SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः १११ मनोरथाः मनोऽभिलापाः पतिताः गताः तथा ते लोकप्रसिद्धाः नराः शत्रवः समानरागताः सह मानेन वर्त्तमानः समानः समानो रागो येषां ते समानरागाः तेषां भावाः समानरागतास्ताः ससत्कारानुरागभावान् न यता इत्यर्थः । समुच्चयः ||४३|| 1 तथा द्विपेन्द्रास्तुरगाः पदातयो महान्वया भूपतयः क्षणेन तत् गतं समस्तं समवर्त्तिनो मुखं च्युतं न वोद्यं स्थितमेव विस्मितम् ||४४ ॥ तथेति - द्विपेन्द्रा भतङ्गतान्तथा तुरङ्गा अश्वास्तथा पदातयः भृत्यास्तथा महान्वया गजसाधनाः अश्वसाधनास्तथा भूपतयश्चावनीश्वराः तत् समस्तं रावल द्विपेन्द्रादि कर्तृ समवर्तिनः यमस्य मुखं वदनं क्षणेन मुहूर्त्तेन गतम् । अधुना सोपस्करतया व्याक्रियते तन्न च्युतं द्विपेन्द्रादि कस्मात्समवर्त्तिनो मुखात् । तत्र न बोधे नाश्वर्यम् । अत्र काकाक्षिगोलकन्यायेनोभयपदपरामर्शित्वं न ज्ञातव्यम् यत् स्थितं द्विपेन्द्रादि तद्रिस्मितमेवेति ||४४|| तथाहि भोगाः स्तनयित्नुसन्निभाः गजाननाधूननचञ्चलाः श्रियः । निनादिनाडिन्धमकण्ठनाडिवच्चलाचलं न स्थिरमायुरङ्गिनाम् ॥४५॥ तथाहीति - अत्र सन्तीति क्रियाऽध्यादार्या । तथा भोगाः कमनीयकामिन्यादयः स्तनयित्नुसन्निभाः मेघसदृशाः सन्ति । अत्र भोगानां क्षणदृष्टत्वं प्रदर्शितम् तथा थियो विभूतयः गजाननाधूननचञ्चलाः हस्तिवदनप्रकम्पचञ्चयः । कथम् ? हि स्फुटम् । तथा नास्ति किम् ? चलाचलं वस्तु । कथम्भूतं नास्ति १ स्थिरं निश्चलम् | किंवत् ? निनादिनाडिन्धमकण्टनाडिवत् ध्वनिमद्विहङ्गमगलधमनीवत् । तथा नास्ति । किम् ? आयुः प्राणधारणलक्षणं धर्मम् । कथम्भूतं नारित ! स्थिरम् । केषाम् ? अजिनां प्राणिनामिति ॥ ४५ ॥ अशेषमाकीर्णमुपैति शून्यतां क्षणाद्वियुङ्क्त समवेतमुच्चकैः । यदेव रक्त' भजते विरक्ततामहोऽनुभावाः क्षणिकाः स्वभावतः ||४६ || अशेषमिति-अशेषं सर्वमाकीर्णे प्रसृतं वस्तु शून्यतां लोचनगोचरातीततामुपैति प्राप्नोति । कथम् ? क्षणात् क्षणेन । तथा समवेत सम्बद्ध वस्तु वियुक्ते विघटते । उच्चकैरतिशयेन यदेव रक्तं सानुरागं तदेव चिरतां भजते व्रजति । अतएव सर्वे अनुभावाः अनुज्ञाताः पदार्थाः स्वभावतः परमार्थवृत्त्या अहो क्षणिकाः स्युः ॥ ४६ ॥ ततः स्फुटं पञ्चकमीक्षमाणौ तौ सिंहपोताविव विक्रमेण । निर्जग्मतुर्युद्धमुखान्नरेन्द्रौ क्रोधाभिमानाविव मूर्तिमन्तौ ॥४७॥ मनोरथ भी नष्ट हो गये थे किन्तु विचारे शत्रु लोग सम्मान और प्रीति के साथ वापस न जा सके थे ॥ ४३ ॥ मदोन्मत्त श्रेष्ठ हाथी, वायुके समान वेगशाली घोड़े, पैदल सैनिक तथा उत्तम कुलमें उत्पन्न राजपुत्र थे सब क्षणभर में ही सबके समान रूपसे विनाशक यमराजके मुखमें समा गये थे। कोई नहीं बचा इसमें क्या कहना है आश्चर्य तो यही है कि कुछ बच गये थे ||४४ ॥ प्राणियों के प्रिय भोग गर्जते बादलोंके समान चंचल हैं, लक्ष्मी हाथी के हिलते हुए शिरके समान है तथा आयु भी मधुर गायकोंके गलेकी नलियों के समान चल तथा अचल हैं। कोई भी वस्तु स्थिर नहीं है ||४५|| जो पूर्णरूप से फैल जाता है वही शून्य हो जाता है, जो अत्यन्त अनुरक्त होता है उसीका क्षणभर में वियोग होता है तथा जो अत्यन्त मित्र होता है वही शत्रुताको धारण करता है । खेद की बात है कि समस्त पदार्थोंकी प्रकृति ही क्षणभंगुर है ॥ ४६ ॥
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy