SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०४ द्विसन्धानमहाकाव्यम् के ते ! चूडामणयः । कथम्भूताः सन्तः ! याता गताः। कथम् ? कुतोऽपि कस्मिन्नपि स्थाने । किं कृत्वा ? पूर्व विहाय परित्यज्य | काम् ! नायकतां प्रधानत्वम् । अत्रैतदुक्तं भवति-भूभृतामेव नायकत्वमवशिष्टं न खलु चूडामणीनामिति भावः । अर्थान्तरमुपन्धस्यते-पदच्युताना स्थानभ्रष्टा नामियं प्रत्यक्षीभूता ईदृशी गतिरवस्था' ॥ २१ ॥ प्रसह्य ताभ्यां परलोकसाधनः शरैनृपाणां गुणवान्पराहतः। मदाभिमानाधिकवीर्यसंग्रहाद् वसुस्मराम्यामिव धर्मसञ्चयः ॥२२॥ प्रसहोति-पराहतः निराकृतः। कोऽसौ कर्मतापन्नः ? धर्मसञ्चयः चापसमूहः । काभ्याम् १ ताभ्यां नरेन्द्राभ्याम् । कथम् ? प्रसह्य बलात्कारेण । कस्मात् ? मदाभिमानाधिकवीर्यसंग्रहात् ( मदः स्मयः) तस्येदं लक्षणम् । “ज्ञानं पूजां कुलं जाति बलमृद्धिं तपो धपुः । अष्टावाश्रित्य मानिरवं मदमाहुर्गतसयाः ॥" [२. क, २५] अभिमानस्त्रिजगतामुपरि मां विहाय नान्यः कश्चिदौदार्यादिगुणवानस्तीति युद्धिः । वीर्य पराक्रमः । मदश्चाभिमानश्च मदाभिमानी मदाभिमानाभ्यामधिकच्च तवीर्यञ्च मदाभिमानाधिकवीर्य तस्य संग्रहोऽङ्गीकारस्तस्मात् । कैः कृत्वा ? शरैः वाणैः। केनां चापसञ्चयः १ नृपाणां भूपतीनाम् । कथंभूतः ? परलोकसाधनः परलोकं शत्रुवर्ग साधयतीति सः । पुनः गुणवान् जीवाचान् । उपमार्थः काभ्यामिव ? वसुस्मराम्यामिव । यथाऽर्थकामाभ्यां पराहतः कः धर्मसञ्चयः पुण्यसहयः । कथम् ? प्रराय हटात् कस्मात् मदामिमानाधिकवीर्यसंग्रहात् मदाभिमानप्रचुरसङ्गमात् । कथंभूतः ? धर्मसञ्चयः गुणवान व्रतादिमान् | पुनः परलोकसाधनः स्वर्गादिसाधकः । उपमालङ्कारः ॥२२॥ स सागरावर्तधनुर्धरो नरो नभासदां कामविमानसंहतिम् । अयत्नसंक्लसगवाक्षपद्धतिं चकार शातर्विशिखर्विहायसि ॥२३॥ स इति-स नरः ना कामबिमानसंहति कामाय सम्भोगाय विमानसंहतिः कामविमानसंहतिस्तां शातैनिशितैर्विशिखैर्वाणैः अयत्नसंक्लप्तगवाक्षपद्धतिमप्रयासविहितवातायनमार्ग चकार । क ? विहायस्याकाशे । कैषां विहायसि ? नभःसदां देवानां विद्याधराणां वा । कथम्भूतो नरः १ सागरावर्तधनुर्धरः सागरावर्तनामधेयं धनुर्धरतीति सः। दिये थे । फलतः वैरी राजा अपने नेतृत्वको त्यागकर न जाने कहाँ चले गये थे। उचित ही है क्योकि अपने पदसे ध्युत लोगोंकी ऐसी ही गति होती है ॥२९॥ कुल जाति आदिके भेदसे आठ प्रकारके मदी अहंकार तथा अधिक बल के संचयके कारण बसु और कामदेवके समान उन राघव-पाण्डय राजाओंने शत्रुलोगोंके विनाशमें सहायक तथा ज्या युक्त, शत्रु राजाओंके धनुष समूहको अपने बाणोंके द्वारा जबरदस्ती नष्ट कर दिया था [ अर्थ तथा काम पुरुषार्थ भी अष्टविध मद, अहंकार तथा अति शक्तिका संग्रह कराके दूसरे जन्ममें सहायक, वतादि पालन स्वरूप धर्म पुरुषार्थको बलवद् अभिभूत करा देते हैं ] ॥२२॥ सगर राजाकी वंश परम्परामें उत्पन्न उस धनुषधारी लक्ष्मणने आकाशचारी खर-दूषण आदि विद्याधरोंके इच्छा मात्रसे चलनेवाले विमानोंको आकाशमें ही रहने पर भी अपने तीक्ष्ण बाणों के द्वारा ऐसा छेद दिया था कि वे स्वाभाविक खिड़कियोंसे पूर्ण समान लगते थे। ___ अन्वय-सागरावत धनुर्धरः स विहायसि शातैः विशिखैः अनभःसदी कामविमानसंहति अयत्नसंक्लप्तगवाक्षपद्धतिं चकार । १. अर्थान्तरन्यासालक्षारः-५०, द.।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy