SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १२० दिसन्धानमहाकाव्यम् तस्मिन्कालेऽनुजोपायात् प्रस्थितं प्रतिकेशवम् । विश्वविश्वम्भरानाथमित्थमूचेऽग्रजं वचः ॥ २० ॥ तस्मिन्निति-तस्मिन्कालेऽवसरे अनुजा शूर्पणखाख्या भगिनी अग्र ज्येष्ठभ्रातरं रावणं वचः वचनमूचे उक्तवती । कथम् ? इत्थं वक्ष्यमाणप्रकारेण ! कथम्भूतम् ? विश्वविश्वम्भरानाथं समस्तमेदिनीपतिम् ? पुनः कथम्भूतम् ? केशवं लक्ष्मणं प्रति प्रत्थितं प्रचरितम् । कस्मात् १ उपायात् साभादिप्रयोगात् । भारतीयः - अनुजः भीमः अप्रजं युधिष्ठिरं प्रति वचो वचनम् ऊंचे । कथम् ? इत्यम् वक्ष्यमाणापेशवा | कस्मिन् काले १. तस्मिन् काले पर !? अग्रजम् ? अपायात् यूतक्रीडावशात् पृथिव्यादेरणात् विश्वविश्वम्भरानाथम्, सममवसुन्धराधिपतिं केशवं नारायणं प्रति प्रस्थितं प्रचलितम् ॥२०॥ प्रतिकर्त्ती परीभावं जरासन्धाभियोगजम् । उद्यमोजातशत्रोस्ते समावहति मे रुचिम् ॥ २१ ॥ प्रतीति- समावहति समाधत्ते । कः १ उद्यमः । काम् ? रुचिम् । कस्याः १ मे मम | कस्योद्यमः ? ते तव | कथम्भूतस्य ? जातशत्रोः समुत्सन्नरियोः किं कर्तुमुद्यमः ? परीभात्रमवशां प्रतिकर्त्ती प्रतीकारं नेतुम् । कथम्भूतम् ? जरासन्धाभियोगचं 'रसासग्मांसमेदोऽस्थिमज्जाशुकाणि सप्तधातवः' काल्परिणत्या एते रसादयो जीर्यन्ते तनूभवन्ति यस्यां सा जरा निर्बलत्वम्, जरायाः सन्धा यस्य स जरासन्धः जरासन्धश्चासावभियोगश्च जरासन्धाभियोगः तस्माज्जातं तं तथोक्त वार्द्धकपरिणति सम्बन्धोत्पल मसामर्थ्य सम्भूतमित्यर्थः । भारतीय:- समावहति । कः उद्यमः । काम् ? रुचिम् । कस्य ? मे मम । कस्योमः १ ते तव । किमाख्यत्य ते १ अजातशत्रोः युधिष्ठिरस्य । किं कर्तुमुद्यमः ? परीभाचं प्रतिकर्त्तुम् ! कथम्भूत परीभावम् ? जरासन्धाभियोगजन् । जरासन्धाभियोगो जरासन्धगृह्यो दुर्योश्वनः तस्माज्जातम् ॥२१॥ दुःखमोचनमिष्टस्य क्रियते हेतिधारिणा । वीरेण भीरुणा शूर शाखोद्धारेण बाहुना ||२२|| दुःखेति - हे शूर क्रियते विधीयते । किम् ? दुःखमोचनम् । केन कर्ता ! वीरेण । कस्य ? इष्टस्य मित्रस्य । कथम्भूतेन १ हेतिधारिणा शस्त्रधारिणा । केन कृत्वा ? बाहुना भुजेन । कथम्भूतेन बाहुना ? शाखोद्धारेण शाखानामुद्धारो यस्य तेन । अथवा भीरुणा हेतिधारिणा हा इति शब्द धरतीति तेन कष्टमिति शब्दधारिणेत्यर्थः । शास्त्रोद्वारेण वाहुना इष्टस्य दुःखमोचनं किं क्रियते अपि तु नेत्यर्थः ॥ २२ ॥ ऐसे ही समय छोटी वद्दिन सूर्पणखाने समस्त विश्व और पृथ्वीके स्वामी, तथा सामादि उपायोंसे लक्ष्मणके विरुद्ध बढ़ते हुए बड़े भाई रावणसे निम्न बात कही थी [ शरदऋतु मानेपर अनुज भीमने घृतकीड़ाके कारण लोक तथा भूमिके स्वामित्वसे गिरे अत श्रीकृष्णजीकी और मंत्रणा के लिए उन्मुख बड़े भाई धर्मराजसे कहा था ] ॥२०॥ मेरे वाक्यकी मर्यादापर आक्रमण करनेसे हुए मेरे अपमानके प्रतीकारके लिए तुम्हें प्रयत्न करना चाहिए ऐसी मेरी इच्छा है क्योंकि तुम्हारे भी शत्रु खड़े होने लगे हैं। [ जरासन्ध राजाले मिलकर किये गये हम पाण्डवोंके अपमानका प्रतिशोध करनेके लिए अजातशत्रु युधिष्ठिर ! आपको प्रयत्न करना चाहिये ऐसी मेरी सम्मति है ] ॥२१॥ हे शूर रावण ! अपने वंशकी प्रतिष्ठाका विस्तारक वीर पुरुष बाहुसे शस्त्र ग्रहण करके अपने प्रिय लोगों के दुःखका विनाश करता है। हाँ, 'हा हा' शब्दले निन्दित, वंश परम्परा के उन्मूलक व्यर्थबाहु भीरुके द्वारा कुछ भी नहीं होता है ॥२२॥ १. इलेपः- ० ना० ॥
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy