________________
११८
द्विसन्धानमहाकाव्यम् विशक्षीरचितां चञ्चुं व्याददद्भिः कथश्चन ।
सरःसु पक्षतिक्षेपैरटितं वाटराटकैः ॥१३॥ विशेति-वाटराटकैः हंससमूहै: पक्षतिक्षेपैः पक्षमूलविधूननैः अटितं गतम् | कथम्भूतैः ? चञ्चुं वोटिं कथश्चन महता कष्टेन व्याददद्भिः प्रसारयद्भिः । क ? सरःसु सरोवरेषु । कथाभूतां चञ्चम् १ विशक्षीरचितां पद्मिनीकन्ददुग्धोपचयप्राताम् ।
भारतपशे-रटितं शब्दितम् । क वाटरारकैः । शेष प्राग्वत् । एकत्र प्रतापकथनगन्यत्र शरत्स्वभावकथनम् ||१३||
कञ्जकिझल्कगन्धान्धैः केकारवविषादिभिः ।
नष्टं प्रापनिकैः क्वापि दुष्कलत्रकुलैरिव ॥१४॥ कोति-प्रापनिकैः मयूरैः क्वापि कस्मिन्नपि प्रदेशे नष्टं चक्षुर्विषयमतीत्य गतम् । कथम्भूतैः ? कचकिल्कगन्धान्पैः अरविन्दमकरन्दपरिमलगन्धैः । पुनः केकारवविषादिभिः केकारवे विषादो येषां तैः । करिव नष्टम् ? दुष्कलत्रकुलैरिव कुलटाजनैरिव अथवा दुष्ट कलनकुल येषां तैः पुरुः । उभयोः प्रतापस्वभावाख्यानम् ॥१४॥
दन्तान्तरसमासक्तपुष्करा दिक्षु दन्तिनः ।
धनवन्धननिर्मुक्ता जगर्जुदुर्जना इव ॥१५॥ दन्तान्तरेति-दिक्षु दन्तिनः जगर्जुः गर्जितवन्तः । कथम्भूताः १ दन्तान्तरसमासक्तपुष्कराः रदमध्यसम्बद्धशुण्डाग्राः । पुनः धनवन्धननिर्मुक्ताः निविडबन्धननिर्मुक्ताः। क इव ? दुर्जना इव । अत्रेदं तात्पर्यम्-रावणप्रतापज्वलनज्वालावलीभिरालीदा दिग्गजाः स्वकीयामाशां विहायान्यत्र गर्जनाञ्चः ।
भारतीये-दन्तिनो हस्तिनः दिक्षु आशासु जगर्जुः । कथम्भूताः दन्तान्तरसमासक्तपुष्कराः दन्तमध्यालम्बितारचिन्दाः। घनबन्धननिर्मुक्ता मेघबन्धनवर्जिताः। क इव ? दुर्जना इव । अत्र शरत्कालस्वभावनिर्देशकथनं प्रदर्शितमिति भावः ॥ १५ ॥
निशम्याक्रान्तजगतः पाटवं तस्य दुःसहम् ।
आसीदास्वनितस्यापि शोभोऽरण्ये तपस्यताम् ॥१६॥ / निशम्येति-तपस्यतां तपः कुर्वतामपि मुनीनामास्वनितस्य मानसस्य क्षोभ आसीत् सञ्जातः । क्छ ? अरण्ये बने । किं कृत्वा ? पूर्व निशम्य आकर्ण्य । किम् ? पाटवं पटुत्वम् । कस्य ! तस्य रावणस्य । कथम्भूतस्य तस्य ? आनान्तजगतः आशिप्तलोकस्य । कथम्भूतम् ? पाटवं दुःसहं सोदुमशक्यम् ।
भारतपक्षे तस्य शरत्कालत्येति । शेषः प्राग्वत् ।। १६ ॥
नीर क्षीरका भेद करनेमें समर्थ चोंचको सिकोड़कर [उठाकर ] पंखोंको फड़फड़ाकर हंससमूह जल्दीखे तालाबों से उड़ गये थे [शब्द कर रहे थे] ॥१३॥
कमलोके परागकी सुगन्धिसे अन्धे अपनी ही ध्वनिको सुनकर दुखी मोर कहीं ऐसे छिप गये थे जैसे कुलटा स्त्रियोंके नीच कुलोत्पन्न पति नष्ट हो जाते हैं [ रावणके भय तथा शरद्-ऋतुके कारण मोर दनसे भाग गये थे] ॥१४॥
दिग्गज भयके कारण दांतोंके बीच में सूंड दवाकर प्रयल और घने वन्धनोंको तोड़कर दुर्जनोंके समान चिंघाड़ रहे थे।
दाँतोंमें फूल फँसाये, बादलोंके प्रतिबन्धसे परे हाथी सब ओर आनन्दसे चिंघाड़ रहे थे ॥ १५॥
विश्चके उत्पीड़क उस रावणके असह्य प्रतापकी चर्चा सुनकर वनमें तपस्वियोंके भी चित्त क्षुब्ध हो गये थे [ संसारमें व्याप्त शरद्की मोहकताको जानकर तपस्वियोंके चित्त भी चंचल हो जाते हैं ] ॥१६॥