SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ द्विसम्धानमहाकाव्यम् स्वयं सपानम्ब शरासनानि स्तम्भश्च हित्वा मधुरं ध्वनन्ति । प्रारमिरेऽन्यान्विनतान्विधातुं परान्विनम्राः खलु नामयन्ति ॥५९।। स्वयमिति-प्रारेभिरे प्रारब्धवन्ति । कानि ! शरा असान्ते क्षिप्यन्त एभिरिति शरासनानि धनूंषि । किं कत्तुम् १ विनतान् नम्रान् विधातुम् । कथंभूतानि ? मधुरं यथा तथा चनन्ति नदन्ति । किं कृत्वा ? समानम्य विनम्रीभूय । कथम् ? स्वयमात्मना । वि. स. रतत्व हिया स्यिय । अर्थातरमाह —खलु निश्चयेन त्वयं विनम्राः परान्नामयन्ति ।।५९।। ऋजुप्रकारेषु गुणेषु वाणाः शल्यं वहन्तो दधतो विपक्षान् । क्षणं न तस्थुश्चपलाः स्थिरेषु वाताः खलानामिव सजनेषु ॥६०॥ ऋविति-न तस्थुः न स्थिताः । के ? बाणाः शराः, कथम् ? क्षणं मुहूर्तम् , कथम्भूताः ? चपलाश्चञ्चलाः, केषु मध्ये न तरथुः ? गुणेषु मौवींषु ; कथम्भूतेषु ? ऋजुप्रकारेषु प्राञ्जलवृत्तिषु । पुनः स्थिरेषु निश्चलेषु, किं कुर्वन्तः ? शल्यं पलक वन्तो धरन्तः । युनविपक्षान् वीनां पक्षिणां पश्चान् गरुतः दधतः धरन्तः । उपमार्थः, इव यथा खानां दुर्जनानां वाताः समूहाः सजनेषु क्षणं न तिष्ठन्ति । केषु ? स्थिरेषु । पुनः ऋजुप्रकारेणु । कथम्भूताः वाताः ? चपलाः । श्लेषोपमालङ्कारः ॥६०॥ समुद्गिरन्तो नु शफान्मुखेभ्यश्छायां त्यजन्तः किमु पश्चिमार्धम् । देहान्क्षिपन्तो नु दृशां पुरस्ताद्विश्वेऽपि तेऽश्वल्लिपुरश्ववर्या ॥६१।। समुगिरन्त इति-ते लोकप्रसिद्धा अश्ववर्या अश्वल्लिघुः आशुगतवन्तः । कथम्भूताः १ विश्वेऽपि सर्वे:पि । अत्र नु शब्दः उत्प्रेक्षाविषयी(यः) धनञ्जयेनाङ्गीकृतोऽस्ति । तेनायमर्थः-अश्ववर्याः किमु कुर्वन्तो गतवन्तः किन्न्त्रहो समुद्विरन्तो नु समुद्लिन्त इव समुगिरीतुमनस इत्यर्थः । कान् ? पान् खुरान् । केभ्यः ? मुखेभ्यः वदनेभ्यः त्यजन्तो नु त्यत्तुमनस इव । काम् ! छायां मारकरा दितेजसात्मीयद्वारीरोद्भवमाभासम् । कथम् ? पश्चिमार्ट पाश्चात्यभागं क्षिपन्तो नु क्षेप्तुमनस इव | कान् देहान् वपूंपि । कथम् ? पुरस्तात् पुरतः । कासां दृशां लोचनानामिति । वेगातिशयवचनविन्यासोऽत्राभिहित इति ॥६१|| रुद्धं शिलोत्कीर्णमिवावतस्थे मुक्त चलं चित्तमिवाभ्यधावत् । अश्वीयमावर्तितमावृतत्तत्कुलालचक्रभ्रमलाघवेन ॥६२॥ रुद्धमिति-अवत्तस्थे स्थितम् । क्रिम् ? तत् अश्वीयं तुरङ्गसमूहः । किमिव १ शिलोत्कीर्णमिव दृषद्घटितमिव । कथम्भूतं सत् ? रुद्धं नियन्त्रितं सत् । तथाऽभ्यधावत् सामस्स्येन त्वरते स्म । किम् ? अश्वीयम् । कठोरताको छोड़कर स्वयं नमनेवाले धनुषोंने मधुर ध्वनिके साथ शत्रुओको विनम्र बनानेका कार्य प्रारम्भ कर दिया था। ठीक ही है क्योंकि स्वयं विनयशील व्यक्ति [जो कि अहंकारको छोड़ता है, मधुर बोलता है] अपने आप दूसरोंको शिष्ट थनाता है ॥१९॥ अत्यन्त सीधी तथा कसकर बंधी दृढ़ प्रत्यञ्चापर पक्षयुक्त अग्रिम भागमें धाराल और तीव्र गति युक्त वाण सज्जनों के बीच में दुर्जन-समूहके समान क्षणभर भी नहीं रुकते थे [सजन अत्यन्त सरल, स्थिर और गुणी होते हैं । दुर्जन शंकाशील अथवा स्वयं भी चंचल तथा विरोध करनेमें दक्ष होते हैं] ॥६॥ अपनी टापोंको मुखसे लीलतेके समान [लम्बी फलांगमे मुँह और पैर बराबर फैल जाते हैं, अपने ही शरीरको अपनी नजरसे भी आगे दौड़ाते हुए सबके सब वे श्रेष्ठ घोड़े घेगसे आगे बढ़े चले जा रहे थे ॥६॥ लगाम खींचनेपर यह अश्वसेना पत्थरके घोड़ेके समान रुक जाती थी, छोड़ते ही 1. उत्प्रेक्षालारस-प०, द.।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy