SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ बिसन्चाध्यम् हति- राजन्यकं राजपुत्रसमूहः कार्मुके धनुषि निषण्णमवष्टव्धम् । कस्मिन्निव सुहृदीव | कथम् ? क्षणम् । कथम्भूतम् ? हतैकपादं छिन्नैकचरणम् । कः ? तस्य नरेन्द्रद्वितयस्य रोपणैः शरैः । क १ युधि रणे । उत्प्रेक्षते - एकपादकमेकः पादो यस्मिन् क्रियाविशेषणे । परत्र परलोके रिपोः शत्रोः विजिगीषया जेतुमि च्छया तपस्यति रमेव तपस्याञ्चकारेव || २६ || १०६ सूर्यासं किमसिं किमर्गलां गदां नु पाशं नु परश्वधं धनुः । दधत्किमित्याकलितो न भीरुभिर्मतिः कुतो वा चलितेषु धातुषु ||२७|| स इति-स लक्ष्मणः भीरुभिः कातरैः किम् इति न आकलितः न निश्चयमानीतः । किं कुर्वन् ? किं सूर्यहासाख्यमसिं खङ्गां दधत् दधानः । किमर्गलां परिश्रम् नु अहो किं गदां नु किं पाशं तु किं परश्वधं किं परशुं किं धनुश्चापं दधदिति सम्बन्धः । अर्थान्तरमुपन्यस्यते धातुषु रसासम्मांसादिषु चहितेषु सत्सु कृती वा भतिः स्यात् । भारतीय:: - सः अर्जुनः भीरुभिरसिं दधत् न आकलितः । कथम्भूतम् ? असं सूर्यहास सूर्यस्येवदास - तेजी यस्य तं सूर्यसदृशदीप्तिमित्यर्थः । अन्यत्समम् || २७ || स शात्रवाणां हृदि शल्य मुद्धरन्स्वशस्त्र शल्येन जगाम बन्धुताम् । समुन्नता यत्कुपिताश्च कुर्वते न तत्प्रतीता ह्यपि दुर्जनाः श्रियम् ॥ २८ ॥ स इति स नरेन्द्रः स्वशस्त्रदात्येन शात्रवाणां हृदि हृदये शयमुद्धरन्नुत्पाटयन् बन्धुतां बान्धवत्वं जगाम गतवान् | अर्थान्तरमुपन्यस्यते--- समुन्नताः सत्पुरुषाः कुपिताः क्रुद्धाः च अपि सन्तः यत् प्रियं कुर्वते तत् प्रियं प्रतीताः तुष्टा अपि दुर्जना न कुर्वते । हिं स्फुटम् ॥ २८ ॥ नृपा नृपत्वं न शराः शरात्मतां न कार्मुकं कार्मुकतां तुरङ्गमाः । तुरङ्गतां तिष्टिधिरे न संयुगे विमुञ्चति ज्यायसि वाणसंहतम् ॥ २९ ॥ नृपा इति-न तिष्टिधिरे नास्कन्दन्ति स्म न प्राप्ता इत्यर्थः । के ? नृपाः भूपतयः । किम् ? नृपत्यं क्षात्रधर्मम् । तथा शराः न शरात्मताम् । प्राणान् शृणन्ति हिंसन्तीति सरास्तेषामात्मा शरात्मा तस्य भावस्तत्ता तां प्राणिप्राणमारणलक्षणं धर्ममित्यर्थः । तथा कार्मुकं धनुः न कार्मुकताम् । कर्मणि शक्तं कार्मुकं तस्य भावस्तता तां नमनाकर्षणसमर्थस्त्रम् । तथा तुरङ्गमा अश्वाः न तुरङ्गतां तुराङ्गच्छन्तीति तुरङ्गास्तद्भावं लक्ष्मण अथवा अर्जुनके वाणोंके द्वारा युद्धमें एक पैर कट जाने पर भी मित्र के समान धनुषका सहारा लेकर एक पैरके बल ही खड़े शत्रु राजा लोग ऐसे लगते थे मानो परलोक में शत्रुको जीतने की कामनाले 'एकपाद' मुद्रामें तपस्या ही कर रहे हैं ॥२६॥ सूर्यहास नामकी अलौकिक तलवारके धारक उस लक्ष्मणको कायर शत्रु लोग ठीक तरहसे नहीं समझ सके थे। वे सोचते थे क्या तलवार है, या अर्गला है, या गदा, पाश, फरसा अथवा धनुष है। टीक ही है वीर्य के गलित हो जानेपर सन्मति कहांसे आयगी ? अथवा तीक्ष्णता और प्रतापमें सूर्य को भी हँसनेवाले गाण्डीव धनुषके धारक उस अर्जुनको ॥२७॥ अपने वाणादि शस्त्रोंकी नोकसे शत्रुओंके हृदयकी जय-पराजयादिकी शल्य ( चिन्ता ) को दूर करते हुए उस लक्ष्मण अथवा अर्जुनने मित्रका काम किया था । यह उनके अनुरूप ही था क्योंकि क्रुद्ध होकर भी सज्जन जितना उपकार करते हैं दुर्जन अत्यन्त प्रसन्न होकर भी उतना नहीं करते हैं ||२८|| १. अर्थान्तरन्यासाऽलङ्कारः - प०, द० । २ अर्थान्तरन्यासालङ्कारः--प०, ६० !
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy