SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः १०७ शोधगामित्यमित्यर्थः । क सति ? ज्यायसि ज्येष्ठे भ्रातरि संयुगे रणे वाणसंहति शरपरम्परां मुञ्चति विसृजति सति । तिष्ठिपिरे इति क्रियापतिसम्बन्धं सम्बन्धनीयेति । समुच्चयालङ्कारः ॥२९॥ गजेषु नष्टेष्वगजेष्वनायक रथेषु भग्नेषु मनोरथेषु च । न शून्यचित्तं युधि राजपुत्रकं पुरातनं चित्रमिवाशुभद् भृशम् ॥३०॥ गर्नेविति-युधि संग्रामे राजपुत्रकं नरेन्द्रसमूहः न अशुभत् , अपि तु शोभते स्म | ऋथम् ? भृशमत्यथम् । किमिवाशुभत् ? पुरातनं जीर्ण चित्रमिव । कथम्भूतम् ? शून्यचित्तं शून्यं चित्तं यस्य तत् । पुनरनायकमस्वामिकम् । के केंपु सत्सु ! अगजेषु गिरिसम्भूतेषु गजेषु नष्टेषु लोचनागोचरेषु सत्सु | पुनः रथेषु भग्नेषु शम्सधातेन चूर्णितेषु । तथा मनोरथेषु भग्नेषु भयवशेन विलयङ्गतेषु चेति । आक्षेपालङ्कारः ॥३०॥ प्रभावतो वाणचयस्य मोक्तरि प्रभावतोषे समरे स्थिते नृपाः । प्रभावतो हीनतया विवर्जिता प्रभावतो ही न तया रराजिरे ॥३१॥ ग्रभावत इति-ही कष्ट नृपा राजानः तया लोकप्रसिद्धया लक्षया चा हीनतया शिष्टजननिन्दितया कातरत्या या प्रभावतः प्रभावेण प्रतापेनेति विवर्जिताः प्रयुक्ताः सन्तः न राजिरे न शोभन्ते स्म । कथंभूतेन ? प्रकृष्टो भायो यस्मात् स प्रभावस्तेन प्रभावतः प्रभावन माहात्म्यं दातुं समर्थेनेत्यर्थः । अत्र "दृश्यतेऽन्यतोऽपि" [जै० ४।१।७२ ] इत्यनेन सूत्रेण तसो विधानम् । छ सति ? प्रभौ स्वामिनि रामे भीमे वा। कथंभूते ? स्थिते निविाटे | पुनः अतोऽसन्तुष्टे । पुनः वाणचयस्य शरसन्दोहस्य मोक्तरि चिसृष्टरि । कथम्भूतस्य ? प्रभावतः ग्रभाऽस्यास्तीति प्रभावान् तस्य दीतिमतः । आदिपदयमकम् ।।३१|| गजा नियन्तन्करशीकरोत्करैर्विमुक्तसूत्कारमिषूपदारितान् । 'निशारशीतैरुदमीमिलनहो महीयसां प्रीतिररुन्तुदेष्वपि ॥३२॥ गजा इति--गजा हस्तिनः नियन्तन् महामात्रकान् विमुक्तसूत्कारं यथा उदीमिलन् उज्जीवन्ति स्म | कथम्भूतान् निवन्वन् ? इधूपदारितान् शरपचरजर्जरितान् । कैः कृत्वा १ करसीकरोत्करः गुण्डादण्डानविमुक्त जलविन्दुवृन्दैः । कथम्भूतैः ? निशारशीतैः हिमकण ( हिमांशु ) शीतलैः । अर्थान्तरम् । अहो आश्चर्य महीयसां गम्भीरचेतसां प्रीतिः अरुन्तुदेष्वपि मर्मछित्स्वपि स्यात् ॥३२॥ बड़े भाई राम अथवा युधिष्ठिरके याण चलाने पर युद्धमें नृप लोग नृपत्व (क्षात्रधर्म) को नहीं निभा सके थे शर शरता (दूसरोंका प्राणहरण) को, कामुर्क कामुर्फता (नमन, स्फालन, आदि कार्योंकी कुशलता) को तथा तुरंगम तुरंगता ( वेगले दौड़ना ) को नहीं निभा सके थे ॥२९॥ पर्वतोंमें उत्पन्न हाथियोके मारे जाने पर, रथोंके टूट जानेपर तथा विजयके मनोरथ समाप्त हो जानेपर क्षण भरके लिए स्तब्धचित्त तथा नेता विहीन वंशक्रमसे राजपुत्र क्या पुराने चित्रके समान अत्यन्त मनोहर नहीं लगते थे [प्राचीन चित्रसे भी कोई आय नहीं होती है तथा निर्जीव होता है ॥३०॥ असंतुष्ट राजा राम अथवा भीमकी लमरस्थलीमें उपस्थिति, प्रतापवान् वाण वर्षाते योद्धाओंके कारण लक्ष्मीसे परित्यक्त अतएव प्रभावसे वंचित शत्रुराजा लोग प्रभुताकी दृष्टिसे तनिक भी नहीं जंचते थे ॥३॥ वाणोंकी मारसे घायल महायतोको हाथी हिमकणों के समान ठंडे सूंडसे निकले जलबिन्दुओंके द्वारा तथा 'सूस' शब्द करते हुए पुनः चैतन्य करते थे। ठीक ही है महात्मा कष्ट देनेवालों पर भी प्रीति दिखाते हैं ॥३२॥ १. यद्यपि निशार इति आवरणेऽर्थे " वायुवर्णनिवृत्तेपु" इति घना साधितस्तथापि निशांराति गच्छति निशारश्चन्द्रस्तद्वच्छीतल इति टीकार्थः कथञ्चिसमाधेयः । हिमाय स्वप्रसिद्धः । २. अर्थान्तरन्यासः-प०,दछ। - - - -- - - - -
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy