SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १०० द्विसन्धानमहाकाव्यम् तेनालीढपदेन कृत्वा मेदिनीं महीं तथा शरैर्वाणैः कृत्वा रिपूणां द्विषां गणमविवेष्टतां वेष्टितवन्तौ सौ कर्तृभूता नृपती । समुच्चयः || ६ || यशोवकाशस्य विधित्सया शरैर्दिशः परासारयतोरिवायतम् । विकृष्यमाणं युगमेव गच्ययोः ससार पश्चान्न पदं रणे तयोः ॥ ७ ॥ यश इति - गन्ययोमच्यः युगमेव द्वितयमेव आयतमाकर्णान्तं यथा भवति तथा आकृष्यमाणं ससार अपसृतं तथा तयोर्नरेन्द्रयोः रणे पदं चरणं पश्चात्पश्चाद्भागे न ससार । कथम्भूतयो रिवोत्प्रेक्षितयोः ! यशोऽवकाशस्य विधित्सया कत्तुमिच्छया शरैः वाणैः दिशः आशा परासास्वतोरित्र उत्सारयतोरिव । उत्प्रेक्षा ॥ ७ ॥ नृपौ रुषाऽपातयतां शिलीमुखान्समं सपत्ना हृदयान्यपातयन् । विदूरमुच्चैः पदमध्यरुक्षतां भियाध्यरुक्षन्युधि वामलूरकम् ॥ ८ ॥ नृपाविति नृपौ शिलीमुखान् वाणान् रुपाऽमर्षेण अपातयतां पातितवन्तौ । सपत्नाः शत्रुमः हृदयानि अपातयन् । कथम् ? समं युगपत् । अत्रायमर्थः तथा नरेन्द्राभ्यां भुक्तया वाणावया सार्द्धमेव हृदयानि शत्रवः पातयन्ति स्म । तौ नृपौ नरेन्द्रौ उच्चैः पदमुच्चपदवीमध्यस्थतामारूढवन्तौ । कथम् ? विदूरमलङ्घयम् । सपत्नाः 1 विपक्षः वामलूरक aeमीकं भिया भयेनान्यन्नारुरुक्षुः । कथम् ! रामं युगपत् । सहोतरलङ्कारः ॥ ८ ॥ इषून्विमर्देऽमुचतां शरासनं शरानसून प्यमुचन्नरातयः | अजस्रम (मस्र') व्यमुचत्प्रियाजनस्तथास्थिताः स्पर्द्धममी न तत्यजुः ॥९॥ इषूनिति तौ नृपती विमर्दे सङ्ग्रामे इथून् वाणान् अमुचतां मुक्तवन्तौ तथा तयोर्मुक्तवाणावल्य नान्तरीयकत्वेन अरातयः शरासनं धनुस्तथा शरान् असून्प्राणानपि अमुचन् तथा प्रियाजनः भार्यासमूहः अस्रम अजत्रम्, अनवरतं व्यमुचत् । तथापि अभी इमे प्रत्यक्षरूपनिरूपिता अरातयः स्पर्द्धमीयां न तत्यजुः त्यक्तवन्तः । कथम्भूताः । तथास्थिताः तादृश प्राणान्तिकीमवस्थां प्राप्ता इति ॥ ९ ॥ विशेष सूत्रैरिव पत्रिभिस्तयोः पदातिरुत्सर्ग वाहतोऽखिलः । पलायितोऽन्योन्यमवेक्ष्य निस्त्रपः सहाभिभूतस्त्रपते हि कस्य कः ॥१०॥ विशेषसूत्रैरिति तयोः नृपयोः पत्रिभिः शरैराहतस्ताडितः पदातिः भृत्यः पलायितो विद्रुतः । तथा शुद्ध पैंतराके द्वारा पृथ्वीको और वाणवर्षाके द्वारा शत्रुओंके समूहको घेर लिया था ॥ ६ ॥ अपनी कीर्ति प्रसार के लिए पर्याप्त स्थान करनेकी इच्छासे ही युद्ध में वाणवर्षाके द्वारा दिशाओंको ढकेलते हुएसे उन राबव-पाण्डव बन्धुओंके धनुषकी विशाल ज्याकी जोड़ी ही खींच जानेपर आगे पीछे होती थी किन्तु इनके पैर युद्धमें कदापि पीछे नहीं पड़ते थे ॥ ७ ॥ जब युद्ध में कुपित होकर राधव पाण्डव राजा शत्रुओंके ऊपर वाण गिराते थे तभी शत्रु लोग अपने हृदयों को गिरा देते ( निराश हो जाते ) थे ये दोनों विजयी राजा दुष्प्राप्य उन्नत महाराज पदपर आरूढ़ होते थे तथा भयत्रस्त शत्रु दूर या पर्वतों पर जाकर विलों में छिप जाते थे ॥ ८॥ राघव पाण्डव वीर घोर संग्राममें यदि केवल वाण छोड़ते थे तो अभागे शत्रु राजा धाण, धनुष और अपने प्राण भी त्याग देते थे। इनकी प्यारी पत्नियाँ निरन्तर अश्रु बहाती थी किन्तु ये शत्रु राजा उस दुर्दशाको प्राप्त होकर भी ईर्ष्याको नहीं छोड़ते थे ॥९॥ उनके वाणोंके द्वारा सब तरफसे बेधी गयी पदाति सेना वैसे ही भाग खड़ी हुई थी १, सहजा वकोक्तिः प० द० १ २. कक्कोक्तिः- प०, ६० ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy