________________
विसम्धानमहाकाव्यम् तत इति-ततः संसारस्थितिविचारणानन्तरं तौ नरेन्द्रौ रामायणीयभारतीयकथासम्बन्धिनौ युद्धभुखात् रणाङ्गणात् विक्रमेण पौरुषेण निर्जग्मतुः निर्गतवन्तौ । किं कुर्वाणौ ? पञ्चकं रां स्फुटं व्यक्तमीक्षमाणावलोकमानौ । काविव ? सिंहपोताचिव पञ्चाननपिल्लकाविव |. काविव ? मूर्तिमन्तौ सशरीरौ मोधाभिमानाविध ! उत्प्रेक्षा ||४||
भयाद्यदेवोद्वतमङ्गनानां देवासुराणां प्रधनोत्सुकानाम् ।
तदेव हर्षस्थ तयोर्जयेन रोमाश्चमस्याप्युपकारि जातम् ॥४८॥ भयादिति-प्रधनोत्सुकानां रणदर्शनोत्कण्ठितानां देवासुरामाम् अङ्गनानाम् कामिनीनां भयाद्रीतेः यद्रोमाञ्चमुद्गतं जातं तदेव रोमाञ्चं देवासुराणा हर्षस्यापि आनन्दस्य चोपकारि उपकृत् जातम् । केन कृत्वा । तयोर्न रेन्द्रयोजयेनेति ॥४८॥
'आशा मुक्ता बन्धनेनेव सर्वा दीर्घ तत्रोदवसीदेव भूमिः ।
युद्धे वृत्ते विश्रमं विश्वमागानो विश्रान्तः कन्दरे सिंहनादः ॥४९॥ आशा इति-आशा दिशः बन्धनेनेव मुक्ताः उत्कलिताः । कथम्भूता दिशः ? सर्वाः समस्ता तथा भूमिः पृथ्वी दीर्घमुदश्वसीदेवोच्छचसितवत्येव । विश्वं जगत् विश्रममागात् आगतम् । असति ? तत्र युद्धे. रणे वृत्ते पर्याप्ते सति । तथा तयोर्नरेन्द्रयोः सिंहनादः कन्दरे गुहायां नो व विश्रान्तः ॥ ४९ ।।
'वियति सिद्धगणोऽप्युपवीणयजलधरान्तरदर्शितविग्रहः ।
त्रिभुवनं भ्रमति स्म यस्तयोः किम मुहुमुहुर्ने च वैरिणः ॥५०॥ थियतीति-सिद्गणः अपि वियति गगने तयोर्यशः कीर्तिमुपवीणयन् बीगयोपगायन् सन् त्रिभुवनं त्रैलोक्यं भ्रमति स्म बभ्राम | कथम् ? मुहुवारंवारम् । कथम्भूतः ? अलपरान्तरदर्शितचित्रहः पयोदमध्यप्रकटित शरीरः। उ अहो, वैरिणः किं न मुमुहुः न विचेतस्का बभूवुः, अपि तु मुमुहुरेव । चकारेण नियमार्थों गम्यते । तेनायमर्थ:-वैरिण एव नान्ये जनाः मुमुहुरित्यर्थः ।। ५० ||
प्रतिनिनदमयासीद्देवतू दिगन्तश्चलदलिकुलनीला पुष्पवृष्टिः पपात !
स्तुतिमकृत सरस्वत्यम्बरेऽदृश्यरूपा कुसुमसुरभिरुच्चैरुद्ववौ मातरिश्वा ॥५१॥ इसके बाद वे दोनों राम तथा भीम राजा सब ओर शत्रु शुन्य युद्धस्थलीको देखते हुए यहाँसे लौटे थे। अपने सर्वोपरि पराक्रमके कारण वे सिंह के बच्चोंके समान लगते थे । अथवा शरीरधारी क्रोध और अभिमान सदृश दिखते थे ॥७॥
युद्ध देखनेके लिए सदैव उत्कण्ठित देवों और दैत्योंकी नियोको भयके कारण जो रोमांच हुआ था, वही इनकी विजयसे उत्पन्न हर्षके रोमांचको करने में साधक हो गया था ॥४८॥
इस युजुकी समाप्ति हो जानेपर समस्त दिशाएं बन्धनमुक्तके समान हो गयी थी, पृथ्वीने मुक्तिकी लम्बी सांस-सी खींची थी तथा समस्त जगत्ने मानो विनामको ही प्राप्त किया था। किन्तु इनका सिंहनाद गुफाओंमें अब भी गूंज रहा था ॥४९॥ ।
जलधरोंके बीच-बीच में अपने शरीरको चमकाते हुए सिद्ध जातिके देव आकाशमें भी यीणापर इन राजाओंकी कीर्ति गाते हुए तीनों लोकोंमें घूम रहे थे । क्या अब भी शत्रु लोग इसे सुनकर निर्जीव नहीं हुए थे ॥५०॥
1. शालिनी वृत्तम् । तल्लक्षणं "शालिन्युक्ता म्तौ तगौ गोऽधिलोकैः" [ ऋ. र. ३३५] २. द्रुतविलम्बितच्छन्दः । लक्षणमुक्तं प्राक । ३. मालिनी वृत्तम् । सल्लक्षणञ्च "मनमयययुतेयं मालिनी भोगिलौकै व. स. ३१८५]