________________
TAGES
उपदेशसर्वस्वं सामान्योक्त्याहइय नाउमाउयं थेवमेन सझं बहुं च धम्मक्षणं । गुरुलाभमप्पच्छेयं सेयं ति करिज जं जोगं ॥२५॥ __ व्याख्या-'इति' पूर्वोकं सर्वानित्यत्वादिकं ज्ञात्वा तथा 'आयुः स्तोकमेव' स्वल्पं साध्यं च कार्य 'बहु' प्रभूतं, 'धर्मधनं सुकृतद्रविणं स्वल्पेन बहोरुपार्जनमिति महती वैदग्घी, तेनो-'गुरुलाभमल्पच्छेदं च श्रेय इति, यत्र कार्ये क्रियमाणे महान् लाभः स्तोकश्च च्छेदः तदपि श्रेयो, यत्र पुनः सर्वथा छेदो नास्त्येव तत्र किं वक्तव्यम् ? तदतिशयेन श्रेयः, इति एतद् ज्ञात्वा 'कुर्यात्' विदध्यात् विवेकी यत् कार्य योग्यम्'-उचितं तद् भवद्भिरपि धर्म एव विधेय इति तात्पर्यमिति गाथार्थः॥२५॥ इति युगप्रवरागमश्रीमजिनपतिसूरिशिष्यलेशविरचितायां द्वादशकुलकवृत्तौ चतुर्थकुलकविवरणं समातमिति ॥
अथ पञ्चमं कुलकम् । एवं तावत् चतुर्थे कुलके चतुरङ्गकप्राप्तिपुरस्सरं प्रमादादिनिषेधोऽभिहितः पश्चमे तु आदित एवारभ्य कथं कधं किं किं जीवस्थानकं गुणस्थानक वा प्राप्नुवन्ति पुण्यैः, अपुण्यैस्तु तदेव-उद्धमन्ति इत्युपदिदर्शयिषुः पूर्व तावत् सामान्येनैव संसारावस्थानमाहइह भवकारागारे गुरुमोहकवाडरुद्धसुहदारे । कालमणताणतं वसंति जीवा तमंधारे ॥१॥
85
बाळ5०८