषया । उद्यानेन परिश्रान्ताः सङ्क्रीडन्ते प्रियासखाः ॥४२॥ स्मरार्त्ता इति - कुलकेन व्याख्यास्यामः । हे रावण ! पश्य निरीक्षस्व । इह दण्डकवने किम्पुरुषाः किन्नराः पुष्पाणामुच्चिकीषया उच्चेतुमिच्छया सङ्क्रीडन्ते विहरन्ति । कथम्भूताः ? उद्यानेनोदुर्ध्वगमनेन परिश्रान्ताः खिन्नाः । पुनः प्रियासखाः प्रियाः सखायो येषां ते वनितासहायाः पुनः स्मरातीः कन्दर्पकदर्थिताः पुनः वारुणी भूतपरिजन विलोचना वारणीभूतः परिप्लवो ययोस्ताहशे दिलोचने येषां ते मंदिरासमुत्पन्नाभिभवदृष्टय इत्यर्थः । किं कुर्वन्तः ? काकलीकलं मधुरस्वरमनोहरं यथा तथा गायन्तः । पुनः सुधयाऽमृतेन सिञ्चन्व इव प्लावयन्त इव पुनदचपरिमल्लासक्त लीला लेल दिसंवृताः परिमलेप्बासक्ताः परिमलासक्ताः चलन्तश्च ते परिमलासक्ताश्च चलत्परिमलासक्ताः लीलायां लोला लपटा येऽल्या मधुपास्ते लीलोयटयरचलत्परि मासताच ते लीलालोालयश्च तैः संवृताः भ्रमदामोदरतक्रीडाचञ्चलभ्रमरपरिवेष्ठिताः । किं विशिष्टा वक्षाः १ तमालबहुलारण्यं स्फुटं निश्चयेन अभिविष्टाः प्रविष्टा इव | भारतीय:- हे युधिष्ठिर ! पश्य । उद्याने उपवने पुरुषाः किं न सङ्क्रीडन्तेः अपि तु सङ्क्रीडन्त एव । कथम्भूताः ! अरुणीभूतपरिप्लवविलोचनाः स्मरार्त्ता वा मकरध्वजपीडिता इव । शेषं समम् ||४०-४२॥ देवाङ्गनापदन्यास गुजदलय शिक्षनाः । एते लतागृहा भान्ति कामकाराल्या इव ॥ ४३ ॥ देवेति- एते लतागृहाः वल्लीमन्दिराणि भान्ति शोभन्ते । कथम्भूताः १ देवाङ्गना पदन्यासगुञ्जद्वलयशिजनाः देवाङ्गनानां पदन्यासेन गुञ्जन्ति रणन्ति वल्ल्यशिञ्जनानि कङ्कणनूपुराणि येषु ते । उत्प्रेक्षन्तेकामकाराला इव कन्दर्पबन्दीगृहा इव । भारतीयः - हे देव भान्ति, के ? एते लतागृहाः । कथम्भूताः १ अङ्गनापदन्यासगुञ्जद्वल्यशिञ्जनाः १ शेषं तुल्यम् ॥ ४३ ॥ I काम-वासना से व्याकुल, मदिरासे उत्पन्न मादकता के कारण चंचलनेत्र, मधुर सूक्ष्म स्वरमें गाते हुए मानो अमृतकी वृष्टि करतेसे (४०) उड़ती सुगन्धिपर मोहित तथा क्रीडाके कारण चंचल भोरों से घिरे, मानो अधिकतम तमाल वृक्षोंके जंगलमें प्रवेश कर जाने पर भी दृश्य (४१) आकाशमें उड़नेके कारण थके तथा प्रियतमाओंके साथ निकले किन्नर जातिके देव यहाँ फूल चुनने की क्रीड़ा कर रहे हैं । हे रावण ! देखो (४२ ) [ कामदेव के द्वारा दी गयी वेदना लाल-लाल व्याकुल विरहके आसुओं से पूर्ण नेत्रोंसे सींचते हुए समान, प्रेमगीतको सूक्ष्मवर से गुनगुनाते हुए (४०) परिचर्या के लिए दौड़ती हुई, सुगन्ध जलादि लानेमें लीन, विभ्रम और सहज वाञ्चल्यघती सखियों से घिरे हुए, शीतोपचार के लिए लगाये तमाल पत्रोंके अरण्यमें ही छिपे हुए से ( ४१ ) अत्यन्त दुर्बल तथा बान्धवको प्यारे ये मतिमान पुरुष इस उद्यानमें हे युधिष्ठिर ! देखिये क्यों नहीं क्रीड़ा कर रहे हैं ? अर्थात् विरह व्याकुल हो कर पड़े हैं ] ।४२। सुर-सुन्दरियोंके लीलापूर्वक पैर रखने से पैजनियोंसे निकली झुनझुन ध्वनियुक्त ये लताकुsa कामदेव के कारावासोंके समान प्रतीत होते हैं [ हे देव ! युधिष्टिर ! सुन्दरियों" • ] ४३ । १. श्लेषः - ब०, ना० ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy