SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः ११७ विहरन्ति स्म । तीव्र सोढुमशक्यं ज्योतिर्गणज्योतिः दिवि जशे । कथम्भूतायां दिवि ? अतिविद्युति विद्युतमतिक्रान्ता अतिविद्युत् तस्यामतिक्रान्ततडिल्लतायामित्यर्थः । अत्र शरदव्यावर्णनम् ।। ८ ॥ - विमुक्तं दूरमभ्रान्तैर्विमानैः ककुबन्तरम् । नभश्वरसमारूडैः कृतकानकसिञ्जितैः ॥९॥ विमुक्तमिति-विमानैः देवयानैः ककुवन्तरं दिगन्तरालं चिमुक्तं परित्यक्तम् । कथम् ? दूरं विप्रकृष्टम् । कथम्भूतैः ? अभ्रान्तैः निःसन्देहः अथवा भ्रमणरहितैः । पुनः नभश्वरसमारूढः नभश्चराः समारूढा येषु तैः । पुनः कृतकानकसिक्षितैः कृतानि विहितानि कानकानि सिञ्जितानि हेमधिकारक्षुद्रघण्टकशन्द्रा येषु तैः । अत्र रावणप्रतापक्षोभः । भारतीयः--अभ्रान्तैरभ्राणामन्तैः अभ्रान्तः मेघसमूहैः नभः गगनं ककुरन्तरं च दूरं विमुक्तम् । कथम्भूतैः १ विमानैः गतमानः संख्यातीतैः । पुनः रसं पानीयम् आरूढैः सजलैः । पुनः कृतकानकसिञ्जितैः कृतकमानकानामिव सिञ्जितं ( ध्वनितं ) वैः ॥ ९॥ छोत्कारच्छातजठरैस्तृणकौतुककङ्कणैः । बन्धूकतिलकन्यासैनीलोत्पलवतंसकैः ॥१०॥ महाकुचभराकृष्टसंक्षिप्तान्तर्भुजान्तरैः । क्षिपद्भिः केकरान् स्वस्मिन् नियन्तुमसहैरिव ॥११॥ सिञ्चद्भिरिव लावण्यरसवृष्ट्या दिगन्तरम् । कैदारिकगतैर्दारै चकितं विनिचाषितम् ॥१२॥ [ त्रिभिविशेषकम् ] __ छोकारैति-श्लोकत्रयेण रावणशरत्काल्योः प्रतापक्षोभौ निरूप्येते । भावे तान्तनियाद्वितयं बोद्धव्यम् । दारैः कलत्रैः विनिचायितमवलोकितं चकितञ्च विलोक्य भीतमित्यर्थः। कथम्भूतैः १ छोत्कारछातजटरैः (छोत्कारेण) शकुनिसन्तर्जनध्वनिना छातं तनूकृतं जठरमुदरं येषां तैः छोत्कारच्छातजठरैः । पुनः तृणकौतुककणैः तृणस्य कौतुकेन कंकणानि येषां तैः । पुनः बन्धूकतिलकन्यासैः बन्धूकानां तिलके न्यासो येषां पुनः नीलोयल्पतंसकैः नीलोत्पल्स्य वतंसः कर्णपूरी येषां तैत्रः । पुन: महाकुचभराकरसंक्षिप्तान्तर्भुजान्तरैः एकस्मात् भुजात् अपरो भुजो भुजान्तरं तस्य अन्तः अन्तर्भुजान्तरम् । महान्तौ च तो कुचौ च महाकुचौ तयोर्भरण पूर्वमाकृष्ट पश्चात् संक्षिप्तमन्त(जान्तरं येषां तैः । पुनः स्वस्मिन्नात्मनि केकरान् कटाक्षान् नियन्तुं नियन्त्रयितुमसईरसमथैरिव क्षिपद्भिः विसृजन्द्रिः । पुनलवण्यरसवृष्ट्या शरीरकान्तिविशेषनिर्यासवर्षेण दिगन्तरमाशान्तरालं सिञ्चद्भिरिव । पुनः केदारिकगतैः कैदारिक केदारसमूहे गताः प्राप्तास्तैः वप्रवजस्थितैः । अत्र रावणशरस्कालयोः स्वभावोक्तिः ॥१०-१२॥ रहित स्वच्छ आकाशमें तारा आदि ज्योतिषी देवोंकी चमक बढ़ी मालूम होती थी ॥ ८ ॥ सोनेकी घंटियोका झुनझुनसे युक्त, खेचरोंकी सवारीमें निकले तथा वस्तुस्थितिसे परिचित विमानोंने दिशाओंके मार्ग छोड़ दिये थे और दूर चले गये थे। पटहोंके समान गर्जनेवाले जलसे परिपूर्ण तथा अनगिनत मेघवण्डॉने आकाशको विल्कुल छोड़ दिया था ॥९॥ शुरू करनेके कारण कृशोदरियों, घासके मंगलसूत्र तथा कंकणधारिणी, वन्धूक पुप्पके तिलफसे विभूषित, नीलकमलके कर्ण-भूषणसे सुशोभित, उन्नत स्तनोंके भारसे झुकों, संक्षिप्त मुजान्तर्वर्ती केकर भूषण अथवा कटाक्षीको-अपने आपमें न सम्हाल सकनेके ही कारण डालती हुई, सौन्दर्य के रसकी वृष्टिके द्वारा समस्त दिशाओंको सींचती-सी खलि. यानों में बैठी स्त्रियोंने क्रमशः भय तथा उत्कण्ठाले चकित होते हुए रावण तथा शरद्को देखा था ॥१०-१२॥ - - ---
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy