________________
Maha
..
.
पष्ठः सर्गः 'ततः प्रयुक्त भ्रुकुटि स दुर्धरो निजोद्धतं विक्रमकालसाधनः ।
अरातिघाताय तमग्रजं व्रजन्नमर्षमुद्योग इवान्वगद्युतत् ॥१॥ तत इति-ततः पृतनादर्शनानन्तरं स लक्ष्मणः तं लोकविख्यातमग्रजं राममन्चम् पश्चाद्गामी अरातिघाताय शत्रुवधाय व्रजन् गच्छन् अद्युतच्छोभते स्म । कथम्भूतम् ? प्रयुक्तभ्रुकुटिं प्रयुक्ता प्रयोजिता भ्रुकुटिभ्रू अन्थियेन ते पुनः निजोद्धतमात्मना गर्विष्ठम् । कथम्भूतः ? दुर्द्धरः दुःखेन धतुं शक्यः पुनः विक्रमकालसाधनः विक्रमकाल एव साधनं यस्य सः पौरुपसमयसैन्य इत्यर्थः। अर्थान्तरं प्रदश्यते-क इव, अमर्ष क्रोधमनुगामी उद्योग उद्यम इव । भारतीयः-स अगुंगः तं युधिष्ठिर भीमं वा अन्वक् अशुतत् , अन्यत्रागानम् । उपभालङ्कारः ॥१॥
कृतातिपातावधिको समुद्धती हतावधी चापनयावलम्बिनी।
उभौ न्यरुद्धां निवहं विरोधिनां तमर्थकामाविव धर्मसंग्रहम् ॥ २ ॥ कृतातिपाताविति-उभौ द्वौ रामलक्ष्मणौ तं लोकप्रसिद्धं विरोधिनां वैरिणां निवहं समूह न्यरुद्धा निरुद्धवन्तौ । कथंभूतौ ? कृतातिपातौ विहितोपप्लवौ पुनः अधिकौ क्षात्रधर्मेण जगतामुपरि स्थितौ पुनः समुद्धतौ आत्मतेजसाऽत्ममन्यौ पुनः हतावधी अतिक्रान्तमयादी रामलक्ष्मणयोः शौण्डीर्यादिगुणानामियत्ता न केनापि कर्तुं शक्यत इति भावोऽत्र लक्ष्यते । पुनः चापनयावलम्यिनौ धनुर्विद्या वष्टम्भिनौ । को कमिव निरुद्धः यथाऽर्थकामौ धर्मसंग्रहं पुण्यसञ्चयमिव । कथंभूतौ १ अपनयावलम्बिनौ नीतिमार्ग विहायानीतिमार्ग प्रविष्टौ । भारतीय पक्षे-उभौ तौ भीमार्जुनौ, शेष रामम् । उपमा' |॥२॥
जयश्रियं दक्षिणमंसमंसलौ तनुं महावेगमहंयुतां मनः।
शरासनं ज्यां नृपती भयं रिपुं समं समारोपयतः स्म संयति ॥ ३॥ जयेति-नृपती नरेश्वरौ जयश्रियं दक्षिणमंसं स्कन्धं तथा तनुं शरीरं महावेगं तथा अहंयुतामहङ्कारं मनः तथा ज्यां मौवीं शरासनं तथा भयं रिपुं संयति संग्रामे समारोपयतः स्म | कथम् ? सममेकहे (वे) ल्या । कथम्भूतौ ? अंसलौ पीनभुजशिरसौ कूमोन्नतस्कन्धा वित्यर्थः । अत्रांसमहावेगमनः शरासनरिपुप्रयोगाणां
शत्रुसेनाको देखनेके बाद असह्य पराक्रमी, निजी पुरुषार्थ तथा अदृष्ट रूपी सेनासे युक्त वह लक्ष्मण अथवा अर्जुन स्वभावसे उग्न फलतः टेढ़ी भ्रुकुटियुक्त विख्यात यड़े भाई राम अथवा भीमके पीछे-पीछे शत्रुओका संहार करनेके लिए जाता हुआ ऐसा शोभित हुआ था जैसा रोषके पीछे जाता पुरुषार्थ लगता है ॥१॥
उपद्रय अथवा संहारके कर्ता, समस्त क्षत्रियों में श्रेष्ठ, अन्यायके कारण अत्यन्त उग्र, निस्सीम गुणोंके भण्डार, युद्धक्षेत्रमें केवव धनुष ( शस्त्र) नीतिके अनुयायी थे राम तथा लक्ष्मण अथवा भीम तथा अर्जुन शत्रुओंकी सेनाको उसी तरह समाप्त कर रहे थे जिस प्रकार अर्थ तथा काम पुरुषार्थका सेवन पूर्व संचित धर्म (पुण्य) को समाप्त करता है [पूर्वोपार्जित पुण्यके फलोन्मुख होनेपर ही अर्थ-कामोपयोगी साधन मिलते हैं । अर्थात् अर्थ कामके सेवनले पुण्य समाप्त हो जाता है ] ॥२॥
पुष्ट तथा उन्नत स्कन्धधारी राम-लक्ष्मण अथवा भीमार्जुन युद्धक्षेत्रमें एक साथ ही आत्मगौरवपूर्ण मन, अत्यन्त वेगवान शरीर, दाँया कन्धा, धनुष तथा मौर्वी और शत्रुओंके
१. सस्मिन् वंशस्थगृत्तम् । लक्षणं हि-"जतौ नु ग्रंशस्थमुदीरिसं जरी।" [वृ० र० ३-४७] ।