SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ११५ सप्तमः सर्गः मिति क्रियाविशेषणम्। किं कुर्वन्निव ? दीप्त्या धर्मेण लोकं जनमाकुलं व्याकुलं कुर्वनिव। कथम्भूतम् लोकम् । अरचिन्दिनमरविन्दानि सरोजानि सन्त्यस्मिन् तं पुनः विश्व सर्वम् ।।२।। पस्योदर्कसन्तापं भेदं कुवलयस्य च । सानाथ्यं बन्धुजीवानां कर्तुं कामः समागमत् ॥३॥ पद्मास्येति--पुनः दशास्यः किं कुर्वन् समागमत् ! पद्मस्य रामस्य उदर्कसन्तापमुत्तरकालीनं दुःखं कत्त कामः विधातुमनाः । चुनः कुचल्यस्य भूमण्डलस्य भेदं विनाशं बन्धुजीवानां खरदूषणत्रिशिरसा सोदरप्राणिनां सानाथ्यं सप्रभुत्वं कर्तुं कामः । भारतीयः-शरत्कालः किं कुर्वन् समागमत् १ पद्मस्य सरोजस्य अत्र जात्यपेक्ष्यैकवचनम् उदर्कसन्तापमुद्तसूर्यसन्तापं कुवलयस्य कुमुदस्य भेदं विकाशम् । अत्र जात्यपेक्षवैकवचनम् । बन्धुजीवानां माध्याह्निकपुष्पाणां सानायं सस्वामित्वं च कत्तु कामः ||३|| तथा तं वीक्ष्य वियति व्यभ्रे चेलुः सुरासुराः । स्थित्यतिक्रमभीतेन शस्त्रमिन्द्रेण संहृतम् ॥४॥ तथेति-सुरासुराः ( देवदानवाः ) व्यभ्रे निर्मधे वियति नभसि तं दशास्यं वीक्ष्य ( अवलोक्य ) चेलुः प्रकम्पिताः तथा स्थित्यतिक्रमभीतेन स्थान (प्रभुता) परित्यागभीतेन इन्द्रेण (शक्रेण) शस्त्रं संहृतम् परिहृतम् | भारतीयः-सुरासुराः व्यने निरभ्रे वियति सति तं शरत्कालं वीक्ष्य चेलु: विकृतवन्तः । इन्द्रेण मेघेन शस्त्रं धनुः संहृतम् । 'गिरौ वर्पति वासव' इति वचनात् । कथम्भूतेन १ स्थित्यतिकमभीतेन अवस्थानोल्लङ्घनभीरणा । अत्र रामायणीयकथापेक्षया सुरासुरशक्रादीनां रावणप्रतापजनितभयं भारतकथापेक्षया सोत्सवत्वं प्रदर्शितमिति भावः । श्लेषालेकारः ||४|| उत्पलायत लोलाक्षः कामुकीभिरुपारतः । किन्नराणां गणः क्रीडन् प्रसन्नपवने वने ॥५॥ उत्पलेति-प्रसन्नपवने प्रसन्नों गुणत्रयसमन्वितः पवनो वायुर्यत्र तस्मिन्वने कान्तारे क्रीडन् क्रीडां कुर्वन् किन्नराणामश्वमुखानां गणः समुदायः कामुकीभिः कामिनीभिः सहोत्पलायत ऊर्ध्वमुड्डीनः । कथम्भूतः ! लोटाक्षः चकितलोचनः । पुनरुपारत उपद्रुतः । हुआ तथा अपनी धूपके द्वारा प्रफुल्लित कमलोंसे पूर्ण संसार तथा प्राणियोंको कष्ट देता हुमा [शरत्काल ॥२॥ पद्म श्रीरामको भविष्यमें कष्ट देनेकी इच्छासे, समस्त पृथ्वीको सन्तप्त करनेके लिए तथा खरदूषणादि सगे सम्बन्धिोंको समृद्ध दनाने के लिए ही रावण आ पहुँचा था। कमलों के लिए सूर्यकी तेज धूप देनेकी दृष्टिसे, कुवलयोंको विकसित करनेके लिए तथा दुपहरीके पुष्पोंको सनाथ करता हुआ शरत्काल आ गया था ॥ ३ ॥ मेघशून्य निर्मल आकाशमें उक्त प्रफारसे आते रावणको देखकर सुर तथा अमुर घबरा गये थे । तथा लोक-मर्यादाओंके टूटनेके डरसे इन्द्रते भी अपने शस्त्र बन्द कर लिये थे। पूर्वोक्त रूपसे समागत शरदको देखकर देवों तथा दैत्योंके समूह निर्मल आकाश में क्रीसाके लिए निकल पड़े थे । विहारकी मस्ती कहाँ चे सीमाका उल्लंघन न कर जाय इसी दृष्टिसे इन्द्रने अपना धनुप संकोच लिया था ॥ ४॥ निर्मल वायुयुक्त वनमें क्रीड़ा करता हुआ किन्नर देवीका समूह कामिनी नायिकाओं के द्वारा बताये जानेपर भयसे चंचल नेत्र हो गया था और यह ऊपर उड़ गया था।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy