SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ११६ द्विसन्धानमहाकाव्यम् भारतीयः नराणां गणः समुदायः किमुपारतः निवृत्तः अपितु नोपारतः । कथम्भूतो गणःउत्पलायतलोलाक्षः कमलदीर्धचपलनेत्रः । अन्यत् सुगमम् । श्लेषालंकारः ॥५॥ साधुन्यायऽयमत्युच्चंगतीद्धतगतिः स्थितः। इच्छु: प्रसादमेतस्य लोका प्रणतिमीयिवान् ॥६॥ साध्विति-अयं लोकः एतस्य रावणस्य प्रणति प्रणामम् ईयिवान् गतवान् | कथम्भूतः ! प्रसाद प्रसन्नतामिच्छुः वाञ्छन् । पुनः साधुन्याये साधूनां सत्पुरुषाणां न्यायः सुविहितो मार्गः अथवा साधुदचासौ न्यायः तस्मिन् स्थितः । पुनरत्युच्दैर्गतोद्धतगतिरत्युच्चैः अतिशयेन गता उद्धता उत्कटा गतिः प्रवर्त्तनं यस्य सः । भारतीयः-या उद्धता गतिः पूर्वमासीत् सा इयं धुन्याः नद्याः ( अत्युच्चैरतिशयेन ) गता तथा स्थिते मर्यादायुतो लोकः प्रणतिमीयिवान् । कथम्भूतः ? प्रसादं पुष्पफलादि सम्पत्तिमिच्छुः । कस्य ? एतस्य शरत्कालस्य । अत्र रामायणपक्षे भूमिक्षोभकथनं भारतीय पक्षे शरत्कालस्वभावकथनं प्रदर्शितम् ॥६॥ वीचिबाहुभिरालिङ्गश्चिरदृष्टामिवावनिम् । पारावारश्चचालोच्चैरपारः पूरयन्दिशः ॥७॥ वीचीति-अपार: पाराधारः समुद्रः उच्चैरतिदायेन आशाः दिशः पूरयन् सन् वीचिबाहुभिस्तरङ्गहस्तैश्विरदृष्टा मित्र बहुतरकालावलोकितामिव अवनि भुवम् आलिङ्गन् ( परिरम्भमाणः) सन् चचाल चकम्पे । अत्रेदं तात्पर्थ रामायणीयपश्चे रावणप्रतापाविर्भूतो भूक्षोभः, भारतीयपक्षे शरत्कालस्वभाव उक्तः ॥७॥ सहसा वल्लकी हस्ता विचेलुः सिद्धकोटयः । दिवि ज्योतिर्गणज्योतिस्तीन जज्ञेऽतिविधु ति ॥८॥ सहसेति सिद्धकोटयः सिद्धाः अञ्जनपादुकादिसिद्धाः पुरुषविशेषा देवयोनयः तेषां कोटयः सहसा शीघ्र विचेलुः पलायिताः । कथम्भूताः १ बलकीहस्ताः वीणापाणयः तथा जज्ञे जातम् । किम् ? ज्योतिर्गणज्योतिः नक्षत्रसमूहतेजः । कथम्भूतं जज्ञे ? अतिविद्युति विशिष्टां शुतिमतिकान्तमतिवियुति तेजोहीनमित्यर्थः । कथम्भूतं सत् ? दिवि गगने तीव्र सत् । अत्र रावणप्रतापात् क्षोभोक्तिः । अथ भारतीयः-सहसाः सहासाः ( हास्यसंयुक्ता इत्यर्थः) पुनः वल्लकीहस्ताः सिद्धकोटयः विचेलुः शरत्की स्वच्छ वायुसे पूर्ण वनमै कमलके समान विशाल आँखांघाला तथा कीड़ामें मस्त किंनरसमूह क्या काम-विवल स्त्रियोंके साथ खूब नहीं रमा था? ॥ ५ ॥ उद्धत आचरणको छोड़कर सब प्रकारले शिष्टाचार पालनमें लीन होकर यह लोक इस रायणकी कृपा पानेके लिए उसको प्रणाम करने लगा था। जो नदियाँ वर्षाऋतु अत्यन्त उद्धतरूपसे बहती थी वे ही अपरूपसे स्वाभाविक रूपमें आ गयी थी । लोक भी शरद्का अनुग्रह प्राप्त करनेकी इच्छासे उसकी आराधना करता था ॥६॥ चिरकालसे इच्छित पृथ्वीको अनन्त समुद्र के समान बाहुरूपी लहरोसे जकड़ता हुआ • तथा समस्त दिशाओंको भयाक्रान्त करता हुआ वह बढ़ा जा रहा था। यद्दुत समयसे बिछुड़ीके समान पृथ्वीको विस्तृत सागरको लहरोरूपी हाथोंसे आलिं. गन करता हुआ तथा दशोदिशाओको व्याप्त करता हुआ शरत्काल फैलता जा रहा था ॥ ७ ॥ सिद्धोंके समूह हाथों में घीणा दवाये एकाएक भाग खड़े हुए थे। सूर्य चन्द्रादिका आकाशमें प्रखरतासे चमकता प्रकाश सर्वधा तेजहीन हो गया था। सिद्ध मादि देव हाथमे लता या घीणा लिये क्रीड़ा विहार कर रहे थे। रिज़ली-बादल
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy