SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ २७ पञ्चमः सर्गः 'इति स पृतनां दृष्ट्वा विद्यामिव प्रतिबन्धिनी जलनिधिरिव क्षुभ्यलक्ष्मीधरोऽनुगतोऽग्रजम् । धनुरपि दधत्त्रेपे जिष्णुः सहायविशङ्कया न च भुजबलाद्वीरोऽन्यस्माद्धनं जयमिच्छति ॥ ६९ ॥ इति धनञ्जयविरचिते राघवपाण्डचीये महाकाव्ये तुमुलयुद्धं नाम पञ्चमः सर्गः ॥५॥ इतीति-स लक्ष्मीधरः लक्ष्मणः पे लज्जितः । कया सहायविशङ्कया सहकारिभीत्या । कथम्भूतः ! जिष्णुर्जयनशीलः । किं कुर्वाणः ? दधत् । किमपि ? धनुरपि शरासनमपि । कथम्भूतः १ अग्रज राममनुगतः! पश्चाद्गतः । पुनः जलनिधिरिव समुद्र इव क्षुभ्यन् क्षोभं गच्छन् । किं कृत्वा ? प्रतिबन्धिनी प्रतिकलां पृतना सेनां दृष्ट्या सका। र ? अनि इन्जालमिव | कथम् ? इत्युक्तप्रकारेण । अधुनाऽथान्तर प्रदश्यते । युक्त मेतम् । इच्छति । कोसी ? वीरः । किम् ? धनं द्रव्यं जयञ्च । कस्मात् ? भुजबलात् चाह-' सामर्थ्यात् । यत्माद्वीरो नेच्छति धनं जयञ्च | कस्मात् ? अन्यस्मात्सहायादेः । भारतीयः-स जिष्णुरर्जुनः पे सहायविशङ्कया । किं कुर्वन् ! धनुरपि दधत् । कथम्भूतः ? अग्रज गुधिष्ठिरमनुगतः भीमं वा । पुनः कथम्भूतः ? लक्ष्मी विभूति शरीरशोभा वा धरतीति लक्ष्मीधरः । शेष समानम् । अथान्तरन्यासः ॥६९।। इति निरवविद्यामण्डनमण्डितपण्डितमण्डलीमण्डितस्य पटूतर्क चक्रवर्तिनः श्रीमद्दिनथचन्द्रपण्डितस्य गुरांरन्तेवासिनो देघनन्दिनाम्नः शिष्येण नेमिचन्द्रेण विरश्चितायां द्विसंधानकवेर्धनञ्जयस्य राघवपाण्डवीयापरनाम्नः काव्यस्य पदकौमुदो नाम दधानायां टीकायां तुमुलयुद्धन्यावर्णनो नाम पञ्चमः सर्गः ॥५॥ अन्वय-अविद्यामिष प्रतिबन्धिनी पृतनां दृष्ट्वा लक्ष्मीधरः जलनिधिरिव क्षुभ्यत्, अग्रज अनुगतः स जिष्णु: धनुरपि दधत् सहायविशङ्कया वेपे । हि वीरः भुजबलात् धनं अयं इच्छति च न अन्यस्मात् । अविद्याके समान कैवल्य-प्राप्तिमें बाधक पिरोधियोंकी सेनाको देखकर लक्ष्मीके निवास क्षीर समुद्र के समान बड़े भाई (राम अथवा भीम )का परम भक्त विजयका इच्छुक वह लक्ष्मण अथवा अर्जुन धनुपको उठाते हुए भी इसलिए लजा गया था कि लोग कहेंगे कि उसने धनुषकी सहायता तो ली थी। क्योंकि वीर पुरुष केवल अपने भुजबलके द्वारा ही धन तथा विजयकी कामना करते हैं। किसी दूसरेके द्वारा नहीं ॥६९॥ = निदोषविद्याभूपणभूषित, पण्डितमण्डलाक पूज्य, पट्तचनबा, श्रीमान पन्धित विनयजन्द्र गुहले शिप्य देवनन्दीके शिष्य, सकलकलाकी चातुर्यचन्द्रिकाके चकोर नेमिचन्द्र-द्वारा विरचित कधि धनञ्जयके राघवपाण्डवीय नामसे ख्यात द्विसंधानकाव्यकी पदकौमुदी टीकामें तुमुलयुद्ध व्यावर्णन नामक पञ्चम सर्ग समास । १. अन्न हरिणी वृत्तम् । तल्लक्षणं हि-"रसयुगहयैन्सौं नौ स्लो गो यदा हरिणी तदा।" [. र. ३-२३ ] ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy