SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ द्विसन्धानमहाकाव्यम् पयोनिधिपालिन्दीव आसीत् । तथा चलद्भिः गच्छद्भिः जनैः मनुष्यैः त्रैलोक्ययात्रेव आसीत् । समुच्चया लङ्कारः ॥ ४५ ॥ ९० वंशावतारं जगतीपतीनां चवन्दिरे वन्दिजना गुणांश्च । श्वेतातपत्राणि समुल्लसन्ति क्षीरार्णव स्योत्कलिकाः प्रजिग्युः ॥ ४६ ॥ वंशेति - वन्दिजनाः जागरिकाः जगतीपतीनां राज्ञां गुणान् शौर्यादीन् वंशावतारं वंशस्यान्वयत्याबतारो यस्मिन् कर्मणि तद्यथा तथा, तथा ववन्दिरेस्तुवन्ति स्म । च समुच्चयार्थे तथा समुल्लसन्ति श्वेतातपत्राणि शुभ्रच्छत्राणि क्षीरार्णवस्य क्षीरपयोनिधेस्त्कलिकास्तरङ्गान् प्रजिग्युः जयन्ति स्म ॥ ४६ ॥ सङक्रीडितं स्यन्दनचक्रजातं वने मयूरा विनिशम्य रम्यम् । नारकाः पतिता इवोयैः पिच्छातपत्रप्रकरा विरेजुः ॥ ४७ ॥ I सङक्रीडितमिति - पिच्छातपत्रप्रकराः विरेजुः शोभन्ते स्म । क हब ? उत्प्रेक्ष्यन्ते - मयूरा इव शिखडिनो यथा । कथम्भूताः सन्तः ? पतिताः । कैः ? ओवैः प्रवाहैः । पुनः कथम्भूताः सन्तः ? घनारवोत्काः मेघध्वनिसमुत्कण्ठिताः सन्तः । किं कृत्वा ? पूर्व स्यन्दन चक्रजातं रथरथाङ्गसमुत्पन्नं संक्रीडितं चीत्कृतं विनि शम्य श्रुत्वा । कथंभूतं सङ क्रीडितम् ? रम्यं मनोहरम् । क ? अतिरम्ये वनेऽरण्ये | उत्प्रेक्षालङ्कारः ॥४७॥ शङ्खानका रावमयी पतीनां दिशां श्रुतिः सैन्यमयी च दृष्टिः । रजोमयी कामविमानभूमिः शङ्कात्मसंहारमयी बभूव ॥ ४८ ॥ शङ्खति - बभूव सञ्जाता । का ? श्रुतिराकर्णनम् । कथंभूता ! शङ्खानकाराचमयी कम्बुपटहशब्दनिर्वृत्ता । केषां श्रुतिः ? दिशाम्पतीनां लोकपालानाम् । चकारः समुच्चयार्थस्तथा तेषां दृष्टिः बभूव संजाता । कथम् । सैन्यमयी चमू निर्वृत्ता च तथा कामविमान भूमिः गगनं रजोमयी धूलिनिर्वृता तथा शङ्का भयमात्मसंहारमयी स्वमरण निर्वृत्ता बभूव ॥४८॥ इत्यद्रिकुञ्जान्सरितः सरांसि स्वपच्छत्यूच्छ्वासचलं वनश्व | विप्लावयन्ती तमियाय देशमक्षौहिणी वारिधिमापगेव ॥ ४९ ॥ इतीति- इति पूर्वोक्तप्रकारेण तं दण्डकारण्याख्यं देशमियाय गतवती । का ? अक्षौहिणी सेना ! किं कुर्वती सती ? अद्विकुञ्जरान् शैलकटकसमूहान् तथा सरितः नदीः सरांसि सरोवराणि तथा स्वपच्छत्यूच्छ्रवाबढ़ती हुई पंक्तियोंके कारण समुद्र के तीर सहश थी तथा चलते-फिरते मनुष्योंको देखकर ऐसा लगता था मानो तीनों लोक यात्रापर चल पड़े हैं ॥४५ ॥ चारण लोग पृथ्वीपतियोंकी वंशावली तथा उनके उदाप्त कार्यों का व्याख्यान करके स्तुति पढ़ते थे। समस्त युद्ध भूमिपर शोभायमान श्वेत राजछत्रोंने अपनी कान्तिके द्वारा क्षीरसमुद्रकी उठती हुई लहरोंको जीत लिया था ||४६ ॥ चनमें जाते हुए रथोंके पहियोंसे उत्पन्न गम्भीर तथा मधुर नादको सुनकर मयूर वैसे ही उत्कण्ठित हो गये थे जैसे मेघोंकी गर्जनों को सुनकर होते हैं, झुण्ड के झुण्ड बाहर निकल आते हैं और पंख फैलाकर नाचते हैं। ये सब मयूरकी पूँछके बने छत्रांक समूहके समान शोभित हो रहे थे ||४७ ॥ समस्त दिकपालोंके कान शंख, पटह आदि बाजोंके तार स्वरले व्याप्त थे, आँखें सेना ही सेना देखती थीं, इच्छा मात्रसे चलने वाले विमानोंका मार्ग धूलिसे आच्छन्न था तथा कल्पना अपना ही विनाश आता था ॥४८॥ इस प्रकार से पर्वतों, तरुलता के गुल्मों, नदियों, तालाबों तथा सोते हुए अजगर की १. समुच्चयाऽलङ्कारः-५० द० । २. समुच्चयाऽलङ्कारः - प०, ६० ।
SR No.090166
Book TitleDvisandhan Mahakavya
Original Sutra AuthorDhananjay Mahakavi
AuthorKhushalchand Gorawala
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages419
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Story, & Poem
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy