________________
सप्तमः सर्गः
विश्वेन बारिणा तस्मिन् द्योतमाने महीयसि ।
कलुषत्वं परित्यक्त स्वच्छत्वमुपपादितम् ॥१७॥ विश्वेनेति-विश्वेन समस्तेन अरिणा' आधा कप मरिन सिताम् । कर इति ? तस्मिन् रावणे द्योतमाने प्रतपति सति । कथम्भूते ? महीयसि गरिष्ठे। तथा अरिणा स्वच्छत्वं प्रसन्नत्वभुपपादित वा जनितञ्च | भारतीये-यारिणा जलेन तस्मिन् शरत्काले । शेष तुल्यम् ॥१७॥
वप्राणां रम्यतालक्ष्मीः सोत्पलाशालिसम्पदाम् ।
तेन पक्व फलापाण्डुरानिन्ये लङ्घनक्रियाम् ॥१८॥ वप्राणामिति-आनिन्ये सामस्त्येन नीता ! का ? रम्बतालक्ष्मीः। कामानिन्ये ! सावनक्रियामाकन्दनक्रियाम् | केन का? तेन रावणेन | केपी रम्यतालक्ष्मी: ? वप्राणां भूधरनितम्बानाम् । कथम्भूतानाम् ? सोत्पलाशालिसम्पदा सोचबहावृक्षभ्रमरविभूतीनाम् , अथवा उच्चपल्लाशानामालिरपलाशालिः सैव सम्पत् येषां ते तथोक्तास्तेषाम् । कथम्भूता रम्यतालक्ष्मीः ? पक्वफलापाण्डुः आ ईपत्पाण्हुः आपाण्डः पक्वफलैरापाण्डुः पक्वफलापाण्डुः इति सम्बन्धः ।
अथ भारतीयः-आनिन्ये । का? रम्यतालक्ष्मीः। काम् १ लञ्चन क्रियाम् । केन ? तेन शरत्कालेन । केषाम् ! रम्बतालक्ष्मीः। वप्राणान् । कथम्भूतानाम् ? शालिसम्पदा झाल्य एव सम्पयेषां तेषाम् । कथम्भूता ? सोत्यला सकमला । पुनः पक्वफल | पुनः पाण्डुरिति । अत्र दलोके आनिन्ये इति क्रियायाः मुख्यामुख्यभेदेन कर्मद्वितयं बोद्धव्यम् ॥१८॥
किंशुकाकुलभूमीनां नगानां फलसम्पदः ।
नामिताः परिपक्वाणां कृता रभसयामुना ॥१९॥ ____किंशुकेति-कृताः विहिताः। काः कर्मतापन्नाः १ फलसम्पदः । कथम्भूताः कृताः १ नामिता नभ्राः । केन ? अमुना रावणेन । कया । रभसया औत्सुक्येन विमानवेगेनेत्यर्थः । केषां फलसम्पदः ? नगानो तरूणाम् ? कथम्भूतानाम् १ किंशुकाकुलभूमीनाम् किंशुकैः पलाशकुसुमैः आकुल भूमियेषाम् । पुनः परिपक्वायां पाकपर्यायं प्राप्तानाम् ।
भारतीयः-किं न कृता अपि तु कृता एव 1 काः १ फलसम्पदः । कथम्भूताः ? अमिताः प्रचुराः ! केन ? अमुना शरत्कालेन का । केषां सम्पदः ? नगानां शालीनाम् । कथम्भूतानाम् ? शुकाकुलभूमीनां कौरव्याप्तमेदिनीनाम् ? पुनः परिपक्वानाम् ॥१९॥
अत्यन्त प्रतापी रावणका प्रभाव फैलनेपर नूतन शत्रुसमूह ने (नव-अरिणा) अखिल विश्व में सदाचारको छोड़ दिया था तथा कपट कूटका आश्रय लिया था । [ अत्यन्त कान्तिमान् शरद् ऋतुके आनेपर समस्त जलराशिने मलिनता छोड़कर निर्मलता धारण की थी] ॥१७॥
विकसित उच्च पलाशीपर गूंजते भौरोंसे सुशोभित पर्वतोंके प्रान्तोंकी सौन्दर्य पूर्ण कान्तिको रावणने पके फलोंके समान श्वेत (आभाहीन) करके लंघन करती हुई-सी कर दी थी। [धान्यरूपी सम्पत्तिसे पूर्ण स्खलियानोंकी शोभा तथा श्रीको पके फलों और विकसित कमलोंके द्वारा सर्वथा श्घेत-रक्त करके शरत्कालने उछलकूद ही मचा दी थी] ॥१८॥
किंशुक वृक्षोंसे व्याप्त, फलो तथा खनिज आदि सम्पत्तिसे परिपूर्ण पर्वतोंकी सार्थक सम्पप्तिको इस रावणने क्या वेगके साथ परिगणन नहीं किया था। [ पके फलोंसे लदे तोतासे घिरे वृक्षोंकी फलरूपी सम्पत्तिको क्या इस ऋतुने तुरन्त ही निस्सीम नहीं बना दिया था ? ] ॥१९॥
१. श्लेपः-१० ना
--
--